Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 256
________________ • युक्तिप्रबोधादिशास्त्रेण केवल्याहारसिद्धिः • २०६३ तथापि ये न तुष्यन्ति भगवद्भुक्तिलज्जया । सदाशिवं भजन्तां ते नृदेहादपि लज्जया ॥२९॥ महत्त्वात्। केवलिनस्तु ध्यानमेव पर्यन्तबादरयोगरोधादर्वाग् न सम्भवति, ध्येयाऽभावात् । अत एव त्वन्नयेऽपि आदिपुराणे २१ पर्वणि 'छद्मस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगाश्रवस्य संरोधे, ध्यानत्वमुपचर्यते ।। (आ.पु.२१/१०) इत्युपचारो, न वस्तुगतिः । न तृतीयः, परोपचिकीर्षाया अभावात्, यश्च धर्मोपदेशः स स्वभावत एवेति तवाङ्गीकारात्, अस्मन्नये तु तृतीययाम एव भगवद्भुक्तेः शेषमशेषकालमुपकारकरणात् । न तुर्यः, परिज्ञाय हितमिताभ्यवहारात् । न पञ्चमः, गमनादावपीर्यापथवृत्त्या विहाराभावानुषङ्गात्, गगनगमनेऽपि बादरकाययोगानपायात् । न षष्ठ-सप्तमौ, रिरंसानिद्रयोर्मोहदर्शनावरणकार्यत्वात्, तदभावादेव अवशिष्टो नीहारः स तावदस्मन्मतेऽस्त्येव, परं चादृश्यत्वान्न दोषाय, तथापि तव नैतत् पर्यनुयोज्यं, यतो हि त्वया मन्यते छाद्मस्थ्येऽपि भगवतः कवलाहारे सत्यपि नीहारो नास्तीति। नापि द्वादशः, अतीताऽनागतयोः पर्याययोर्विनष्टानुत्पन्नत्वेनाकिंचित्करत्वाद, अन्यथा कथं सिंहासनमध्यास्ते ? कमलेषु पादौ न्यस्यति ?, अनन्तशस्तेषामपि तथाभूतत्वात् । यद्यपि 'विष्टरं तदलञ्चक्रे, भगवानादितीर्थकृत् । चतुर्भिरंगुलैः स्वेन, महिम्नाऽस्पृष्टतत्तलः ।।(आ.पु.२३/२९) इति आदिपुराणोक्त्या तदस्पर्शस्तथापि विचालस्थपुद्गलानामपि तथाभावात्, कथं वा उच्छ्वासयोग्यभाषायोग्य-नोकाहारयोग्यपुद्गलानुपादत्ते ?, तेषामपि तथाभूतत्वात् । न चैतेषां स्वभावादागतिरुच्छ्वासादिपर्याप्तीनां वैयर्थ्यापत्तेः, स्वभावस्य प्रागेव तिरस्कृतत्वाच्च । अथ ते तु पूर्व तथापरिणता इदं तु ध्यानादिकुत्सितभूमौ उत्पन्नं कुत्सितवस्तुसम्पर्कजं निन्द्यपुरुषैः स्पृष्टमस्मिन्नेव पर्याये इति चेत्, न, छाग्रस्थ्येऽपि तज्ज्ञानसम्भवेन कवलाहारनिषेधापत्तेः । नापि त्रयोदशः, अनुकम्पाकारकत्वेऽपि अस्मदादिवन्न तवाशयसिद्धिः। माऽस्तु वाऽनुकम्पा, तेषां जीवानां स्वकृतकर्मफलभोक्तृत्वाद्, अन्यथा केवलज्ञानं महादुःखसाधनं स्यात्, येन तत्पुरा स्वदुःखेन दुःखितः स्यात् तदुत्पत्तौ तु समकालं जगदुःखदुःखीति । आस्तां केवलित्वे वीतरागत्वं छाग्रस्थ्ये वीतरागत्वमेव वरं, येनैतद् दुःखं न स्यात् । किं च तदनुकम्पया स्वयं दुःखातॊ वा भवति जुगुप्सावान् वा रागाईचेता वा भयवान् वा ?, नाद्यः, अनन्तसुखे जला ञ्जलिदानात् असातवेदनीयोत्कर्षाच्च, शेषपक्षाणां प्रागेव निरासः । नापि चतुर्दशः, अनन्तरमेवोत्तरदानात् । नापि पञ्चदशः, तेषामप्रतिपातित्वात् । नापि षोडशः, तस्य वेदनीयद्वयसत्तायामभावात्, यत्परमानन्दहेतुः अनन्तवस्तुपरिच्छेदनरूपमनन्तसुखं भगवति तन्न कवलाहारप्रतिबन्धकमित्युक्तं प्रागेव, अन्यथा भवस्थसिद्धयोः क्षुधाद्यभावेन न किमप्यन्तरं स्यात्, + (युक्तिप्रबोध- पृष्ठ-१४३-१४६) इति । सर्वार्थसिद्धि-प्रमेयकमलमार्तण्ड-तत्त्वार्थश्लोकवार्तिकादिदर्शितकेवलिकवलाहारबाधकयुक्तिकदम्बकनिराकरणविस्तरस्तु → न च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम्, कवलाहार-सर्वज्ञत्वयोरविरोधात् ( (प्र.न.त.२/२७) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रस्य स्याद्वादरत्नाकर-रत्नाकरावतारिकावृत्त्योः बोध्यः ।।३०/२८ ।। उपसंहरन्नाह- 'तथापी'ति । इहान्यत्र च महता प्रबन्धेन केवलिकवलभुक्तिबाधकदोषा निराकृता ગાથાર્થ - આટલું સમજાવવા છતાં પણ “ભગવાન તે વળી જમતા હશે ?' આવી લજ્જાના કારણે અમે જણાવેલી યુક્તિઓથી જેમને સંતોષ નથી થતો તે દિગંબર લોકોએ તો “ભગવાન તે વળી માનવદેહ ધારણ કરતા હશે? લજ્જાથી સદાશિવ = નૈયાયિકાદિમાન્ય અશરીરી ભગવાનને જ ભજવા Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266