Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
२०३०
• सर्वज्ञदेशनाकरणविमर्शः • द्वात्रिंशिका-३०/१६ इच्छाऽभावाद् भगवतो नास्त्येव देशनाप्रवृत्तिः, स्वभावत एव च तेषां नियतदेशकाला देशना इतीष्टापत्तावाहयत्नं विना निसर्गाच्चेद्देशनादिकमिष्यते । भुक्त्यादिकं तथैव स्यादृष्टबाधा समोभयोः ।।१६।। ____यत्नमिति । यत्तं = ताल्वोष्ठादिव्यापारजनकप्रयत्नं विना निसर्गात् = स्वभावात् चेदेशनादिमोहजन्यत्वेन = चारित्रमोहविपाकोदयजन्यत्वेन भवितव्यम् ।।३०/१५।।
ननु स्वेष्टसाधनताज्ञानं विना चिकीर्षा नोत्पद्यते, तां विना च न प्रवृत्तिसम्भवः तथैव कार्यकारणभावसिद्धेरिति । न चेच्छायां सत्यां वीतरागत्वं सम्भवतीति प्रकृते सर्वथैव इच्छाऽभावात् = इच्छात्वाऽवच्छिन्नप्रतियोगिताकाभावसत्त्वात भगवतः सयोगिनः तीर्थकरस्य नास्त्येव देशनाप्रवृत्तिः = सद्धर्मदेशनाप्रवृत्तिः । न चैवं स्थान-निषद्या-विहार-धर्मोपदेशादयो हि तिष्ठासाद्यभावात् क्षीणमोहानां तेषामुच्छिद्येरन्निति वाच्यम्, प्रयत्नमन्तरेण स्वभावत एव तेषां तीर्थकराणां सम्भवोपदेशात् । तदुक्तं प्रवचनसारे → ठाण-णिसेज्ज-विहारा धम्मुवदेसो अ णियदिओ तेसिं । अरहताणं काले मायाचारो व्व इत्थीणं ।। 6 (प्र.सा.१/४४) इति । → यथा हि महिलानां प्रयत्नमन्तरेणाऽपि तथाविधयोग्यतासद्भावात् स्वभावभूत एव मायोपगुण्ठनावगुण्ठितो व्यवहारः प्रवर्तते तथा हि केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थानं आसनं विहरणं धर्मदेशना च स्वभावभूता एव प्रवर्तन्ते (प्र.सा. १/४४ वृ.) इति अमरचन्द्रीया तवृत्तिः । न च प्रयत्नाऽनपेक्षायां देश-कालनियमाद्यनुपपत्तिरिति वाच्यम् अम्भोधराणां गगनाऽवस्थान-गर्जन-वर्षणादौ देश-कालनियमवत् नियतदेश-काला देशना स्थितिः निषद्या विहृतिश्च उपपद्यत एव इतीष्टापत्तौ दिगम्बरेणोद्भावितायां तदपाकरणाय ग्रन्थकृद् आह- 'यत्नमि'ति । ___अस्माभिरपि तीर्थकराणां धर्मदेशनादिकं तथास्वाभाव्यादपि स्वीक्रियते एव । बृहत्कल्पभाष्ये → तित्थयरनामगोयस्स खयट्ठा अवि य दाणि साभव्वा । धम्मं कहेइ सत्था - (बृ.क.भा.१७८०) इत्येवं स्वाभाव्यलक्षणः तत्र द्वितीयो हेतुर्दर्शित एव । किन्तु केवलाऽऽभोगसहकृतयत्नपूर्वक एव सर्वो धर्मदेशनादिव्यापारः तीर्थकृताम् । यत्नं विना स्वभावात् भगवतो देशनादिकमिष्यते तदा
દિગંબર :- પ્રવૃત્તિનું કારણ ઈચ્છા છે. તથા સર્વજ્ઞ ભગવંત વીતરાગ હોવાથી તેમને કોઈ પણ પ્રકારની ઈચ્છા હોતી જ નથી. માટે ધર્મદશનાદિ પ્રવૃત્તિ તીર્થકર ભગવંતને હોતી જ નથી. સ્વભાવથી જ તીર્થકર ભગવંતોની દેશના નિયત દેશ-કાલમાં પ્રવર્તે છે. માટે પરદ્રવ્યવિષયક પ્રવૃત્તિ તો મોહજન્ય જ હોય. માટે ભોજનની જેમ ધર્મદેશનાની પ્રવૃત્તિ પણ ભગવાન કરે તો તે મોહજન્ય જ બનવાની વાત તો અમને ઈષ્ટાપત્તિ જ છે.
આ દિગંબર દલીલના પ્રતિવાદમાં ગ્રંથકારશ્રી જણાવે છે કે – * ગાથાર્થ - પ્રયત્ન વિના જ જો સ્વભાવથી સર્વશની દેશના વગેરે માનો તો ભોજન વગેરે પણ ते ४ ते भानो. प्रत्यक्ष पाया तो बने 81 में स२५. ४ छ. (3०/१६)
ટીકાર્થ :- તાળવું, હોઠ, જીભ વગેરેને પ્રવર્તાવનાર પ્રયત્ન વિના સ્વભાવથી જ જો સર્વજ્ઞ તીર્થકર ભગવંતની ધર્મદેશના વગેરે પ્રવૃત્તિ જો દિગંબરો માને તો તીર્થકરની ભોજનાદિ પ્રવૃત્તિ પણ પ્રયત્ન વિના જ માનવી જોઈએ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org