________________
• केवलिकर्मणि सर्वथा दग्धरज्जुसमत्वाभावः •
२०२५ असातादिप्रकृतीनामदुःखदत्वाभिधानमपि आवश्यकनियुक्त्यादौ घातिकर्मजन्यबहुतरासुखविलयेनाल्पस्याऽविवक्षणात् । अन्यथा भवोपग्रहाऽयोगादिति विभावनीयं सुधीभिः ।।१३।। र्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलाऽपचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव । न चाहारग्रहणे किञ्चित् सूयते। केवलमाहोपुरुषिकामात्रमेव - (सू.कृ. श्रुतस्कं-२/अध्य.३/निर्यु.१७६ वृत्ति) इति । तदुक्तं स्याद्वादकल्पलतायामपि → दग्धरज्जुस्थानीयत्वमपि भगवत्यसातवेदनीयादिप्रकृतीनां न स्वकार्याऽक्षमत्वाद्यभिप्रायेण शास्त्रे प्रतिपाद्यते किन्तु क्षिप्रक्षपणयोग्यत्वाद्यभिप्रायेण + (स्या.क.१०/६४) इति । एतेन → यदैव विद्या कन्या सा परिणीता तदैव मे । लीनो मोहः परं पार्थे दग्धरज्जुसमः स्थितः ।। - (वै.क.ल.९/५०४) इति वैराग्यकल्पलतावचनमपि व्याख्यातम्, विद्याशस्त्रेण मोहस्य द्रुतमुच्छेदार्हत्वात् ।
नन्वेवं भवस्थकेवलिनि सातोदयवदसातोदयस्य तीव्रविपाकत्वाऽभ्युपगमे → अस्सायमाइआउ जा वि अ असुहा हवंति पयडीउ । णिंबरसलवुव्व पए ण हुंति ता असुहया तस्स ।। - (आ.नि.५७३, बृ.क.भा.१२००) इत्येवं आवश्यकनियुक्तौ बृहत्कल्पभाष्ये च असातादिप्रकृतीनां पयसि निम्बरसलववत् असुखदत्वनिषेधोक्तिः विरुध्येत इति चेत् ? मैवम्, असातादिप्रकृतीनां अदुःखदत्वाभिधानं = दुःखदत्वनिषेधाभिधानं अपि आवश्यकनियुक्त्यादौ घातिकर्मजन्यबहुतराऽसुखविलयेन = ज्ञानावरण-दर्शनावरणमोहान्तरायजन्याऽधिकतरदुःखविलयेन अल्पस्य असातादिजन्यदुःखस्य अविवक्षणाद् विज्ञेयम् ।
इत्थञ्च 'नाऽसुखदा' इत्यत्र नञ् ईषदर्थे ‘अलवणा यवागूः' इत्यत्रेव द्रष्टव्यः । न च क्षुवेदनाऽपि महतीति 'नत्थि छुहाए सरिसा वेयणा' (पिं.नि.६६३) इति पिण्डनियुक्तिवचनात् प्रसिद्धं, सुखमपि च तेषां महदिति कथमुभयमुपपद्यते ? इति वाच्यम्, 'तटाको महान्, समुद्रश्च महान्' इतिवद् विवक्षाभेदात्तदुपपत्तेः, अन्यथा भावितात्मनामपि विशिष्टसुखानुपपत्तेः । तदुक्तं अध्यात्ममतपरीक्षायाम् → एत्तोच्चिय बहुदुक्खक्खएण तेसिं छुहाइवेअणियं । णिंबरसलवुव्व पए अप्पंति भणंति समयविऊ ।। (अ. म.९३) इति । ‘पए = पयसि', शिष्टं स्पष्टम् । ___ युक्तञ्चैतत्, अन्यथा = वेदनीयविपाकोदयजन्यसुख-दुःखयोः मोहक्षयात् क्षायिकसुखे तिरोधानाऽभ्युपगमे असातवेदनीयप्रकृतिजन्याऽसातस्य मूलोच्छेदे दुग्धघटे निम्बरसलवस्थानीयत्वाभिधानाऽनुपपत्तेः । न च प्रकृतिस्वरूपव्यावर्णनमात्रमेतदितरथा तासां कण्ठतोऽसुखजननाऽक्षमत्वाभिधानानुपपत्तेरिति वाच्यम्, रसदृष्टान्तोपन्यासात्, तद्वचसो बंहीयसि सुखेऽल्पीयसः कवलाहाराद्यौपयिकक्षुदादिदुःखस्याऽसत्प्रायत्वतात्पर्यતથા આવશ્યકનિયુક્તિમાં “અસાતા વેદનીય વગેરે કેવલીને દુઃખદાયી નથી હોતા.' આવું જ જણાવેલ છે તે તો ઘાતિકર્મજન્ય ઘણા દુઃખો રવાના થયેલ હોવાની અપેક્ષાએ અત્ય· અસતાવેદનીય કર્મજન્ય દુઃખની વિવક્ષા = ગણતરી ન કરેલ હોવાની દૃષ્ટિએ સમજવું. જો અશાતાવેદનીયાદિ અઘાતિકર્મ જરાય ફળ ન જ આપે - દુઃખ ન જ આપે તો પછી તે કર્મ ભવોપગ્રાહી = સંસારમાં પકડી રાખનાર 55 रीत उपाय ? भा पात बुद्धिशाणीमा uilथी विया२वी. (3०/१3) १. मुद्रितप्रतौ ....मसुखदत्वा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतो... 'येनान्यस्या(नाल्पस्या) वि...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org