Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 239
________________ २०४६ • परमौदारिकशरीरमीमांसा • द्वात्रिंशिका-३०/२३ परमौदारिकं चेति । (१२) परमौदारिकं चाङ्गं = शरीरं भिन्नं चेत् औदारिकादिभ्यः क्लृप्तशरीरेभ्यः, तर्हि तत्र का प्रमा किं प्रमाणं ? न किंचिदित्यर्थः । औदारिकादभिन्नं चेत् तत्केवलमतिशयितरूपाद्युपेतं तदेव तदा भुक्तिं विना न तिष्ठति, ननु भुक्तिं विनाऽपि सर्वज्ञसत्कस्य परमौदारिकदेहस्य स्थास्नुत्वात् तदर्थं केवलिनः तत्कल्पनाया अयोगादिति पूर्वोक्तं (द्वा.द्वा.३०/४ पृ.२०१२) किं विस्मृतं? इत्याशङ्कायामाह - ‘परमेति । क्लृप्तशरीरेभ्यः = प्रमाणान्तरसिद्धदेहेभ्यः औदारिकादिभ्यः = औदारिक-वैक्रियाऽऽहारक-तैजस-कार्मणाभिधानेभ्यः केवलिनः परमौदारिकं शरीरं भिन्नं चेत् ? तर्हि तत्र = औदारिकादिभिन्ने परमौदारिकशरीरे किं प्रमाणं ? न किञ्चिदित्यर्थः । एतेन कवलाहारो हि धातूपचयाद्याधायकतयौदारिकशरीरस्थिति-वृद्ध्योः प्रभवतु, न तु वैक्रियादेरिव रुधिरादिधातुरहितस्य परमौदारिकस्य स्थितौ तदपेक्षाऽस्ति, प्रत्युत मूत्र-पुरीषादिमलाऽऽधायिनस्तस्य सत्त्वे परमौदारिकमेव न भवेदिति निरस्तम्, केवलिनां शरीरस्य सप्तधातुरहितत्वे ह्यस्थिरहितत्वमप्यावश्यकम् । तथा च तेषां वज्रर्षभनाराचसंहननप्रकृतिविपाकोदयः कथं स्यात् ? पुद्गलविपाकिन्याः तस्याः अस्थिपुद्गलेष्वेव विपाकदर्शनात् । तदुक्तं प्रथमकर्मग्रन्थे → 'संघयणमट्ठिनिचयो' - (प्र.क.३८) इति । न चास्थिपुद्गलेषु दृढतररचनाविशेष एव तत्प्रकृतिजन्य इति नियमो न तु तेष्वेवेति वाच्यम्, दृढावयवशरीराणां देवानामपि तत्प्रसङ्गात् । एतेन → तदा स्फटिकसङ्काशं तेजोमूर्तिमयं वपुः । जायते क्षीणदोषस्य सप्तधातुविवर्जितम् ।। - (आ.स्व.१२) इति आप्तस्वरूपोक्तिः निराकृता । तदुक्तं अध्यात्ममतपरीक्षायां → संघयणणामपगइ केवलिदेहस्स धाउरहिअत्ते । पोग्गलविवागिणी कह अतारिसे पोग्गले होउ ।। - (अ.म.प.११४) इति । एतेन → तदीयौदारिकशरीरस्थितेः परमौदारिकशरीरस्थितिरूपतया अस्मदाद्यौदारिकशरीरस्थितिविलक्षणत्वात् + (न्या.कु.३/७/७६ पृ.८५७) इति न्यायकुमुदचन्द्रे प्रभाचन्द्रवचनं निरस्तम्, औदारिकशरीराद् भगवच्छरीरस्य अत्यन्तवैजात्ये षष्ठशरीरकल्पनाप्रसङ्गात्, धातुमच्छरीरस्थिति-वृद्ध्योः क्षुज्जनितकााद्यपनायकधातूपचयादिद्वारा कवलाहारस्य, स्थूलौदारिकस्थिति-वृद्धिसामान्ये स्थूलाहारस्य वा हेतुत्वात् । तदुक्तं अध्यात्ममतपरीक्षायां → ओरालियत्तणेणं तह परमोरालिअं पि केवलिणो । कवलाहारावेक्खं ठिइं च बुड्डिं च पाउणइ ।। - (अ.म.प.११६) इति । अथ केवलिनां शरीरं औदारिकाद् अवश्यक्लृप्ताद् अभिन्नं एव इति न पञ्चविधशरीरव्यवस्थाभङ्गप्रसङ्गः केवलं तदेव = क्लृप्तौदारिकाऽभिन्नमेव अतिशयितरूपाद्युपेतं = सातिशयरूप-संहननसंस्थानाधुपेतं परमौदारिकं भण्यते, तदुक्तं आवश्यकनियुक्ती → संघयण-रूव-संठाण-वण्ण-गइ-सत्त-सारऊसासा । एमाइणुत्तराई हवंति नामोदया तस्स ।। (आ.नि.५७१) इति । तीर्थकृतामौदारिकदेहे જો સર્વજ્ઞશરીર ઔદારિક શરીર કરતાં અભિન્ન હોય તો ભોજન વિના લાંબો સમય ટકી ન શકે.(૩૦/૨૩) ટીકાર્થ :- ઔદારિક વગેરે પ્રમાણસિદ્ધ શરીરો કરતાં સર્વજ્ઞ ભગવંતનું પરમ ઔદારિક શરીર જુદું હોય છે - એવું માનવામાં પ્રમાણ શું છે ? કોઈ જ નહિ. તથા અત્યંત સર્વોત્કૃષ્ટ રુપ - સંઘયણ વગેરેથી યુક્ત હોવા છતાં સર્વજ્ઞદેહ ઔદારિક જ છે - એવું જો માનવામાં આવે તો દેશોન કરોડ પૂર્વ વર્ષ સુધી સર્વજ્ઞ ભગવંતનું શરીર ભોજન વિના ટકી ન શકે. કારણ કે અત્યંત દીર્ઘ સમય પર્યન્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266