Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 241
________________ • देहविशेषस्थितिः कवलाहारनियता • द्वात्रिंशिका - ३०/२३ शरीरविशेषस्थितौ विचित्र पुद्गलोपादानस्याऽपि हेतुत्वेन तं विना केवलिशरीरस्थितेः कथमप्यसम्भवात् । २०४८ एव तत्स्थितिसम्भवे किमर्थं कवलाहारकल्पनेति निरस्तम्, अस्मदादिष्वपि सर्वदैव तथैव कल्पनापत्तेः । एवञ्च शरीरविशेषस्थितौ = चयोपचयादिसमन्वितकायिकदीर्घकालिकावस्थितौ विचित्रपुद्गलोपादानस्यापि कवलाहारप्राप्तपुद्गलपरिणामविशेषस्यापि हेतुत्वेन = अन्वय-व्यतिरेकप्रतियोगित्वेन तं = तादृशपुद्गलोपादानं विना केवलिशरीरस्थितेः कथमप्यसम्भवात् । एतेन तच्छरीरोपचयोऽपि लाभान्तरायप्रक्षयात् प्रतिसमयं तदुपचयनिमित्तभूतानां दिव्यपरमाणूनां लाभाद् घटन्ते ← ( न्या. कु. च.३/७/७६ पृ.८५८) इति न्यायकुमुदचन्द्रकृद्वचनं निरस्तम्, कवलाऽभोजित्वे केवलिनः पूर्वकोट्यायुषो नवमवर्षोत्पन्नकेवलज्ञानस्याऽऽकालं बाललीलाविलासप्रसङ्गात्, लोमाहारतः तथाविधदेहवृद्धेरसम्भवात्, अन्यत्र तथाऽनुपलम्भेनाऽप्रामाणिकत्वात् । तदुक्तं अध्यात्ममतपरीक्षायां → ओरालिअदेहस्स य ठिई अ वुड्ढी य णो विणाहारं । तेणावि य केवलिणो कवलाहारित्तणं जुत्तं ।। ← ( अ.म.प. ११२ ) इति । यथोक्तं स्याद्वादरत्नाकरे वादिदेवसूरिभिः अस्मदादेरिव केवलिनोऽपि कावलिकाऽऽहारमन्तरेणौदारिकशरीरस्थितिः चिरतरकाला न सम्भवतीति । अतो या विशिष्टौदारिकशरीरस्थितिः सा विशिष्टाहारमन्तरेण न भवति, यथाऽस्मदादेः । विशिष्टौदारिकशरीरस्थितिश्च विवादास्पदकेवलिन इत्यनुमानं प्रवर्तत एव । अन्यथा धूमादेरग्न्याद्यनुमा नमपि न स्यात् ← (स्या. रत्ना. पृ. ४६५ ) इति । तदुक्तं सम्मतितर्कवृत्तौ अपि न हि देशोनपूर्वकोटिं यावद् विशिष्टाहारमन्तरेण विशिष्टौदारिकशरीरस्थितिः सम्भविनी । न च तच्छद्मस्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वं येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेरविरोधो भवेत्, ज्ञानाद्यतिशयेऽपि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैवाऽऽपातमनुवृत्तेः । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेर्विशिष्टाहारनिमित्तत्वं प्रत्यक्षानुपलम्भप्रभवप्रमान सर्वत्राधिगतमिति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भावे सकृदपि तत्स्थितिस्तन्निमित्ता न भवेत्, अहेतोः सकृदपि सद्भावाऽभावात् । यदि पुनर्विशिष्टाहारनिमित्ताप्यस्मदादिषु विशिष्टशरीरस्थितिः पुरुषान्तरे तद्व्यतिरेकेणापि भवेत् तर्हि महानसादौ धूमध्वजप्रभवोऽपि धूमः पर्वतादौ तमन्तरेणापि भवेકરતા તીર્થંકર ભગવંતનું શરીર ભોજન વિના કરોડો વર્ષો સુધી ટકે એ કોઈ પણ રીતે સંભવતું જ नथी. દિગંબર :- ઔદારિક શરીર કરોડો વર્ષ સુધી ભોજન વિના ન જ ટકે - આ તમારી વાત સાચી છે. પણ આ નિયમ આપણા ઔદારિક શરીર માટે લાગુ પડે છે. કેવલજ્ઞાનીના શરીર માટે નહિ. કારણ કે તેનું શરીર પરમઔદારિક છે. માટે પરમઔદારિક કરતાં ભિન્ન એવું ઔદારિક શરીર ભોજન વિના લાંબો સમય ન ટકે - આવો નિયમ માનવો વ્યાજબી છે. શ્વેતાંબર :- કેવલજ્ઞાનીનું શરીર પરમ ઔદારિક હોવાથી ભોજન વિના પણ તે કરોડો વર્ષ સુધી ટકી શકે તેમ હોય તો સંસાર દશામાં રહેલા કે છદ્મસ્થ મુનિદશામાં રહેલા ચરમશરીરી જીવો શા માટે કવલભોજન કરે ? કેમ કે તેઓ તે જ ભવમાં કેવલજ્ઞાન પામવાના હોવાથી પરમ ઔદારિક શરીરવાળા ४ छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266