Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 188
________________ • स्वाध्यायगुणवर्णनम् . १९९७ श्रुतमेकाग्रता वा मे भावितात्मानमेव वा। स्थापयिष्यामि धर्मेऽन्यं वेत्यध्येति सदागमम् ।।२३।। विनयसमाधिरुक्तः । अधुनाऽवसरसङ्गतिप्राप्तं श्रुतसमाधिमाह- 'श्रुतमि'ति । 'मे आचाराङ्गादि द्वादशाङ्गं श्रुतं = श्रुतज्ञानं भविष्यति' इत्यनया बुद्ध्या सदैव साधुः सदागमं = सम्यक्श्रुतं अध्येति, न तु गौरवाद्यालम्बनेन ।१। तथा 'अध्ययनं कुर्वतो मे एकाग्रता = श्रुतैकपरता = अव्याकुलता = अविप्लुतचित्तता = विश्रोतसिकाविरहः श्रुत-तीर्थकरबहुमानादिश्च भविष्यति' इत्यालम्बनेन सदागमं अध्येति ।२। तदुक्तं व्यवहारसूत्रभाष्ये → एगग्गं बहुमाणो कित्ती य गुणा य सज्झाए - (व्य.भा.४/ ५७) इति । तथा 'अध्ययनं कुर्वन् भावितात्मानं = धर्मतत्त्वभावितं स्वात्मानं धर्मे = शुद्धधर्मे स्थापयिष्यामी'त्यालम्बनेन निर्ग्रन्थः सदागममध्येति ।३। तथा 'श्रुत-चारित्रधर्मव्यवस्थितः सन्नहं ज्ञानोपदेशेन अन्यं विनेयं तत्तद्धर्म स्थापयिष्यामि पाठयिष्यामि वे'त्यालम्बनेन वा वाचंयमः सदागममध्येति ।४। श्रुतज्ञानं वाचयतः शिष्यादिसङ्ग्रह-तदुपष्टम्भ-निर्जरा-प्रभूततरश्रुतपर्यायवृद्धि-तीर्थाऽव्यवच्छित्तिकरणलाभः प्रतीच्छतश्चाऽऽत्म-परोभयहितोपलम्भैकाग्र्य-बहुमानलाभः । तदुक्तं व्यवहारसूत्रभाष्ये → संगहुवग्गहनिज्जरसुय-पज्जवजायमव्ववच्छित्ती । पणगमिणं, पुव्वुत्तं जे चाऽऽयहितोपलंभादी ।। - (व्य.भा.४/ ५८) इति । ____ अयं चतुर्विधः श्रुतसमाधिः दशवैकालिके → चतुविधा खलु सुतसमाधी भवति । तं जधासुतं मे भविस्सति त्ति अज्झातितव्वं भवति, सुतसमाधीए पढमं पदं । एगग्गचित्तो भविस्सामित्ति अज्झातितव्वं भवति, सुतसमाधीए बितियं पदं । सुहमप्पाणं धम्मे ठावइस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधिए ततियं पदं । थितो परं धम्मे थावइस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधीए चतुत्थं पदं भवति । भवति यऽत्थ सिलोगो- नाणमेगग्गचित्तो तु ठितो ठावयती परं । सुताणि य अधिज्जित्ता रतो सुतसमाधिए ।। (द.वै.९ /४/३) इति दर्शितः । इत्थं क्रमहेतुस्तु दशवैकालिकचूर्णी जिनदासगणिमहत्तरैः → अज्झाइए णाणमंतो भवइ, गणणगुणेण एगग्गचित्तो, एगग्गचित्तो य धम्मे निच्चलो, ठिओ सो सम्मं समत्थो परमवि ठावेउंति - (द.वै.चू.९/४/३) इत्येवमावेदितः ।।२९/२३ ।। ૪ શ્રુતસમાધિના ચાર પ્રકાર છે थार्थ :- (१) 'भने शाशान थशे' सेवा भावथी सुं८२ सामने मो. (२) 'भने मेयता મળશે.” આવા ભાવથી સત્ શાસ્ત્રને ભણે. (૩) “મારા આત્માને ભાવિત કરીને શુદ્ધધર્મમાં સ્થાપિત કરીશ” એવી ભાવનાથી સત્ શાસ્ત્રને ભણે. (૪) તથા બીજા યોગ્ય જીવને તે તે ધર્મસાધનામાં જોડીશ” मावा माथी सुं२ सामने मो. (२८/२3) વિશેષાર્થ :- શાસ્ત્રના અધ્યયનથી શાસ્ત્રનું જ્ઞાન મળે. શાસ્ત્રનું પુનરાવર્તન કરવાથી અંતઃકરણની એકાગ્રતા આવે. એકાગ્ર ચિત્તે શાસ્ત્રમાં મગ્ન બને તો શુદ્ધધર્મમાં દઢતા-સ્થિરતા આવે. તથા સ્વયં ધર્મમાં સ્થિર થયેલા હોય તો બીજાને તેની ભૂમિકા મુજબ ધર્મમાં જોડી શકાય, બીજાને ધર્મમાં જોડવાનું સાચું સામર્થ્ય આવે. પરંતુ પ્રથમ ત્રણ પ્રકારની શ્રુતસમાધિ કેળવવાના લક્ષ વિના જ માત્ર જનમનરંજનના લક્ષે પ્રસિદ્ધિ १. हस्तादर्श ‘सगदागमं' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266