Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• केवलिनि ध्यानादिविमर्शः .
२०४५ योरेव तत्सम्भवात् । ___स्वभावसमवस्थितिलक्षणयोश्च तयोर्गमनादिनेव भुक्त्याऽपि न व्याघात इति द्रष्टव्यम् ।।२२।। परमौदारिकं चाङ्गं भिन्नं चेत्तत्र का प्रमा । औदारिकादभिन्नं चेद्विना भुक्तिं न तिष्ठति ।।२३।। भाविध्यानरूपस्याऽभ्यन्तरतपसः पारम्यमावेदयति, तथैव स्थानाङ्गवृत्तौ (५/१/४११) अभयदेवसूरिभिः व्याख्यानात् । इत्थं सर्वज्ञदशायां योगनिरोधपूर्वं ध्यान-तपसोरेवाऽसम्भवे कुतो भुक्तिकाले तत्सम्भवो येन तया तयोर्बाधः स्यात् । पुनः = तथापि ते तदा तत्र अक्षते = अनुन्मूलिते । अत एव योगनिरोध-देहाऽपवर्गकालयोरेव तत्सम्भवात् = ध्यान-तपःसमुत्पादात् । तदुक्तं ध्यानशतके → निव्वाणगमणकाले केवलिणा दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियटिं तइयं तणुकायकिरियस्स ।। तस्सेव य सेलेसीगयस्स सेलोव्व णिक्कंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।। __(ध्या.श.८१/८२) इति । तथा शरीरव्युच्छित्तये पार्यन्तिकसंलेखनादिकं तपः तदपि कादाचित्कमिति न तेन तत्प्रतिबन्धः । तदुक्तं केवलिभुक्तिप्रकरणे शाकटायनाचार्येण → ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्भवे भुक्तिः। वचन-गमनादिवच्च प्रयोजनं स्व-परसिद्धिः स्यात् ।। ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति स्वस्य परेषाञ्च कर्तव्या ।।
6 (के.भु.१७/१८) इति ।
ननु सर्वज्ञे न चित्तैकाग्र्य-निर्जराकारकत्वलक्षणे ध्यान-तपसी स्वीक्रियेतेऽस्माभिः किन्तु स्वभावसमवस्थानलक्षणे एवेति तत्र न तयोरसम्भवाऽभिधानं न वा गमनादिना व्याघातो युज्यते इति चेत्? अत्रोच्यते, स्वभावसमवस्थितिलक्षणयोश्च = निजाऽनावृताऽखण्डविशुद्धचैतन्यस्वभावसमवस्थानलक्षणयोः हि तयोः = ध्यान-तपसोः गमनादिनेव = गमन-स्थान-निषद्या-देशनादिकर्मणा इव भुक्त्यापि न व्याघातः = नैव व्ययप्रसङ्गः । कवलाहारेण तद्व्याघाते गमनादिनापि तत्प्रसङ्गाद् इति द्रष्टव्यम् । अधिकन्तु → झाणतवोवाघाओ आहारेणं ति ते मई मिच्छा । झाणं सेलेसीए तवो अ ण विसिस्सते सिंति ।। - (अ.म.प.१११) इति अध्यात्ममतपरीक्षागाथावृत्तितोऽवसेयम् ।।३०/२२ ।। તથા પર્યન્તસંલેખના સ્વરૂપ તપ તો સર્વજ્ઞ ભગવંતને મોક્ષસમયે જ સંભવે છે. ત્યારે તો કાંઈ ભગવાન ભોજન કરવાના નથી. તથા તે પૂર્વે તો ધ્યાન કે તપનો સંભવ જ નથી. માટે ભોજન દ્વારા તેનો વ્યાઘાત થવાની કોઈ પણ જાતની શક્યતા નથી.
તથા જો ધ્યાન અને તપને સ્વભાવસમવસ્થાન સ્વરૂપ માનવામાં આવે તો જેમ વિહારાદિ પ્રવૃત્તિ દ્વારા તે બન્નેનો વ્યાઘાત નથી થતો તેમ ભોજનાદિથી પણ તે બન્નેનો વ્યાઘાત નહિ થાય – એમ સમજવું. (3०/२२)
ચોથા શ્લોકમાં જણાવેલી દિગંબરની ૧૧ મી દલીલનું નિરાકરણ કર્યા બાદ ૧૨ મી દલીલનું નિરાકરણ કરવા માટે ગ્રંથકારશ્રી કહે છે કે –
હ પરમઔદારિક શરીરની મીમાંસા હ ગાથાર્થ:- ઔદારિક શરીર કરતાં પરમ ઔદારિક શરીર જુદું છે – એવું માનવામાં શું પ્રમાણ છે? તથા
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org