Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 242
________________ • कवलभुक्तिकारणचतुष्टयद्योतनम् • २०४९ दिति धूमादेरग्न्याद्यनुमानमसङ्गतं भवेद्, व्यभिचारात् + (सं.त.पृष्ठ. ६१२) इति । ननु औदारिकशरीरस्थितित्वं न कवलाहारजन्यतावच्छेदकम्, एकेन्द्रियशरीरस्थितौ व्यभिचारात् । नाप्यस्मदादिशरीरस्थितित्वम्, अस्मदादित्वस्याऽननुगतत्वात् । किन्तु विजातीयशरीरस्थितित्वमेव तथा । तच्च वैजात्यं केवलिशरीरे नास्ति, मोहक्षयेण रुधिरादिधातुरहितस्य मूत्र-पुरीषाद्याधायककवलाहाराऽनपेक्षस्य परमौदारिकशरीरस्यैव भावादिति चेत् ? न, केवलिशरीरस्य कवलाहाराऽनपेक्षत्वसिद्धौ परमौदारिकत्वसिद्धिः, तत्सिद्धौ च कवलाहाराऽनपेक्षत्वसिद्धिरित्यन्योन्याश्रयात् । न च मोहक्षयेण परमौदारिकत्वमप्युत्पादयितुं शक्यम्, भवोपष्टम्भकशरीरोपमर्दैन शरीरान्तरोपग्रहे भवान्तरप्रसङ्गादिति (स्या.क. ल.१०/६४) व्यक्तं स्याद्वादकल्पलतायाम् ।। किञ्चाऽऽहारपर्याप्त्यादीनां कवलाहारनिबन्धनानां केवलिन्यप्यबाधात्स निराबाध एव तत्र । तदुक्तं शाकटायनाचार्येण केवलिभुक्तिप्रकरणे → अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तेः । पर्याप्ति-वेद्य-तैजस-दीर्घाऽऽयुष्कोदयो हेतुः ।। नष्टानि न कर्माणि क्षुधो निमित्तं, विरोधिनो न गुणाः । ज्ञानादयो जिने किं सा संसारस्थिति स्ति।। तम इव हासो वृद्धौ ज्ञानादीनां न तारतम्येन । क्षुद् धीयतेऽत्र न च तज्ज्ञानादीनां विरोधगतिः ।। अविकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञानं न तदस्ति केवलिनि ।। - (के.भु.१-२-३-४) इति । तदुक्तं सूत्रकृताङ्गवृत्तौ अपि → अस्ति केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्, पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा (१) पर्याप्तत्वं, (२) वेदनीयोदयः, (३) आहारपक्तिनिमित्तं तैजसशरीरं, (४) दीर्घायुष्कत्वञ्चेति । तानि च समस्तान्यपि केवलिनि सन्ति 6 (सूत्र श्रु.स्कं.२/अ.३ पृ.३४५) इति । ननु सर्वमिदं भवस्थकेवलिनां पूर्वावस्थाऽनतिशयितौदारिकदेहाऽभ्युपगमे दूषणमापतेत्, न तु परमौदारिकदेहोपगमे। ततश्च परमौदारिकभिन्नौदारिकदेहगोचरचिरतरावस्थानं प्रत्येव भोजनस्याऽऽवश्यकता इति चेत् ? मैवम्, एवं हि चरमशरीरिणां देशोनपूर्वकोटिं यावत् छद्मस्थावस्थावर्तिनां सर्वेषामेव छद्मस्थदशायां भुक्तेरावश्यकता तावन्तं कालं परमौदारिकदेहस्थितये नैव स्यात् । न च केवलज्ञानभिन्नकालीनपरमौदारिकशरीरस्य दीर्घतरकालावस्थानं प्रति कवलाहारस्य हेतुताऽभ्युपगमानायं दोष इति वाच्यम्, एवं हि परमौदारिकभिन्नौदारिकदेहावस्थान-केवलज्ञानभिन्नकालीनपरमौदारिकदेहावस्थानाऽन्यतरत्वस्य भुक्तिकार्यतावच्छेदकत्वाऽऽपत्त्या महद् गौरवं दिगम्बरमते प्रसज्येत, यदि परमौदारिकशरीरमौदारिकदेहाद् भिन्नमेवाऽभ्युपेयेत । एतेन अन्यतरानुगतवैजात्यस्य कार्यताऽवच्छेदकत्वकल्पनाऽपि परास्ता । किञ्च केवलज्ञानलाभोत्तरकालमौदारिकदेहभिन्नं परमौदारिकशरीरमुत्पद्येत तर्हि भोजनमूलकावस्थानत्ववत् દિગંબર :- માત્ર પરમઔદારિક શરીર હોય - એટલાથી ભોજન વિના કામ ન ચાલે. કેવલજ્ઞાન પણ ઉત્પન્ન થઈ ગયું હોવું જોઈએ. કેવલજ્ઞાનભિન્નકાલીન એવા તો પરમ ઔદારિક શરીરને પણ ભોજનની આવશ્યકતા રહે જ. માટે ચરમશરીરી કેવલજ્ઞાન ઉત્પન્ન ન થાય ત્યાં સુધી શરીરને ટકાવવા વાપરે તેટલા માત્રથી અમારી માન્યતા ભાંગી પડતી નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266