Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
सुखस्य ज्ञानरूपतानिराकरण •
२०३९ त्वम् । योगव्यापारमात्रस्य तदाक्षेपकत्वे ततो मनोयोगेनाऽप्यप्रमत्ते सुखोदीरणप्रसङ्गात्, तदीयसुखस्य ज्ञानरूपत्वे सुखान्तरस्याऽपि तथात्वप्रसङ्गात् । सुख्यहमित्यनुभवस्य चाऽप्रमत्तेऽप्यक्षतत्वादिति ।।१८।।
एतेन कवलभुक्तौ कायव्यापारेण सातोदीरणकल्पना निरस्ता, योगव्यापारमात्रस्य तदाक्षेपकत्वे = उदीरणोपधायकत्वाऽङ्गीकारे ततः कारणात् अप्रमत्ते अपि मुनौ मनोयोगेन हेतुना सुखोदीरणप्रसङ्गात् ।
अथाप्रमत्तयतीनां सुखस्य ज्ञानरूपत्वान्नेयमापत्तिः, ज्ञानस्योदीरणाऽनभ्युपगमात् । न च सुखस्य ज्ञानरूपतैवाऽसिद्धेति शङ्कनीयम्, सुखत्वादेर्ज्ञानरूपताऽतिक्रमे आलादाद्यनुभवो न स्यात् । किञ्च स्वावबोध एव विज्ञानेऽव्यभिचरितो धर्मः, स्वावबोधरूपता तु ज्ञानाऽव्यभिचरिता सुखेऽप्यस्ति, अन्यथा तस्याऽनुभव एव न स्यादिति सम्मतितर्कवृत्तौ व्यक्तमेवेति चेत् ? ननु सम्मतितर्कवृत्त्युक्तया दिशा तदीयसुखस्य = अप्रमत्तयतिसुखस्य ज्ञानरूपत्वे स्वीक्रियमाणे तुल्यन्यायेन सुखान्तरस्यापि = केवलिसुखस्यापि तथात्वप्रसङ्गात् = ज्ञानात्मकत्वापत्तेः कवलभोजित्वेऽपि न सातोदीरणापादनं सङ्गच्छते । न च सुखमात्रस्याऽवश्यवेद्यत्वनियमादसङ्गयोगनिमग्नेऽप्रमत्ते मनोयोगेन सातोदीरणायां मानाभाव इति वाच्यम्, 'सुख्यहमि'त्यनुभवस्य व्यवसायविषयनियामकस्य अनुव्यवसायस्य अप्रमत्तेऽपि मुनौ अक्षतत्वात् = अनपायात् ।
एतेन सुखत्वप्रकारकानुभवविरहेण ज्ञानैकनिमग्नानामप्रमत्तानां न सातोदीरणप्रसङ्ग इति निरस्तम्, अन्यत्राऽपि तथा वक्तुं शक्यत्वात् । न च मोहाभावादप्रवृत्तिमतां सर्वज्ञानां सुखमपि काययोगाद्यनपेक्षं क्षायिकमेवाभ्युपेम इति वाच्यम्, एवं सति तीर्थकरनामकर्मोदीरणमपि तेषां न स्यादिति वृश्चिकभिया पलायमानस्याशीविषमुखे प्रवेशापातात् ।
अथोदयोचितकालपरिपाकात् प्रागेवोदयावलिकायां कर्मनयनं तथाविधस्थितिबन्धाधीनमुदीरणमिति व्यपदिश्यत इति चेत् ? अत्रोच्यते, कर्मोदीरणं वीर्यं विना नैव प्रवर्तते, करणत्वात् अपवर्तनावत् । केवलस्वभावपक्षे सुगतमतप्रवेशापातात् । तदुक्तं अध्यात्ममतपरीक्षायां → ण य तं विरियविरहियं जायइ अपवत्तणव्व करणंति । केवलसहावपक्खे सुगयस्स मयं अणुण्णायं ।। (अ.म.प.१०१) इति । ___ एतेन → केवलिनि वेदनीयोदीरणाया अभावात् प्रभूततरपुद्गलोदयाभावः, तदभावाच्चात्यन्तं वेदनीयपीडाया अभावः - इति निरस्तम्, यतः अविरतसम्यग्दृष्ट्यादिष्वेकादशसु गुणस्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात् प्रभूतपुद्गलोदयसद्भावः ततः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भावः ? अपि च
જો કેવળ બાહ્ય યોગની પ્રવૃત્તિ ઉદીરણાને ખેંચી લાવે તો અપ્રમત્ત મહામુનિને પણ મનોયોગથી સુખની ઉદીરણા થવાની સમસ્યા તમારા મનમાં સર્જાશે.
દિગંબર :- અપ્રમત્ત મહાત્માનું સુખ જ્ઞાનસ્વરૂપ છે. જ્ઞાનની કાંઈ ઉદીરણા થઈ ન શકે. માટે અપ્રમત્ત મુનિને સુખની ઉદીરણા થવાની સમસ્યાને અવકાશ નહિ રહે.
શ્વેતાંબર :- જો અપ્રમત્ત મુનિનું સુખ જ્ઞાનસ્વરૂપ હોય તો કેવલજ્ઞાનીનું સુખ પણ જ્ઞાનસ્વરૂપ બની જશે. તેથી કવલભોજન કરવા છતાં પણ તેમના જ્ઞાનાત્મક સુખની ઉદીરણા નહિ થાય. વળી, 'दु सुपी धुं.' भावो अनुम तो विना ५यटे अप्रमत्त महात्माने ५९थाय ४ छे. (30/१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266