Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
२०३५
तत्पूर्वकत्वं च यदीष्टसाधनताधीजन्यतावच्छेदकं तदाप्यबुद्धिपूर्वकप्रवृत्तेर्जीवनयोनिभूताया इव भवो - पग्राहिकर्मवशादुपपत्तेर्न कश्चिद्दोष इति ।
प्रवृत्तिसामान्ये तु योगानामेव हेतुत्वादिच्छापूर्वकत्वमार्थसमाजसिद्धमेव । यदवदाम “परदव्वम्मि पवित्ती ण मोहजणिया व मोहजण्णा वा ।
=
प्रवृत्तिसामान्ये योगहेतुता
=
जोगकया हु पवित्ती फलकंखा रागदोसकया । । " ( अध्या. म. प. २२ ) इत्यधिकमन्यत्र । । १६ ।। र्तकबुद्धिस्वरूपस्य स्वकृतिसाध्यत्वप्रकारकत्वादेः अतिप्रसक्तत्वात् = विषमिश्रितमोदकभक्षणाद्यापादकत्वात् । तत्पूर्वकत्वं च = स्वेष्टसाधनत्वप्रकारकज्ञानपूर्वकत्वं च यदि भवद्भिः इष्टसाधनताधीजन्यतावच्छेदकं स्वेष्टसाधनत्वप्रकारकज्ञानकार्यतावच्छेदकं नव्यप्रणालिकया स्वीक्रियते तदा केवलिनां इष्टानिष्टातीतानामिष्टसाधनताधीपूर्विकायाः प्रवृत्तेरसम्भवे अपि अबुद्धिपूर्वकप्रवृत्तेः इष्टसाधनताधीजन्यतावच्छेदकाऽनाक्रान्तायाः धर्मदेशनाऽऽहार-विहारादिप्रवृत्तेः भवोपग्राहिकर्मवशात् प्रयत्नद्वारा उपपत्तेः = सङ्गतेः न कश्चिद् व्यभिचार-वीतरागत्वव्याहत्यादिलक्षणो दोषः सम्भवति । न चाऽबुद्धिपूर्विका प्रवृत्तिरेवाऽसिद्धा, प्रवृत्तिमात्रस्य बुद्धिपूर्वकत्वनियमादिति कुड्यं विना चित्रकर्मन्यायानुसारीदमिति शङ्कनीयम्, जीवनयोनिभूताया जीवननिर्वाहकारणीभूतायाः श्वास-प्रश्वास - रुधिराभिसरणादिप्रवृत्तेः अबुद्धिपूर्वकत्वोपलम्भात्, तस्या जीवनाऽदृष्टाभिधानभवोपग्राहिकर्मजन्यत्वप्रसिद्धेः । तस्या इव केवलिदेशनाभुक्त्यादिप्रवृत्तेरुपपत्तौ बाधकाऽभावात् । न चैवं प्रवृत्तित्वावच्छिन्नं प्रतीच्छाया हेतुत्वनियमोच्छेदप्रसङ्ग इति वाच्यम्, प्रवृत्तिसामान्ये प्रवृत्तित्वावच्छिन्ने तु योगानामेव योगस्यैव हेतुत्वात्, अन्यथाऽनाभोगवीर्यस्य प्रवृत्त्यजनकत्वापत्तेः । न चैतदिष्टम्, तदुक्तं कर्मप्रकृतिवृत्तौ ग्रन्थकृतैव 'अनभिसन्धिजं (वीर्यं) भुक्ताहारस्य धातु-मलत्वादिपरिणामापादकम्, एकेन्द्रियादीनां वा तत्तत्क्रियानिबन्धनम्' (क.प्र.गा. ३ वृ.) । अत एव प्रवृत्तौ इच्छापूर्वकत्वं बुद्धिपूर्वकत्वं वा नीलघटत्ववद् आर्थसमाजसिद्धं नानासामग्रीप्रयुक्तं एव इति न तत् कस्यापि कार्यतावच्छेदकं परमार्थतो भवितुमर्हति । न हि नानासामग्रीप्रयुक्तं किञ्चिदपि शृङ्गग्राहिकया कस्याश्चिदेकस्याः सामग्र्याः कार्यतावच्छेदकविधया निर्देष्टुमर्हति अतिरिक्तवृत्तित्वात् । यदवदाम अध्यात्ममतपरीक्षायां 'परदव्वम्मि' इति । तद्वृत्तिलेशस्त्वेवम् न हि परद्रव्यमात्मपरिणामઈષ્ટસાધનતાની બુદ્ધિ. અર્થાત્ ‘ઈષ્ટ સાધનતાપ્રકારક બુદ્ધિપૂર્વકની પ્રવૃત્તિ પ્રત્યે ઈચ્છા કારણ છે.’ આવો ઉપરોક્ત નિયમનો અર્થ છે. કેમ કે બીજા પ્રકારની ગમે તે બુદ્ધિ લઈએ તો બીજી અનેક મુશ્કેલીઓ ઊભી થાય તેમ છે. હવે પ્રવૃત્તિગત બુદ્ધિપૂર્વકત્વને જો ઈષ્ટસાધનતાબુદ્ધિજન્યતાઅવચ્છેદક માનવામાં આવે તો પણ બુદ્ધિપૂર્વક જે પ્રવૃત્તિ થાય છે તે સિવાયની જીવનયોનિભૂત શ્વાસઉચ્છ્વાસ-રક્તપરિભ્રમણ વગેરે પ્રવૃત્તિ જેમ ભવોપગ્રાહી કર્મના આધારે ચાલે છે તેમ અબુદ્ધિપૂર્વક ધર્મદેશના-કવલાહારાદિ પ્રવૃત્તિ સર્વજ્ઞ ભગવંતમાં ભવોપગ્રાહી કર્મના આધારે સંગત થઈ જશે. માટે વીતરાગતા ખંડિત થવાનો કોઈ દોષ નહિ આવે. બાકી પ્રવૃત્તિ સામાન્ય પ્રત્યે તો મન-વચન-કાયાસ્વરૂપ યોગ જ હેતુ છે. માટે પ્રવૃત્તિમાં ઈચ્છાપૂર્વકત્વ કે બુદ્ધિપૂર્વકત્વ નામનો જે ગુણધર્મ આવે છે તે તો અર્થસમાજસિદ્ધ જ છે. તે કાંઈ કાર્યતાઅવચ્છેદક નથી. માટે અમે = ગ્રંથકારશ્રીએ અધ્યાત્મમતપરીક્ષા ગ્રંથમાં કહેલ છે કે ‘પરદ્રવ્યમાં થતી પ્રવૃત્તિ મોહજન્ય કે મોહજનક નથી હોતી. પ્રવૃત્તિ તો યોગથી જ ઉત્પન્ન થાય છે. ફલની આકાંક્ષા
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
•
1
=
=