Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१९९६
• वेदव्युत्पत्तिप्रदर्शनम्
द्वात्रिंशिका - २९/२२
शुश्रूषति
शास्यमानः ‘ममेदं परमं हितमिति धिया आचार्योपाध्यायौ तीव्रेण विनयाऽनुरागेण अनुशासनाऽर्थितया श्रोतुमिच्छति । चण्डरुद्राचार्यशिष्य-मृगावतीसाध्वीप्रभृतीनां केवलज्ञानोपलब्धावयं विनयसमाधिप्रथमभेदोऽन्तरङ्गहेतुरित्यवधेयम् ।१ । एवं विनीतः सन् सम्यग् = अविपरीतं एव अनुशासनतत्त्वं यथाविषयं अवबुध्यते इच्छाप्रवृत्तितः विधिना एवमेतदिति प्रतिपद्यते । २ । श्रुतं च अर्थं तत्तत्काले तत्तद्देशादौ तथाकर्तव्यतया तत्तदनुष्ठानं यथावत्
=
देश-कालाऽवस्थाद्युचितरूपेण कुरुते ।
इत्थं च यथोक्ताऽनुष्ठानपरतया तत् श्रुतज्ञानं सफलीकुरुत इति भावः । उपलक्षणाद् गुर्वाज्ञापालनमप्यत्राऽनुयोज्यम् । प्रकृते यदादिशेद् गुरुः किञ्चित् तत् कुर्यादऽविचारतः । अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ।। ← ( शिवो. ७/३०) इति शिवोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।३। अत एव विशुद्धप्रवृत्तेः 'अहं विनीततरः सुसाधुः देवेन्द्रादिवन्द्यो भावनिर्ग्रन्थः आचार्यादिपदयोग्यः प्राज्ञतम' इत्येवं मदेन च = आत्मोत्कर्षेण हि न = नैव माद्यति ।
=
=
•
=
गोष्ठामाहिलस्तु विनयसमाधिचरमभेदविकलतया महद् दुःखभाजनं जातः । अत एव योगशिखोपनिषदि द्वादशाब्दं तु शूश्रूषां यः कुर्यादप्रमादतः । तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे । । ← ( यो. शि. २ / २ ) इत्युक्तमिति सम्भाव्यते ।
अयं चतुर्विधो विनयसमाधिः । तदुक्तं दशवैकालिके चतुव्विधा खलु विणयसमाधी भवति । तं जहा - अणुसासिज्जंतो सुस्सूसति, विणयसमाधीए पढमं पदं । सम्मं पडिवज्जति, विणयसमाधीए बीयं पदं । वेदमाराधयति, विणयसमाधीए ततियं पदं । ण य भवति अत्तसंपग्गहिए, विणयसमाधीए चउत्थं पदं भवति । भवति चेत्थ सिलोगो - पेहेइ हिताणुसासणं, सुस्सूसए, तं च पुणो अहिट्ठए ।
यमाणमयेण मज्जती विणयसमाधीए आययट्ठिते ।। ← ( द. वै. ९/४/२) इति । 'विदंति जेण अत्थविसेसे, जम्मि वा भणिते विदंति सो वेदो । तं पुणा नाणमेव, तं जधाभणियजाणणाणुट्ठाण वेदं आराधयति' (द.वै.९/४/२ चू.) इति तच्चूर्णौ अगस्त्यसिंहसूरिः । शिष्टं स्पष्टम् ।।२९ / २२ ।।
रीते आयरे, तथा (४) अभिमानथी छडी न भय. (२८/२२)
વિશેષાર્થ :- વિનય હોય ત્યારે જે સમાધિ હોય તે વિનયસમાધિ કહેવાય. અથવા વિનયના કારણે
જે સમાધિ મળે તે વિનયસમાધિ કહેવાય. વિનીત હોય તે ગુરુના અનુશાસનને સાંભળવા-સમજવાઆચરવા ઝંખે અને આચરણ બાદ પણ મદ ન કરે તે વિનયસમાધિ કહેવાય. વિનયી ન હોય તે ‘ગુરુ મારું અનુશાસન કરે, ઘડતર કરે, નિયમન કરે' આવું ઈચ્છે નહિ. તથા ગુરુ ઠપકો આપે ત્યારે તેની સમાધિ ટકે નહિ.
મતલબ કે ઉદ્ધૃત માણસને વિનયસમાધિનો પ્રથમ પ્રકાર પણ દુર્લભ છે. વ્યવહારથી ગંભીર ભૂલ ન હોવા છતાં પણ ચંડરુદ્રાચાર્યના શિષ્ય સાધુ, મૃગાવતી સાધ્વીજી ભગવંત વગેરેએ ગુરુનો ઠપકો વગેરે પ્રસન્નતાથી સહન કરીને કેવળજ્ઞાન ઝડપથી મેળવી લીધું. તેમાં વિનયસમાધિનો પ્રથમ પ્રકાર મહત્ત્વનો ફાળો નોંધાવે છે. ગોષ્ઠામાહિલ વગેરે વિનયસમાધિના ચોથા ભેદથી રહિત હોવાના કારણે આત્મકલ્યાણ यूडी गया. ( २८/२२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266