Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 218
________________ • केवलिकर्मणि सर्वथा दग्धरज्जुसमत्वाभावः • २०२५ असातादिप्रकृतीनामदुःखदत्वाभिधानमपि आवश्यकनियुक्त्यादौ घातिकर्मजन्यबहुतरासुखविलयेनाल्पस्याऽविवक्षणात् । अन्यथा भवोपग्रहाऽयोगादिति विभावनीयं सुधीभिः ।।१३।। र्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलाऽपचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव । न चाहारग्रहणे किञ्चित् सूयते। केवलमाहोपुरुषिकामात्रमेव - (सू.कृ. श्रुतस्कं-२/अध्य.३/निर्यु.१७६ वृत्ति) इति । तदुक्तं स्याद्वादकल्पलतायामपि → दग्धरज्जुस्थानीयत्वमपि भगवत्यसातवेदनीयादिप्रकृतीनां न स्वकार्याऽक्षमत्वाद्यभिप्रायेण शास्त्रे प्रतिपाद्यते किन्तु क्षिप्रक्षपणयोग्यत्वाद्यभिप्रायेण + (स्या.क.१०/६४) इति । एतेन → यदैव विद्या कन्या सा परिणीता तदैव मे । लीनो मोहः परं पार्थे दग्धरज्जुसमः स्थितः ।। - (वै.क.ल.९/५०४) इति वैराग्यकल्पलतावचनमपि व्याख्यातम्, विद्याशस्त्रेण मोहस्य द्रुतमुच्छेदार्हत्वात् । नन्वेवं भवस्थकेवलिनि सातोदयवदसातोदयस्य तीव्रविपाकत्वाऽभ्युपगमे → अस्सायमाइआउ जा वि अ असुहा हवंति पयडीउ । णिंबरसलवुव्व पए ण हुंति ता असुहया तस्स ।। - (आ.नि.५७३, बृ.क.भा.१२००) इत्येवं आवश्यकनियुक्तौ बृहत्कल्पभाष्ये च असातादिप्रकृतीनां पयसि निम्बरसलववत् असुखदत्वनिषेधोक्तिः विरुध्येत इति चेत् ? मैवम्, असातादिप्रकृतीनां अदुःखदत्वाभिधानं = दुःखदत्वनिषेधाभिधानं अपि आवश्यकनियुक्त्यादौ घातिकर्मजन्यबहुतराऽसुखविलयेन = ज्ञानावरण-दर्शनावरणमोहान्तरायजन्याऽधिकतरदुःखविलयेन अल्पस्य असातादिजन्यदुःखस्य अविवक्षणाद् विज्ञेयम् । इत्थञ्च 'नाऽसुखदा' इत्यत्र नञ् ईषदर्थे ‘अलवणा यवागूः' इत्यत्रेव द्रष्टव्यः । न च क्षुवेदनाऽपि महतीति 'नत्थि छुहाए सरिसा वेयणा' (पिं.नि.६६३) इति पिण्डनियुक्तिवचनात् प्रसिद्धं, सुखमपि च तेषां महदिति कथमुभयमुपपद्यते ? इति वाच्यम्, 'तटाको महान्, समुद्रश्च महान्' इतिवद् विवक्षाभेदात्तदुपपत्तेः, अन्यथा भावितात्मनामपि विशिष्टसुखानुपपत्तेः । तदुक्तं अध्यात्ममतपरीक्षायाम् → एत्तोच्चिय बहुदुक्खक्खएण तेसिं छुहाइवेअणियं । णिंबरसलवुव्व पए अप्पंति भणंति समयविऊ ।। (अ. म.९३) इति । ‘पए = पयसि', शिष्टं स्पष्टम् । ___ युक्तञ्चैतत्, अन्यथा = वेदनीयविपाकोदयजन्यसुख-दुःखयोः मोहक्षयात् क्षायिकसुखे तिरोधानाऽभ्युपगमे असातवेदनीयप्रकृतिजन्याऽसातस्य मूलोच्छेदे दुग्धघटे निम्बरसलवस्थानीयत्वाभिधानाऽनुपपत्तेः । न च प्रकृतिस्वरूपव्यावर्णनमात्रमेतदितरथा तासां कण्ठतोऽसुखजननाऽक्षमत्वाभिधानानुपपत्तेरिति वाच्यम्, रसदृष्टान्तोपन्यासात्, तद्वचसो बंहीयसि सुखेऽल्पीयसः कवलाहाराद्यौपयिकक्षुदादिदुःखस्याऽसत्प्रायत्वतात्पर्यતથા આવશ્યકનિયુક્તિમાં “અસાતા વેદનીય વગેરે કેવલીને દુઃખદાયી નથી હોતા.' આવું જ જણાવેલ છે તે તો ઘાતિકર્મજન્ય ઘણા દુઃખો રવાના થયેલ હોવાની અપેક્ષાએ અત્ય· અસતાવેદનીય કર્મજન્ય દુઃખની વિવક્ષા = ગણતરી ન કરેલ હોવાની દૃષ્ટિએ સમજવું. જો અશાતાવેદનીયાદિ અઘાતિકર્મ જરાય ફળ ન જ આપે - દુઃખ ન જ આપે તો પછી તે કર્મ ભવોપગ્રાહી = સંસારમાં પકડી રાખનાર 55 रीत उपाय ? भा पात बुद्धिशाणीमा uilथी विया२वी. (3०/१3) १. मुद्रितप्रतौ ....मसुखदत्वा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतो... 'येनान्यस्या(नाल्पस्या) वि...' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266