________________
२०४४
• ईर्यापथिकायाः कर्मबन्धकत्वविचारः • द्वात्रिंशिका-३०/२२ तुल्ययोगक्षेमत्वात्, स्वाभाविकस्य च तद्गमनस्य दृष्टबाधेन कल्पयितुमशक्यत्वादिति भावः ।
(११) स्वकालाऽसम्भवे = भुक्तिकालाऽसम्भविनी ध्यान-तपसी पुनरक्षते योगनिरोधदेहाऽपवर्गकालप्रसङ्गः = प्रतिक्रमणयोग्येर्यापथप्रसङ्गः गमनादिना कर्मणा समः = तुल्यः, तेनाऽपि = गमनादिकर्मणा तत्प्रसङ्गस्य = प्रतिक्रमणार्यापथप्रसङ्गस्य तुल्ययोगक्षेमत्वात्, केवलयोगनिमित्तकत्वस्योभयत्राऽविशेषात् । कवलभुक्तिविरहेऽपि चक्षुःपक्ष्मपरिस्पन्द-गमनादिनिमित्तकोऽपीर्यापथबन्धस्तु भगवतः स्यादेव । तदुक्तं उपशान्तमोह-क्षीणमोह-सयोगकेवलिगुणस्थानत्रयवर्तिनां कर्मबन्धनिरूपणावसरे श्रीनेमिचन्द्राचार्येण प्रवचनसारोद्धारे → सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहुमा हू इरियावहिया किरिय एसा ।। - (प्र.सारो.८३५) इति । न चात एव बाधकाद् भवस्थकेवलिगमन-पक्ष्मपरिस्पन्दादेरपि प्रायोगिकत्वं न मन्यामहे इति वाच्यम्, स्वाभाविकस्य च = वैस्रसिकस्य हि तद्गमनस्य = सर्वज्ञगमनकर्मणः दृष्टबाधेन = प्रत्यक्षविरोधेन कल्पयितुं अशक्यत्वात्, विशेषविमर्श बाधकाऽनवतारेण तस्य प्रायोगिकस्यैव न्याय्यत्वात्, अनाभोगसहकृतयोगक्रियाया एव तादृशेर्यापथिकीहेतुत्वात् । सूक्ष्मायां तु तस्यां कार्मणशरीरकृतचलोपकरणताया एव हेतुत्वात् । तदुक्तं अध्यात्ममतपरीक्षायां → इरिआवहिआ किरिया कवलाहारेण जइ णु केवलिणो । गमणाइणा वि ण हवे सा किं तुह पाणिपिहिअ त्ति ? ।। - (अ.म.प.११८) इति ।
वस्तुतस्तु प्रमत्तानामेवेर्यापथिकाया बन्धहेतुता, अप्रमत्ततया केवलिनामीर्यापथिकाऽपि निर्जरायै सम्पद्यते । अत्र चार्थे → इरियावहिआईआ जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ जयाण निव्वाणगमनाय ।। - (ओ.नि.५५) इति ओघनियुक्तिवचनमपि स्मर्तव्यमागमविशारदैः ।
ननु ‘भुक्तौ सत्यां ध्यान-तपसोळयात्, केवलिनश्च तयोः सदातनत्वादिति प्रागुक्तं (द्वा.द्वा.३०/ ४ पृ.२०१२) किं विस्मृतम् ? अत्रोच्यते, केवलिनि ध्यान-तपसी भुक्तिकालाऽसम्भविनी एव । ध्यानान्तरिकायामेव वर्तमानस्य सतः केवलज्ञानलाभसम्भवात्, केवललाभोत्तरं उत्कर्षतः देशोनपूर्वकोटिं यावद् ध्यानस्य असम्भवात् । तदुक्तं आवश्यकनियुक्तिवृत्तौ ध्यानशतकविवरणे → सुक्कज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ । केवली य सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टित्ति + (आ.नि.प्रतिक्र.ध्यान श.६४-भाग-३-पृ.६०३) इति ।
यद्यपि केवलज्ञानोत्तरं प्रायश एकाशनकं नित्यं वर्तत एवेति न तपःक्षतिप्रसङ्गः तथापि तपोनिर्जरणीयकर्माभावेन तस्य निर्जरासाधनतयाऽनुपादानात् न तत्त्वतः तपस्त्वमिति तस्याऽपि केवलज्ञानोत्तरमसम्भव एव । 'केवलिस्स णं पंच अणुत्तरा पन्नत्ता, तं जहा- अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते' (स्था.५/१/४११) इति स्थानाङ्गसूत्रं तु शैलेश्यवस्थाજેમ સમાન રીતે લાગુ પડી શકે છે. તથા સ્વાભાવિક = પ્રયત્નશૂન્ય વિહારાદિની તો કલ્પના પણ કરવી અશક્ય છે. કારણ પ્રયત્નવિનાની ગમનાગમનાદિ પ્રવૃત્તિ તો પ્રત્યક્ષ પ્રમાણથી બાધિત છે.
ચોથી ગાથામાં જણાવેલી દિગંબરની ૧૧ મી દલીલના નિરાકરણ માટે ગ્રંથકારશ્રી કહે છે કે - ભોજનના સમયે સર્વજ્ઞ ભગવંતમાં ધ્યાન અને તપ સંભવતા જ નથી. માટે તેની હાનિ થવાની કોઈ શક્યતા રહેતી નથી. શુક્લ ધ્યાનનો ચોથો પાયો તો ભગવાનને યોગનિરોધસમયે જ સંભવે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org