Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 237
________________ २०४४ • ईर्यापथिकायाः कर्मबन्धकत्वविचारः • द्वात्रिंशिका-३०/२२ तुल्ययोगक्षेमत्वात्, स्वाभाविकस्य च तद्गमनस्य दृष्टबाधेन कल्पयितुमशक्यत्वादिति भावः । (११) स्वकालाऽसम्भवे = भुक्तिकालाऽसम्भविनी ध्यान-तपसी पुनरक्षते योगनिरोधदेहाऽपवर्गकालप्रसङ्गः = प्रतिक्रमणयोग्येर्यापथप्रसङ्गः गमनादिना कर्मणा समः = तुल्यः, तेनाऽपि = गमनादिकर्मणा तत्प्रसङ्गस्य = प्रतिक्रमणार्यापथप्रसङ्गस्य तुल्ययोगक्षेमत्वात्, केवलयोगनिमित्तकत्वस्योभयत्राऽविशेषात् । कवलभुक्तिविरहेऽपि चक्षुःपक्ष्मपरिस्पन्द-गमनादिनिमित्तकोऽपीर्यापथबन्धस्तु भगवतः स्यादेव । तदुक्तं उपशान्तमोह-क्षीणमोह-सयोगकेवलिगुणस्थानत्रयवर्तिनां कर्मबन्धनिरूपणावसरे श्रीनेमिचन्द्राचार्येण प्रवचनसारोद्धारे → सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहुमा हू इरियावहिया किरिय एसा ।। - (प्र.सारो.८३५) इति । न चात एव बाधकाद् भवस्थकेवलिगमन-पक्ष्मपरिस्पन्दादेरपि प्रायोगिकत्वं न मन्यामहे इति वाच्यम्, स्वाभाविकस्य च = वैस्रसिकस्य हि तद्गमनस्य = सर्वज्ञगमनकर्मणः दृष्टबाधेन = प्रत्यक्षविरोधेन कल्पयितुं अशक्यत्वात्, विशेषविमर्श बाधकाऽनवतारेण तस्य प्रायोगिकस्यैव न्याय्यत्वात्, अनाभोगसहकृतयोगक्रियाया एव तादृशेर्यापथिकीहेतुत्वात् । सूक्ष्मायां तु तस्यां कार्मणशरीरकृतचलोपकरणताया एव हेतुत्वात् । तदुक्तं अध्यात्ममतपरीक्षायां → इरिआवहिआ किरिया कवलाहारेण जइ णु केवलिणो । गमणाइणा वि ण हवे सा किं तुह पाणिपिहिअ त्ति ? ।। - (अ.म.प.११८) इति । वस्तुतस्तु प्रमत्तानामेवेर्यापथिकाया बन्धहेतुता, अप्रमत्ततया केवलिनामीर्यापथिकाऽपि निर्जरायै सम्पद्यते । अत्र चार्थे → इरियावहिआईआ जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ जयाण निव्वाणगमनाय ।। - (ओ.नि.५५) इति ओघनियुक्तिवचनमपि स्मर्तव्यमागमविशारदैः । ननु ‘भुक्तौ सत्यां ध्यान-तपसोळयात्, केवलिनश्च तयोः सदातनत्वादिति प्रागुक्तं (द्वा.द्वा.३०/ ४ पृ.२०१२) किं विस्मृतम् ? अत्रोच्यते, केवलिनि ध्यान-तपसी भुक्तिकालाऽसम्भविनी एव । ध्यानान्तरिकायामेव वर्तमानस्य सतः केवलज्ञानलाभसम्भवात्, केवललाभोत्तरं उत्कर्षतः देशोनपूर्वकोटिं यावद् ध्यानस्य असम्भवात् । तदुक्तं आवश्यकनियुक्तिवृत्तौ ध्यानशतकविवरणे → सुक्कज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ । केवली य सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टित्ति + (आ.नि.प्रतिक्र.ध्यान श.६४-भाग-३-पृ.६०३) इति । यद्यपि केवलज्ञानोत्तरं प्रायश एकाशनकं नित्यं वर्तत एवेति न तपःक्षतिप्रसङ्गः तथापि तपोनिर्जरणीयकर्माभावेन तस्य निर्जरासाधनतयाऽनुपादानात् न तत्त्वतः तपस्त्वमिति तस्याऽपि केवलज्ञानोत्तरमसम्भव एव । 'केवलिस्स णं पंच अणुत्तरा पन्नत्ता, तं जहा- अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते' (स्था.५/१/४११) इति स्थानाङ्गसूत्रं तु शैलेश्यवस्थाજેમ સમાન રીતે લાગુ પડી શકે છે. તથા સ્વાભાવિક = પ્રયત્નશૂન્ય વિહારાદિની તો કલ્પના પણ કરવી અશક્ય છે. કારણ પ્રયત્નવિનાની ગમનાગમનાદિ પ્રવૃત્તિ તો પ્રત્યક્ષ પ્રમાણથી બાધિત છે. ચોથી ગાથામાં જણાવેલી દિગંબરની ૧૧ મી દલીલના નિરાકરણ માટે ગ્રંથકારશ્રી કહે છે કે - ભોજનના સમયે સર્વજ્ઞ ભગવંતમાં ધ્યાન અને તપ સંભવતા જ નથી. માટે તેની હાનિ થવાની કોઈ શક્યતા રહેતી નથી. શુક્લ ધ્યાનનો ચોથો પાયો તો ભગવાનને યોગનિરોધસમયે જ સંભવે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266