Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• साधोः अरति-रत्यवकाशो नास्ति •
१९३५ नाऽरत्यानन्दयोरस्यामवकाशः कदाचन । प्रचारो भानुमत्यभ्रे न तमस्तारकत्विषोः ।।२४।।
वीराणामित्याद्यारभ्य नवश्लोकी प्रायो व्यक्तार्था ।।१६-१७-१८-१९-२०-२१-२२-२३-२४।। वीतमत्सरः - (ज.सं.दीक्षाविधान.१६/७) इति जयाख्यसंहितावचनं, विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ।। - (भ.गी. ५/१८) इति च भगवद्गीतावचनमप्यत्राऽनुसन्धेयम् ।
इदञ्चाऽत्राऽवधेयम् - नय-निक्षेप-प्रमाण-सप्तभङ्ग्यादिनाऽऽत्मनः स्थूल-सूक्ष्म-शुद्धाऽशुद्धविविधस्वरूपपरिच्छेदेऽपि यावन्न जायते सर्वत्र समभावः, तावन्नवाऽऽत्मसाक्षात्कारः सम्भवति । अतः तदर्थमेव सर्वैः यतितव्यमित्यत्र तात्पर्यमवसेयम् । प्रकृते → समभावदशाप्राप्तौ माध्यस्थ्यं जायते हृदि । साक्षित्वं जायते पश्चात्, दृश्याऽदृश्येषु वस्तुषु ।। आत्माऽनुभवसज्ज्ञानं, ततः सम्यक् प्रजायते । ततो नय-प्रमाणानां, शास्त्राणां न प्रयोजनम् ।। नय-प्रमाण-निक्षेप-भङ्गादीनां विकल्पतः । निर्विकल्पाऽऽत्मरूपं तु, प्राप्यते नैव योगिभिः ।। नयादीनां विकल्पेन श्रुतज्ञानविशारदैः । आत्मा न ज्ञायते साक्षानिर्विकल्पसुखोदधिः ।।
6 (कृ.गी.१६०-१६३) इति कृष्णगीतावचनानि स्मर्तव्यानि ।।२८/२३ ।।
कर्मक्षपणायोद्यतस्य धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तराग-द्वेषाद्याभासस्य यत् स्यात् तद् दर्शयति- 'ने'ति । अस्यां = तत्त्वज्ञानाऽनुविद्धदीक्षायां कदाचन अपि अरत्यानन्दयोः = असातवेदनीयाऽरतिमोहनीयोदिताऽरतेः सातवेदनीय-पुरुषवेद-हास्य-रतिमोहनीयोपहितसुखस्य च अवकाशः = सम्भवो न = नैवाऽस्ति, → अरइं आउट्टे से मेहावी - (आचा. १।२।२।२९) इति आचाराङ्गसूत्रनियोगपरिणमनेन रत्यरत्याद्यनाक्रान्तविशुद्धाऽऽत्मस्वभावप्रवेदनात् । न हि भानुमति = आदित्याऽलङ्कृते अभ्रे = गगने तमस्तारकत्विषोः प्रचारः सम्भवति । तमसोऽरतिस्थानीयत्वं तारकत्विषश्चाऽऽनन्दतुल्यत्वमत्राऽवसेयम् । अपेक्षौत्सुक्यविरहेण सहजनिजाऽसङ्गसाक्षिभावमात्राऽवलम्बनेन तयोरत्राऽनवकाश इत्याशयः। ___ तदुक्तं आचाराङ्गे → का अरई ? के आणंदे ? इत्थंपि अग्गहे चरे, सव्वं हासं परिचज्ज आलीणगुत्तो परिव्वए 6 (आचा. १/३/३/११७) इति । अत्र श्रीशीलाङ्काचार्यकृता व्याख्या एवम् → इष्टाऽप्राप्तिविनाशोत्थो मानसो विकारोऽरतिः, अभिलषिताऽर्थाऽवाप्तावानन्दः, योगिचित्तस्य तु धर्मशुक्लध्यानाऽऽवेशाऽवष्टब्धध्येयान्तराऽवकाशस्याऽरत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते केयमरति म को वाऽऽनन्द इति? नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । ‘एवं तीरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाऽभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्? न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरति-रती। तदाह- ‘एत्थंपी'त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते 'ग्रहो' गावँ तात्पर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद् = अवतिष्ठेत । इदमुक्तं भवति - शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिनिमित्तादायातौ तदाग्रहग्रहरहि
ગાથાર્થ - દીક્ષામાં અરતિ કે આનંદને ક્યારેય અવકાશ નથી. ખરેખર સૂર્યથી શોભતા આકાશમાં અંધકાર કે તારાની કાંતિના પ્રચાર/પ્રસારને અવકાશ રહેતો નથી. (૨૮/૨૪)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266