Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 236
________________ • मतिज्ञानकारणोहनम् . २०४३ ईर्यापथप्रसङ्गश्च समोऽत्र गमनादिना । अक्षते ध्यान-तपसी स्वकालासम्भवे पुनः ।।२२।। ईर्येति । ईर्यापथप्रसङ्गश्चात्र = भगवतो भुक्तौ गमनादिना समः तेनाऽपि तत्प्रसङ्गस्य → नाद्यः पक्षः, तावन्मात्रेण रसनेन्द्रियज्ञानाऽसम्भवात्, अन्यथाऽमरनिकरनिरन्तरनिर्मुक्तकुसुमपरिमलादिसम्बन्धाद् घ्राणेन्द्रियज्ञानमपि भवेत् + (रत्ना.अव.७/५७) इति । केवलिभुक्तिप्रकरणे शाकटायनाचार्येणाऽपि → इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ । तच्छब्द-रूप-गन्ध-स्पर्शप्राप्त्या प्रतिक्षिप्तम् ।। - (के.भु.३३) इत्युक्तम् । तदुक्तं स्याद्वादरत्नाकरेऽपि → नेन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तर्हि ? सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च क्षीणाऽशेषाऽऽवरणे केवलिनि नास्तीति न तज्ज्ञानानुषङ्गः, अन्यथा श्रोत्रादीन्द्रियाणां दिव्यतूर्यादिरवेण गणधर-देवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिंहासनस्पर्शेन सम्बन्धेऽपि मतिज्ञानमनुषज्येत 6 (स्या.रत्ना.पृष्ठ.४८१) इति । ___ वस्तुतस्तु मत्यादिज्ञानकारणीभूतस्य केवलज्ञानावरणस्याऽभावादेव केवलिनि कवलाहारतो रासनमतिज्ञानोदयप्रसङ्ग आपादयितुं नार्हति । न चेदमसिद्धम्, तदुक्तं ज्ञानबिन्दौ → तत्र हेतुः केवलज्ञानावरणमेव, केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेषावच्छिन्ने तद्धेतुत्वस्य शास्त्रार्थत्वात् । अत एव मतिज्ञानावरणक्षयादिनाऽपि न मतिज्ञानाद्युत्पादनप्रसङ्गः । अत एव चास्य विभावगुणत्वमिति प्रसिद्धिः - (ज्ञा.बि. पृ.१) इति भावनीयम् । ननु कवलाहारो हि न स्वरूपतः सुखं दुःखं वा जनयति, अपि तु रसनेन्द्रियजन्यमधुरतिक्तादिरसोद्बोधद्वारा इति सर्वज्ञानां तज्जन्यसुखस्वीकारे तज्जनकमधुरादिरसरासनप्रसङ्ग इति चेत् ? न, तीर्थकृतां कवलाहाररसास्वादजन्यसुख-दुःखानुत्पत्तावपि ततः क्षुदादिदुःखनिवृत्तेः तज्जन्यसुखोत्पत्तेर्वा सम्भवात्, तिक्ताद्यौषधादेरिव धातुसाम्यद्वारैव तस्य तद्धेतुत्वात् । अत एव रसास्वादं वर्जयित्वैव भुञ्जतामप्रमत्तयतीनां न तत्फलानुपपत्तिः । अधिकन्तु → ण य मइणाणपसत्ती कवलाहारेण होइ केवलिणो । पुप्फाईअं विसयं अण्णह घाणाइ गिहिज्जा ।। (अ.म.प.११७) इति अध्यात्ममतपरीक्षागाथावृत्तितोऽवसेयम् ।।३०/२१ ।। ___ अधुना प्रागापादितेर्यापथप्रसङ्गमपाकरोति - 'ईयेति । भगवतः तीर्थकरस्य भुक्तौ सत्यां ईर्यापथ વિશેષાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી આ શ્લોકની ટીકા ગ્રંથકારશ્રીએ કરેલી નથી. માટે અમે પણ विशेष वि१२५नथी ४२ता. (3०/२१) હ ઈર્યાપથપ્રસંગ વિચારણા છે. ગાથાર્થ :- પ્રસ્તુતમાં ઈર્યાપથનો પ્રસંગ તો ગમનાદિના લીધે તમારે પણ સમાન જ છે તથા ધ્યાન અને તપ તો અવ્યાહત જ છે. વળી, ભોજન સમયે તો ધ્યાન અને તપ અસંભવિત જ છે. (30/२१) ટીકાર્થ - સર્વજ્ઞ ભગવંતની ભોજનપ્રવૃત્તિમાં જે પ્રતિક્રમણયોગ્ય ઈર્યાપથની આપત્તિ ચોથી ગાથામાં બતાવેલી તે તો ભગવાનને વિહાર વગેરે દ્વારા તમારા મનમાં પણ સમાન જ છે. કારણ કે વિહાર વગેરે કરવાથી પ્રતિક્રમણ કરવા દ્વારા દૂર કરી શકાય તેવો કર્મબંધ = ઈર્યાપથ થવાની વાત તો ભોજનાદિપ્રવૃત્તિની Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266