Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
२०६२ • दिगम्बरशास्त्रेणाऽपि केवलिकवलाहाराऽविरोधसिद्धिः • द्वात्रिंशिका-३०/२९ दर्शनचारित्रपलायनभयाद्वा १५, अनन्तसुखत्वाद्वा १६ ?। नाद्यौ, तयोर्भगवति अनङ्गीकारात् । न तृतीयः, भगवतः कृतकृत्यत्वेनाङ्गसंन्यासस्यानर्थकत्वात् । न तुर्यः, प्रासुकाऽऽहारेणापि तद्भावात्, अन्यथा संयतानां तदुपादाने प्राणिघातेनासंयतत्वापातात । न पञ्चमोऽनङ्गीकारात, इच्छानिरोधलक्षणं तपस्तु स्थानादिक्रियावदस्यानिषेधकत्वात् । न षष्ठो, ब्रह्मचर्यस्य अस्माभिरपि अनपेयत्वात्, किं नाम कवलाहारेण वराकेण?, अन्यथा संयतानामपि ब्रह्मचर्यहेतोः कवलाहारो निवार्यः स्यात् । न चैतदस्ति । यदुक्तं (आचारसारे दिगम्बरेण) वीरनन्दिभट्टारकेण 'क्षुच्छान्त्यावश्यकप्राणरक्षाधर्मयमा मुनेः। वैयावृत्त्यं च षड् भुक्तेः, कारणानीति यन्मतम् ।।( आ.सा.८/५८)। न सप्तमः, अनन्तबलस्य भवन्नये छाद्मस्थ्येऽपि स्वीकारात, तत्रापि कावलिकाहाराऽभावाऽनुषङ्गात् । अथ तबलं भिन्नम् इदं तु सकलवीर्यान्तरायक्षयजन्यमन्यदेव, क्षायोपशमिक-क्षायिकयो।लक्षण्यादिति चेत्, सत्यम्, अस्मन्नयेऽपि मेरुप्रकम्पादिना बलातिशयात्, परं शारीरं बलं क्षायोपशमिकं वीर्यं वा न कवलाहारविरोधकं तर्हि अनन्तानन्तद्रव्यपर्यायपरिच्छेदकत्वलक्षणशक्तिस्वरूपं किं तद्विरुद्धं ?, तदेवार्हति अनन्तवीर्यं मन्तव्यं, नान्यत् । यदुक्तं (श्रुतसागरेण दिगम्बराचार्येण) भावप्राभृतवृत्तौ 'केवलज्ञान-दर्शनाभ्यां अनन्तानन्तद्रव्यपर्यायस्वरूपपरिच्छेदकत्वलक्षणशक्तिरनन्तवीर्यमुच्यते, न तु कस्यचिद् घातकरणे भगवान् बलं विदधाति, सूक्ष्मगुणाऽभावप्रसक्तेरिति (भा.प्रा.१४८ वृ.) 'बलसोक्खे'(भावप्राभृत-१४८)ति गाथाव्याख्यायाम् । एवमनन्तसुखमपि भगवतोऽनन्तगुणसमुद्भवात् परमानन्दोत्पत्तिलक्षणमेव ज्ञेयम् । तथा चोक्तं विमानपङ्क्त्युपाख्यानपर्यन्ते- 'शास्त्रं शास्त्राणि वा ज्ञात्वा तीव्र तुष्यन्ति साधवः । सर्वतत्त्वार्थविज्ञानाः, न सिद्धाः सुखिनः कथम् ? ।।( ) इति ।।
एतेन यदुक्तं- 'क्षुधायामनन्तबलमनन्तसुखं वा दुर्लभ'मिति निरस्तं, तयोः कवलाहाराऽविरोधात् । तेनैव आदिपुराणे- 'सिद्ध्यै संयमयात्रायास्तत्तनुस्थितिमिच्छुभिः । ग्राह्यो निर्दोष आहारो, रसासङ्गाद्विनर्षिभिः ।। भगवानिति निश्चिन्वन्, योगं संहत्य धीरधीः । प्रचचाल महीं कृत्स्नां, चालयन्निव विक्रमैः ।।' (आ.पु. २०/९-१०) इति २० 'पर्वणि ऋषभगोचरचारः । नाष्टमो मानासम्भवात् । न नवमो भयाऽभावात् । न दशमः, स्वयं जुगुप्साशून्यत्वात्। 'अन्येषां जुगुप्सा भविष्यतीति मया नाऽऽहर्त्तव्यमे'वं वार्तागन्धस्य अप्यभावाच्च, अन्यथा 'नाग्न्ये मम जुगुप्सा भविष्यती'त्याशयेन चेलाऽऽदानमपि स्यात् । नापि एकादशो, यतोऽत्रादिशब्देन किं विवक्षितं ? मतिज्ञानप्रसक्तिः १ ध्यानविघ्नो वा २ परोपकारकरणाऽन्तरायो वा ३ विसूचिकादिव्याधिर्वा ४ इर्यापथो वा ५ धातूपचयादिना रिरंसा वा ६ निद्रा वा ७ ?, नाद्यः, पुरो देवादिगाने नृत्यविधाने गन्धोदकपुष्पवृष्टौ चतुःषष्टिचामरोद्भाव्यमानाङ्गस्पर्शिपवने च मतिज्ञानानुषङ्गात्, तत्परिहारस्याऽशक्यत्वात् । न च कवलाहारः सुखेन त्यज्यते, परवस्तुदर्शनादि दुस्त्यजमिति वाच्यम्, कवलाहारस्य रसज्ञानकारणवद्रूपज्ञानकारणचक्षुषोरपि मुद्रणादिना सुत्यजत्वात्। अथ तयोर्मेषो नास्तीति चेत्, न, मनुष्यगतौ यावज्जीवं नैरुज्ये तत्सम्भवात्, एतदतिशयस्य प्रतिवाद्यनङ्गीकारोऽपि । न द्वितीयो, ध्यानस्य किंचिदूनपूर्वकोटिं यावदनवस्थानादित्युक्तं प्राक् । अपि च, ध्यानस्य महान् कालो न भवत्येव । यदुक्तं भावप्राभृतवृत्तौ- 'मुहूर्त्तमध्ये ध्यानं भवति । न चाधिकः कालो ध्यानस्यास्ति, एतावत्यपि काले प्रलयकालमारुतवत्कर्मध्वंसाय ध्यानं भवतीति (भा.प्रा.७८ वृ.)। न चैवं लोके दुर्ध्यानस्यापि न महान् कालः सम्भवतीति ज्ञेयं, तत्रापि रौद्राऽऽर्तयोः परिवर्त्तनेनैव षष्ठसप्तमगुणस्थानादिवत् काल१. मुद्रितप्रतौ ‘पदाणि' इत्यशुद्धः पाठः ।। २. प्रतिवाद्यनङ्गीकारोऽपि = प्रतिवाद्यनङ्गीकृतत्वादपि = प्रतिवादिनाऽप्यनङ्गीकृतत्वादिति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266