Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 227
________________ २०३४ • प्रतिबन्द्या दिगम्बरमतचर्वणम् • द्वात्रिंशिका-३०/१६ अन्यथाऽपौरुषेयमागमं वदतो मीमांसकस्य दुर्जयत्वाऽऽपत्तेरिति न किञ्चिदेतत् । अथ सुहृद्भावेन पृच्छामः- बुद्धिपूर्वकप्रवृत्ताविच्छाया हेतुत्वात् कथं केवलिनो देशनादावाहारादौ च प्रवृत्तिरिति चेत् ?, सुहृद्भावेन ब्रूमः-बुद्धिः खल्विष्टसाधनताधीरन्यस्याऽतिप्रसक्तत्वात्, = अनक्षरशब्दमात्रं प्रति पुरुषप्रयत्नाऽनुसरणध्रौव्यात् = पौरुषेयप्रयत्नावश्यकत्वनियमात् । एतेन → न हि सर्वज्ञस्य शब्दोच्चारणे रसनव्यापारोऽस्ति, तीर्थकरत्वनामकर्मोदयोपजनितत्वात् - (त.श्लो.वा.२/१९) इति तत्त्वार्थश्लोकवार्तिककृद्वचनं निरस्तम्, जिननामसहकारेऽपि रसनेन्द्रियव्यापारध्रौव्यात् । न ह्येककारणेन कारणान्तराऽन्यथासिद्धिः सम्भवति ।। युक्तञ्चैतद्, अन्यथा = शब्दोच्चारणे रसनाव्यापारस्यान्यथासिद्धत्वोपगमे मीमांसाशाबरभाष्ये → 'वायवीयाः संयोगविभागाः शब्दमभिव्यञ्जयन्तो नादशब्दवाच्याः - (शा.मी.भा.पृ.१०१) इत्यादिना अपौरुषेयं = पुरुषप्रयत्नाऽजन्यं आगमं = वेदचतुष्टयं वदतः = प्रतिपादयतो मीमांसकस्य शबरस्वामिनः, → यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते । चक्षुषोऽनुग्रहादेवं ध्वनिः स्याच्छ्रोत्रसंस्कृतेः ।। (मा.श्लो.१/ १/६/श्लो.४२, शब्दनित्यता. पृष्ठ.५२४) नित्येषु सत्सु वर्णेषु व्यवहारात् क्रमोदयः । घटादिरचना यद्वद् नित्येषु परमाणुषु ।। - (मी.श्लो.वा.शब्द-नित्यताधिकरण, गा.२९१/पृष्ठ ५६८) इत्यादिना मीमांसाश्लोकवार्तिके शब्दमात्रं नित्यं वदतः = प्रतिपादयतः च मीमांसकस्य = कुमारिलभट्टस्य दुर्जयत्वापत्तेः = दिगम्बरेण दुर्जेयत्वप्रसङ्गाद् इति न किञ्चिदेतत् । वेदान्ततत्त्वविवेकदर्शितेन ‘अहृदयवचसामहृदयमुत्तरमिति (वे.त.वि.पृ.१४) न्यायेनेदमवगन्तव्यम् । तदुक्तं न्यायतात्पर्यटीकायामपि → अहृदयवाचामहृदया एव प्रतिवाचो भवन्ति - (न्या.ता.टी.) इति ___अथ वयं दिगम्बराः सुहृद्भावेन श्वेताम्बरान् पृच्छामः बुद्धिपूर्वकप्रवृत्तौ इच्छाया हेतुत्वात् कथं केवलिनो वीतरागस्य देशनादौ = देश-कालनियतधर्मदेशनादौ आहारादौ च = आहार-विहार-निषद्यादौ च प्रवृत्तिः = चेष्टा स्यात् ? कारणं विना कार्योत्पत्तौ व्यतिरेकव्यभिचारप्रसङ्गात्, तत्सत्त्वे च वीतरागत्वोच्छेदप्रसङ्गाद् इति चेत् ? तर्हि वयं श्वेताम्बराः तत्रभवतो दिगम्बरान् सुहृद्भावेन ब्रूमः - प्रकृते प्रवर्तिका बुद्धिः खलु इष्टसाधनताधीः = स्वेष्टसाधनत्वप्रकारिका धीः,अन्यस्य = स्वेष्टसाधनत्वप्रकारकत्वादिव्यतिरिक्तस्य प्रव બાકી તો પુરુષપ્રયત્ન વિના વિદ્યમાન = અપૌરુષેય આગમ = વેદ માનનાર મીમાંસક વેદને અપૌરુષેય કહેશે તો દિગંબર માટે તે જીતાવો મુશ્કેલ થશે. માટે અનાક્ષર ધ્વનિમય ધર્મદેશનાની વાતમાં કાંઈ માલ નથી. જો અનરમય દેશના પ્રત્યે કારણ ન હોય તો તે કાયમ ૨૪ કલાક ઉત્પન્ન થયે જ રાખશે. આ પણ દોષ દિગંબર મતમાં આવશે. દિગંબર :- અમે મિત્ર ભાવે શ્વેતાંબરોને પૂછીએ છીએ કે બુદ્ધિપૂર્વક જે જે પ્રવૃત્તિ થાય છે તે તમામ પ્રવૃત્તિ પ્રત્યે તો ઈચ્છા કારણ છે જ. આ તો નિર્વિવાદ વાત છે. તેથી કેવલી તીર્થકર ભગવંત ધર્મદેશના વગેરેમાં કે ભોજનાદિમાં પ્રવૃત્તિ કઈ રીતે કરી શકે ? કારણ કે વીતરાગ હોવાના કારણે તેમનામાં ઈચ્છા તો હોતી જ નથી. તો કારણ વિના કાર્ય કઈ રીતે સંભવે? શ્વેતાંબર :- જો તમે મિત્રભાવે અમને પૂછતા હો તો અમે પણ મિત્રભાવે તમને કહીએ છીએ કે “બુદ્ધિપૂર્વકની પ્રવૃત્તિ પ્રત્યે ઈચ્છા કારણ છે.” આવો જે નિયમ છે તેમાં “બુદ્ધિ શબ્દનો અર્થ છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266