Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
२०५६
• अघातिकर्मणो विपरीतभावनानिवर्तनीयत्वाऽभावः • द्वात्रिंशिका-३०/२५ निर्मूलनाशाऽऽपत्तेविशेषाऽभावात् । ___घात्यघातिकृतविशेषाऽभ्युपगमे तु अघातिनां भवोपग्राहिणां यथाविपाकोपक्रममेव निवृत्तिसम्भवादिति न किञ्चिदेतत् । निरन्वयोच्छेदप्रसङ्गात् । ततश्च प्रागारब्धमपि शरीरं तत्कालमेवोच्छिद्येत भवस्थकेवलिनाम् । न च प्रसङ्ख्याननिवर्त्यस्याऽऽक्षेपकं यददृष्टं तस्य निरन्वयनाशः प्रसङ्ख्यानप्रकर्षे न क्वापि दृष्ट इति शङ्कनीयम्, रागप्रसङ्ख्यानप्रकर्षे रागाऽऽक्षेपककर्मणो द्वेषप्रसङ्ख्यानोत्कर्षे च द्वेषोत्पादकाऽदृष्टस्य निरन्वयनाशोपलम्भात् ।
इत्थञ्च रागाधर्जकादृष्टवत् = राग-द्वेषाद्याऽऽक्षेपककर्मवत् तन्वादिस्थापकादृष्टस्याऽपि निरन्वयनाशो युज्यत एव सर्वज्ञे, प्रसङ्ख्याननाश्यतयोभयत्र विशेषाऽभावात् । ___ननु 'विशेषाभावादि'त्यसिद्धम्, रागाद्यर्जकादृष्ट-तन्वादिस्थापकाऽदृष्टयोर्विशेषोपलम्भात् । एकं तु घाति अपरञ्चाऽघातीति विशेषः किं पाणिपिहितः ? अतो रागादिप्रसङ्ख्यानोत्कर्षे रागाद्यर्जकादृष्टस्य निरन्वयोच्छेदेऽपि तन्वादिप्रसङ्ख्यानोत्कर्षे न तन्वादिस्थापकाऽदृष्टस्य निर्मूलनाशापत्तिः, तत्तत्परिपक्वप्रसङ्ख्यानेन घातिकर्मणो निरन्वयनाशेऽप्यघातिकर्मणः तदसम्भवादिति चेत् ?
मैवम्, इत्थं घात्यघातिकृतविशेषाऽभ्युपगमे तु भवोपग्राहिणां अघातिनां भवोपग्राहित्वादेव प्रकृष्टप्रसङ्ख्यानसमकालमनिवर्त्यतया यथाविपाकोपक्रममेव = विपाकोदयोपहितोपक्रमाऽनुसारेणैव निवृत्तिसम्भवात् = उच्छेदयोगात् न भुक्तिमन्तरेण तदाऽऽक्षेपकाऽघातिकर्मनिवृत्तिसम्भवो भवस्थकेवलिनां इति न किञ्चिदेतत् दिगम्बरोद्भाविततर्कणम् । तदुक्तं स्याद्वादकल्पलतायामपि → अशरीरभावनया शरीरानुग्रहोपघातनिमित्तक-शरीरममत्व-मानसोपतापनिवृत्तिवदभोजनभावनया भोजनानुराग-क्षुज्जनितसङ्क्लेशयोरेव निवृत्तेः स्वकारणोपनीतयोः क्षुद्-भोजनयोः शरीरवदाकर्मक्षयं भावनाशतेनापि निवर्तयितुमशक्यत्वात् ८ (स्या. क.१०/६४) इति ।
ननु केवलिनः कवलभोजित्वे कदाचिज्जाठरानलमान्द्यादिजनितरोगादिकमपि स्यात्, औषधाद्यासेवनेन च चिरकालतः तद्विच्छेदः स्यात्, जाठरानलमन्दताजनितरोगाणां दीर्घकालमवस्थाननियमाद् इति चेत्?
દિગંબર :- રાગાદિજનક કર્મ ઘાતિ કર્મ છે. માટે પ્રસંખ્યાનથી સંપૂર્ણપણે નાશ પામી શકે છે. પરંતુ શરીરસ્થાપક કર્મ તો અઘાતિ છે. તેથી વિરોધી ભાવનાથી સંપૂર્ણ પણે તત્કાલ મૂળમાંથી નાશ પામી ન શકે. માટે કેવલીનું શરીર દેહસ્થાપક કર્મના પ્રભાવે લાંબો સમય ટકી શકશે.
श्वेतां५२ :- घात्य. । हो मारीत पाति भने अपातिभा २येल. मेहमा २ ४ કર્મમાં અને દેહસ્થાપક કર્મમાં માનવો જ પડે તેમ હોય તો પછી એમ માનવું જોઈએ કે અઘાતિ કર્મો તો ભવોપગ્રાહી હોવાના કારણે પોતાનું ફળ દેખાડીને જ, વિપાકોદયજન્ય ઉપક્રમ મુજબ જ રવાના થઈ શકશે. તેથી અશાતા વેદનીય કર્મ પણ ભૂખ વગેરે લગાડીને જ રવાના થશે. એમ ને એમ નહિ. માટે કેવલજ્ઞાની કવલાહાર કરી શકશે. આમ વિચારીએ તો દિગંબરની દલીલમાં બહુ દમ જણાતો નથી.
દિગંબર :- ભોજન કરવામાં વિવેક રાખવામાં ન આવે તો જઠરાગ્નિ મંદ થવાથી રોગ ઉત્પન્ન થાય. અને તે લાંબા સમયે નાશ પામે. માટે કેવલી ભોજન કરે નહિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org