Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• अभिनवषोडशविकल्पोद्भावनम् •
२०६१ अन्येषामप्येतज्जातीयानामुक्तजातीयतर्केण निर्दलयितुं शक्यत्वादिति । तत्त्वार्थिना दिगम्बरमतिभ्रमध्वान्तहरणतरणिरुचिः अध्यात्ममतपरीक्षा निरीक्षणीया सूक्ष्मधिया ।।२८।। च केवलिभुक्तौ न केवलमिहाऽऽशाम्बरोपन्यस्ता सर्वथादोषविगमादितो व्याध्युत्पत्तिपर्यन्ता दोषाः किन्तु तदन्येऽपि सन्त्यनिराकृता न्यायकुमुदचन्द्र-प्रमेयकमलमार्तण्ड-सर्वार्थसिद्ध्यादावुपदर्शिता इति वाच्यम्, अन्येषामपि दिगम्बराऽऽपादितानां एतज्जातीयानां केवलिभुक्तिबाधकदोषाणां उक्तजातीयतर्केण = इह ग्रन्थकृदुपदर्शितयुक्तिसदृशोहनेन आगममूलकेन निर्दलयितुं = भावनाज्ञाननिःसृतनिर्मलतटस्थपरिणामतोऽपाकर्तुं शक्यत्वादिति । तथाहि- अनन्तवीर्यत्वान्न केवलिनः क्षुद् बाधितुं क्षमा, अन्यथाऽनन्तवीर्यता विरुध्येतेति दिगम्बरमतं न युक्तम्, यतोऽनन्तवीर्यताऽपि तस्याऽऽहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमन-निषीदनानि च भवन्ति एवमाहारक्रियाऽपि, विरोधाभावात् । न ह्यत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति (सू.कृ.श्रुतस्कं.२/ पृ.३४६) व्यक्तं सूत्रकृताङ्गवृत्तौ । न च निषीदनादिकमपि शरीरस्थित्यर्थं तत्राऽसिद्धमिति वाच्यम्, केवलिसमुद्घातानन्तरकालं पीठफलकादिप्रत्यर्पणस्य प्रज्ञापनासूत्रविशेषावश्यकभाष्यादौ (प्रज्ञा.प.३६/६२०, वि.आ.भा.३०४९) श्रुतेः, तद्ग्रहणमन्तरेण तत्प्रत्यर्पणस्याऽसम्भवात्, तद्ग्रहणस्य च यथोक्तप्रयोजनमन्तरेणाऽभावादिति दिक्।
ननु परद्रव्यग्रहण- मोचन-परपरिणमनलक्षणक्रियायामज्ञानस्य हेतुत्वात् केवलज्ञानिनो भगवतः कवलाहारग्रहणाद्यनुपपत्तिः, तदुक्तं प्रवचनसारे → गेण्हदि णेव, ण मुंचदि, ण परं परिणमदि केवली भगवं । पेच्छदि समंतदो सो जाणदि सव्वं णिरवसेसं ।। - (प्र.सा.१/३२) इति चेत् ? मैवम्, सत्यपि केवलज्ञाने आत्मप्रदेशैः कर्माऽऽदानवद् योगप्रदेशैः बहिराऽऽदानस्याऽप्युपपत्तेः। यदि च प्रयत्नसामान्यं प्रतीच्छाया हेतुत्वावधारणात् न केवलिनि काऽपि प्रवृत्तिरिष्यते तदा चेष्टात्वावच्छिन्नेऽपि विलक्षणप्रयत्नेन हेतुत्वात् तदभावे न केवलिनः चेष्टाऽपीति जीवन्मुक्ति-परममुक्त्योरविशेषापातादित्यधिकं (शा.वा.स.स्त.१०/६४ वृ. पृ.२०१) स्याद्वादकल्पलतायाम् ।।
तत्त्वार्थिना = मध्यस्थभावनया यथावस्थिततत्त्वबुभुत्सुना दिगम्बरमतिभ्रमध्वान्तहरणतरणिरुचिः अध्यात्ममतपरीक्षा निरीक्षणीया सूक्ष्मधिया । तत्र च 'नणु जइ सो कयकिच्चो....' (अ.म.प.७२) इत्यादित आरभ्य ‘तेणं केवलनाणी कयकिच्चो चेव कवलभोई वि...' (अ.म.प.१२३) इति पर्यन्तं द्विपञ्चाशद्गाथासु केवलिभुक्तिमीमांसा परिष्कृता विस्तरतो ग्रन्थकृतेत्यधिकं ततोऽवसेयम् ।
प्रकृतोपयोगितया मेघविजयगणिकृत-युक्तिप्रबोधसंवादलेशो दर्श्यते । → यदपि केवली कवलानाहरेत् किमर्थमित्याद्युक्तं तत्र वयं त्वामेवाभिपृच्छामः कथङ्कारं नाहरेत् ?, महोपसर्गसहनार्थं वा १, आतङ्कहेतोर्वा २, अङ्गसंन्यासहेतोर्वा ३, जीवदयाहेतोर्वा ४, तपोऽर्थं वा ५, ब्रह्मचर्यहेतोर्वा ६, आत्मनोऽनन्तबलत्वख्यापनार्थं वा ७, अतिशयज्ञापनार्थं वा ८, परदृष्टिविषभयाद्वा ९, जुगुप्साहेतोर्वा १०, नीहारादिभयाद्वा ११, अन्नस्याशौचाद्वा १२, निगोदादिजीवपीडाऽशुचिद्रव्येक्षाजातानुकम्पाजुगुप्साभ्यां वा १३-१४, सम्यग्ज्ञानતર્કોથી નિરાકરણ કરવું શક્ય છે. પ્રસ્તુતમાં પરમાર્થથી જિજ્ઞાસાવાળા જીવોએ દિગંબરોના ભ્રમરૂપી અંધકારને દૂર કરવા માટે સૂર્ય સમાન અધ્યાત્મમત પરીક્ષા સૂક્ષ્મબુદ્ધિથી જોવી. (૩૦/૨૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266