Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
२०२४
रसापेक्षया दग्धरज्जुसमत्वाभावः
द्वात्रिंशिका - ३०/१३
अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः ।
ननु तर्हि कथं भवोपग्राहिकर्मणां केवलिनां दग्धरज्जुकल्पत्वाऽभिधानमावश्यकवृत्त्यादौ श्रूयते ? इत्यत आह- स्थितिशेषाद्यपेक्षं वा तद्वचो = दग्धरज्जुकल्पत्ववचो व्यवतिष्ठते, न तु रसाऽपेक्षया, अन्यथा सूत्रकृतंवृत्तिविरोधप्रसङ्गात् ।
बध्यमानपुरुषवेद- हास्यादिचतुष्क-सच
वस्तुतस्तु अपूर्वकरणादौ बध्यमानप्रकृतिविषयकस्यैव लनचतुष्क-ज्ञानावरणपञ्चक-दर्शनावरणचतुष्काऽन्तरायपञ्चकलक्षणाशुभप्रकृतिविषयकस्यैव तस्य द्विस्थानिकरसबन्धस्य नीरसत्वाऽपराभिधानस्य व्यवस्थितेः शास्त्रमर्यादासिद्धत्वात् । असातवेदनीयं तु तदानीं नैव बध्यते । अतोऽपूर्वकरणेन तन्नीरसीकरणमशक्यमेव । यथा चैतत् तत्त्वं तथा कर्मप्रकृत्यादी व्यवस्थितम् । तथाविधस्थितौ च व्यवस्थितायां तथाविधरसः कस्य पाणिना पिधेयः ? अर्वागेव च सर्वथा भवोपग्राहिपापकर्मरसघाते समुद्घातवैयर्थ्यम् । न खलु 'सत्कर्मसमीकरणायैव समुद्घातः, सत्कर्मण एव वाऽऽधिक्यं तदे'त्यत्र मानमस्तीति (स्या.क.१०/गा.६४/पृ.२०७) व्यक्तं स्याद्वादकल्पलतायाम् । ननु तर्हि उपर्युक्तशास्त्रव्यवस्थाया निर्णीतत्वे कथं = केन प्रकारेण भवोपग्राहिकर्मणां अघातिकर्मचतुष्टयशालिनां केवलिनां भवस्थकेवलज्ञानिनां दग्धरज्जुकल्पत्वाभिधानं आवश्यकवृत्त्यादी श्रूयते ? तदुक्तं श्रीहरिभद्रसूरिभिरेव आवश्यकनिर्युक्तिवृत्तौ दग्धरज्जुकल्पेन भवोपग्राहिणाऽल्पेनाऽपि
सता केवलिनोऽपि न मुक्तिमासादयन्ति ← ( आ.नि. १५०९) इति चेत् ? स्थितिशेषाद्यपेक्षं वा = कर्मस्थित्यवशेषाल्पाद्यभिप्रायकं वा दग्धरज्जुकल्पत्ववचः व्यवतिष्ठते, न तु रसापेक्षया । अन्यथा कर्मानुभागापेक्षया दग्धरज्जुकल्पत्वाऽभ्युपगमे सूत्रकृतवृत्तिविरोधप्रसङ्गात् च। तदुक्तं सूत्रकृताङ्गवृत्तौ यदपि दग्धरज्जुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयौक्तिकञ्च । आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते । युक्तिरपि घातिकर्मक्षयात् ज्ञानादयः तस्याऽभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति ? न तयोः छायाऽऽतपयोरिव सहानवस्थानलक्षणो विरोधः । नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद् विरोधोऽस्तीति । साताऽसातयोश्चान्त
=
=
=
Jain Education International
=
१. मुद्रितप्रती 'कृ...' इत्यशुद्धः पाठः I
=
વળી, મહત્ત્વની વાત તો એ છે કે અપૂર્વ ક૨ણ વગેરેમાં જે રસઘાત વગેરે થાય છે તે ત્યારે બંધાતી કર્મપ્રકૃતિના જ રસઘાત વગેરે થાય છે- એવી શાસ્રવ્યવસ્થા છે. અસાતા વેદનીય પ્રકૃતિ તો અપૂર્વકરણ વગેરેમાં બંધાતી જ નથી. માટે તેનો રસઘાત પણ ન જ થઈ શકે.
=
શંકા :- જો અસાતાવેદનીય વગેરે કર્મોનો અપૂર્વ રસઘાત ન થયો હોવાથી તે નીરસ ન થયા હોય તો આવશ્યકનિર્યુક્તિની વૃત્તિમાં શ્રીહરિભદ્રસૂરિજી મહારાજે શા માટે કેવલીના અથાતિકર્મોને દગ્ધરજ્જુસમાન કહેલ છે ?
=
સમાધાન :- બાકી રહેલી અલ્પકાલીન સ્થિતિની અપેક્ષાએ આવશ્યકનિયુક્તિ ટીકામાં શ્રીહરિભદ્રસૂરિજી મહારાજે કેવલીના અધાતિ કર્મોને દધરજ્જુસમાન કહેલ છે. પણ રસની અપેક્ષાએ કેવલીના અઘાતિકર્મો દગ્દરજ્જુતુલ્ય છે – એવું ન સમજવું. કારણ કે તેવું સમજવામાં સૂયગડાંગજીની વૃત્તિનો વિરોધ આવશે.
For Private & Personal Use Only
www.jainelibrary.org