Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• 'अक्षरमयी देशना' श्वेताम्बरमतम् •
२०३३ किमपेक्षते ।।" ? (र.क.श्रा.१/८) इति, मैवम्,
शब्दस्य शब्दान्तरपरिणामकल्पनस्य साजात्येन न्याय्यत्वेऽपि ध्वनेस्तत्कल्पनस्यातिशयतोऽप्यन्याय्यत्वात्, भगवद्देशनाया ध्वनिरूपत्वेऽपि वाग्योगापेक्षत्वेन तादृशशब्दमात्रे पुरुषप्रयत्नाऽनुसरणध्रौव्यात् । अरिहा ( (औ.सू.३४, भग.९/३३/४६३, रा.प्र.२०) इति औपपातिक-भगवती-राजप्रश्नीयसूत्रवचनं, → नियभासाए नर-तिरि-सुराण धम्माऽवबोहया वाणी - (प्र. सारो.४४३) इति तीर्थकृदतिशयद्योतकं प्रवचनसारोद्धारवचनमपि सङ्गच्छते । प्रकृते → देवा दैवीं नरा नारी शबराश्च शाबरीम् । तिर्यञ्चोऽपि तैरश्चीं मेनिरे भगवद्गिरम् ।। - (प्र.सारो.४४३ वृत्तौ. उद्धृतश्लोकः) इत्यपि वचनं विभावनीयम् ।
इत्थञ्च दर्शिताऽतिशयप्रभावतः शब्दस्य = शब्दात् साजात्येन शब्दान्तरपरिणामकल्पनस्य स्वसजातीयाऽन्यशब्दपरिणामोत्पत्तिकल्पनस्य न्याय्यत्वेऽपि = युक्तिसङ्गतत्वेऽपि ध्वनेः = अनक्षरध्वनेः तत्कल्पनस्य = स्वविजातीयशब्दपरिणामोत्पादकल्पनस्य अतिशयतोऽपि = तीर्थकरातिशयमाहात्म्यादपि अन्याय्यत्वात् = युक्तिबाह्यत्वात् । एतेन → श्रोतृणां घटादिज्ञानस्य स्वेष्टसाधनताज्ञानात् तत्र प्रयोक्तुरिच्छा, तत इष्टघटादिज्ञानसाधनतया घटादिपदे तत्साधनतया च कण्ठताल्वाद्यभिघातादाविच्छा, ततः प्रवृत्त्यादिक्रमेण घटादिपदप्रयोग इत्येतादृशपरिपाट्याः केवलिनामभावान्न ते शब्दप्रयोक्तारः किन्तु विस्रसात एव मूों निरित्वरा ध्वनयः श्रोतृणां स्व-स्वभाषात्वेन परिणमय्यार्थविशेषं बोधयन्ति - इति निरस्तम्, श्रोतॄणां भावश्रुतकारणतया द्रव्यश्रुतत्वमास्कन्दन्त्यां वाग्योगजन्यायां तीर्थकरभाषायां अनक्षरमयत्वाऽयोगात् । न ह्यत्र हेत्वभावो बाधकः, भाषापर्याप्त्याऽऽहितवाग्योगादेः जागरूकत्वात् । न चाभिलापजनकश्रुतज्ञानाभावो बाधकः, अभिलापसमानाकारज्ञानमात्रस्यैवाभिलापप्रयोजकत्वात्, श्रुतत्वनिवेशस्य गौरवेणाऽन्यथासिद्धत्वात् ।
अत एवोक्तं आवश्यकनियुक्तौ → केवलनाणेणत्थे गाउं जे तत्थ पन्नवणजोग्गे । तो भासइ तित्थयरो वयजोगं सुअं हवइ सेसं ।। - (आ.नि.७८) इति । एतेन वीतरागत्वेऽपि तीर्थकरस्याऽक्षरानुविद्धदेशनाकरणे सर्वदैव सर्वत्रैव सर्वथैव सर्वानेव जीवान् प्रतिबोधयेदिति उच्छृङ्खलाक्षेपोऽपि निराकृतः, तादृशाऽदृष्टनियत्यादिविरहेण तदयोगात्, जीवन्मुक्तस्य अदृष्ट-नियत्याद्यतिक्रमेण प्रवृत्त्यनभ्युपगमात् । सम्मतञ्चेदं परेषामपि । तदुक्तं संन्यासगीतायामपि → नियतिञ्च न मुञ्चन्ति महान्तो भास्करा इव। विहरनपि संसारे जीवन्मुक्तमना मुनिः ।। - (सं.गी.१०/७९) इत्यलं प्रसङ्गेन ।
_ 'तुष्यतु पर' इति न्यायेन ग्रन्थकृदाह भगवद्देशनायाः = तीर्थकरसद्धर्मदेशनायाः ध्वनिरूपत्वेऽपि = यथाकथञ्चिदनक्षरमयध्वनिरूपत्वस्वीकारेऽपि वाग्योगापेक्षत्वेन = रसनाव्यापाराऽधीनतया तादृशशब्दमात्रे
હ અનક્ષર ધ્વનિમય તીર્થક્ર દેશના અસંભવ હ ___ श्वेतां५२ :- मैवम्. । श०६-०६ वय्ये सत्य-सादृश्य डोपाथी से श६ बी20 श०६५रिए भने उत्पन्न કરે એ વાત ન્યાયસંગત હોવાથી ભગવાનની અર્ધમાગધી ભાષામય ધર્મદેશના દરેકને પોત-પોતાની ભાષામાં પરિણમે એ વાત પ્રભુના અતિશયના કારણે સંગત થઈ શકે તેમ હોવા છતાં પણ અનેક્ષર ધ્વનિ જ શબ્દરૂપે પરિણમી જાય – આ કલ્પના તો તીર્થકરના અતિશયથી પણ માનવી અશક્ય છે. તેમ છતાં માની લો કે સર્વજ્ઞ તીર્થકર ભગવંતની દેશના અનેક્ષર ધ્વનિમય છે. તો પણ તથાવિધ શબ્દ માત્ર વચનયોગની તો અપેક્ષા રહેતી હોવાથી અનેક્ષરધ્વનિમય દેશના પ્રત્યે પણ આત્મપ્રયત્નની અપેક્ષા તો ચોક્કસ રહેશે જ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266