________________
• मतिज्ञानकारणोहनम् .
२०४३ ईर्यापथप्रसङ्गश्च समोऽत्र गमनादिना । अक्षते ध्यान-तपसी स्वकालासम्भवे पुनः ।।२२।।
ईर्येति । ईर्यापथप्रसङ्गश्चात्र = भगवतो भुक्तौ गमनादिना समः तेनाऽपि तत्प्रसङ्गस्य → नाद्यः पक्षः, तावन्मात्रेण रसनेन्द्रियज्ञानाऽसम्भवात्, अन्यथाऽमरनिकरनिरन्तरनिर्मुक्तकुसुमपरिमलादिसम्बन्धाद् घ्राणेन्द्रियज्ञानमपि भवेत् + (रत्ना.अव.७/५७) इति । केवलिभुक्तिप्रकरणे शाकटायनाचार्येणाऽपि → इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ । तच्छब्द-रूप-गन्ध-स्पर्शप्राप्त्या प्रतिक्षिप्तम् ।। - (के.भु.३३) इत्युक्तम् । तदुक्तं स्याद्वादरत्नाकरेऽपि → नेन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तर्हि ? सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च क्षीणाऽशेषाऽऽवरणे केवलिनि नास्तीति न तज्ज्ञानानुषङ्गः, अन्यथा श्रोत्रादीन्द्रियाणां दिव्यतूर्यादिरवेण गणधर-देवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिंहासनस्पर्शेन सम्बन्धेऽपि मतिज्ञानमनुषज्येत 6 (स्या.रत्ना.पृष्ठ.४८१) इति । ___ वस्तुतस्तु मत्यादिज्ञानकारणीभूतस्य केवलज्ञानावरणस्याऽभावादेव केवलिनि कवलाहारतो रासनमतिज्ञानोदयप्रसङ्ग आपादयितुं नार्हति । न चेदमसिद्धम्, तदुक्तं ज्ञानबिन्दौ → तत्र हेतुः केवलज्ञानावरणमेव, केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेषावच्छिन्ने तद्धेतुत्वस्य शास्त्रार्थत्वात् । अत एव मतिज्ञानावरणक्षयादिनाऽपि न मतिज्ञानाद्युत्पादनप्रसङ्गः । अत एव चास्य विभावगुणत्वमिति प्रसिद्धिः - (ज्ञा.बि. पृ.१) इति भावनीयम् ।
ननु कवलाहारो हि न स्वरूपतः सुखं दुःखं वा जनयति, अपि तु रसनेन्द्रियजन्यमधुरतिक्तादिरसोद्बोधद्वारा इति सर्वज्ञानां तज्जन्यसुखस्वीकारे तज्जनकमधुरादिरसरासनप्रसङ्ग इति चेत् ? न, तीर्थकृतां कवलाहाररसास्वादजन्यसुख-दुःखानुत्पत्तावपि ततः क्षुदादिदुःखनिवृत्तेः तज्जन्यसुखोत्पत्तेर्वा सम्भवात्, तिक्ताद्यौषधादेरिव धातुसाम्यद्वारैव तस्य तद्धेतुत्वात् । अत एव रसास्वादं वर्जयित्वैव भुञ्जतामप्रमत्तयतीनां न तत्फलानुपपत्तिः । अधिकन्तु → ण य मइणाणपसत्ती कवलाहारेण होइ केवलिणो । पुप्फाईअं विसयं अण्णह घाणाइ गिहिज्जा ।। (अ.म.प.११७) इति अध्यात्ममतपरीक्षागाथावृत्तितोऽवसेयम् ।।३०/२१ ।। ___ अधुना प्रागापादितेर्यापथप्रसङ्गमपाकरोति - 'ईयेति । भगवतः तीर्थकरस्य भुक्तौ सत्यां ईर्यापथ
વિશેષાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી આ શ્લોકની ટીકા ગ્રંથકારશ્રીએ કરેલી નથી. માટે અમે પણ विशेष वि१२५नथी ४२ता. (3०/२१)
હ ઈર્યાપથપ્રસંગ વિચારણા છે. ગાથાર્થ :- પ્રસ્તુતમાં ઈર્યાપથનો પ્રસંગ તો ગમનાદિના લીધે તમારે પણ સમાન જ છે તથા ધ્યાન અને તપ તો અવ્યાહત જ છે. વળી, ભોજન સમયે તો ધ્યાન અને તપ અસંભવિત જ છે. (30/२१)
ટીકાર્થ - સર્વજ્ઞ ભગવંતની ભોજનપ્રવૃત્તિમાં જે પ્રતિક્રમણયોગ્ય ઈર્યાપથની આપત્તિ ચોથી ગાથામાં બતાવેલી તે તો ભગવાનને વિહાર વગેરે દ્વારા તમારા મનમાં પણ સમાન જ છે. કારણ કે વિહાર વગેરે કરવાથી પ્રતિક્રમણ કરવા દ્વારા દૂર કરી શકાય તેવો કર્મબંધ = ઈર્યાપથ થવાની વાત તો ભોજનાદિપ્રવૃત્તિની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org