Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
२००४
तीर्थकृतः तीर्थप्रणामप्रयोजनम् •
द्वात्रिंशिका - २९/३०
विनयस्य प्रधानत्वद्योतनायैव पर्षदि । तीर्थं तीर्थपतिर्नत्वा कृतार्थोऽपि कथां जगौ ।। ३० ।।
एवं विणयजुत्तस्स सुत्तं अत्थं तदुभयं । पुच्छमाणस्स सिस्सस्स वागरिज्ज जहासुयं ।। ← (उत्तरा १/१७-२३) इति उत्तराध्ययनोक्तदिशा विनयपूर्वं श्रुतग्रहणे एव तद्रहस्योपलम्भसम्भव इति ध्येयम् । इत्थञ्च विनय - बहुमानाभ्यामेव श्रुतपारगामित्वं भवतीति सूचितम् । तदुक्तं पञ्चवस्तुके पुष्पमालायां च गुरुपरितोसगएणं गुरुभत्तीए तहेव विणणं । इच्छियसुत्तत्थाणं खिप्पं पारं समु
वयंति ।। ← (पु.मा. १५. पञ्चव. १००८) इति ।।२९ / २९ ।।
विनयस्य तीर्थकृदासेवितत्वमाह - 'विनयस्ये 'ति । विनयस्य द्विपञ्चाशद्विधस्य सर्वस्य वा प्रधानत्वद्योतनायैव सर्वयोगेषु अग्रेसरत्वद्योतनायैव कृतार्थोऽपि केवलज्ञानलाभेन कृतकृत्योऽपि तीर्थपतिः सर्वः पर्षदि समवसरणे द्वादशपर्षन्मध्ये तीर्थं नत्वा = 'नमो तित्थस्स' इति भणनेन प्रवचनं प्रणम्य कथां = सद्धर्मकथां अनुत्तरमोक्षमार्गस्योपदेशाय ख्यापनाय प्रज्ञापनाय प्रस्थापनाय विवरणाय विभजनाय विशदीकरणाय च जगौ । अयमत्राऽऽशयोऽर्हत्तायाः तीर्थपूर्वकत्वेन यद्यहमुपकारिणं तीर्थं पूजयामि ततः तीर्थकरस्याऽपि पूज्यमिदमिति कृत्वा लोकोऽपि पूजयिष्यति । तथा विनयमूलं धर्मं प्ररूपयिष्यामीति प्रथमतो विनयं प्रयुजे येन लोकोऽपि मद्वचनं सुतरां श्रद्दधीतेति कृत्वा कृतकृत्योऽपि तीर्थकरः तीर्थं ननाम । यथोक्तं आवश्यकनिर्युक्तो बृहत्कल्पभाष्ये च तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं जोयणनीहारिणा भयवं ।। ← (बृ.क.भा. ११९३ + आ.नि. ५६६ + तीर्थोद्गालीप्रकीर्णक - ४४७) तप्पुव्विया अरहया, पूइयपूया य विणयमूलं च । कयकिच्चो वि जह कहं कहेइ नमए तहा तित्थं ।। ← ( आ.नि.५६७, बृ.क.भा.११९४ ) इति । इत्थञ्च विनयोऽपि धर्ममार्गे प्राथम्यभावेन दर्शितो भवति । तदुक्तं चन्द्रकवेध्यकप्रकीर्णके पुव्विं परूविओ जिणवरेहिं विणओ अणंतनाणीहिं ← (चं. वे. ६१ ) इति । एवञ्च विनयस्य तीर्थकृद्भिः सर्वैरेवाऽऽसेवितत्वे तदन्येषामकृतार्थानां तीर्थकृदनुगामिनां तु सुतरां विनयपरतया भाव्यमित्युपदेश: सूचितः । सामान्यकेवली अपि केवलितयाऽज्ञातः सन् छद्मस्थमपि स्वगुरुप्रभृतिकं वन्दते, विनयादिव्यवहारधर्मस्य बलवत्त्वात् । तदुक्तं आवश्यकनिर्युक्तिभाष्ये बृहत्कल्पभाष्ये पञ्चवस्तुके च ववहारो विहु
=
•
=
=
વિશેષાર્થ :- જમીન, પર્વત વગેરેમાં દાટેલા મહાનિધાનને ગ્રહણ કરવું હોય તો તેનો ધૂપ-દીપ વગેરે ઉપચાર-વિનય કરવામાં ન આવે તો મહાનિધાનનો અધિષ્ઠાયક દેવતા કોપાયમાન થાય છે અને ભયંકર ઉત્પાત મચાવે છે. તેમ શાસ્ત્ર પણ મહાનિધાન તુલ્ય છે. તેનો પણ ઉપચાર વિનય કર્યા વિના ભણવામાં આવે, શાસ્ત્રોક્ત મર્યાદા પાળવામાં ન આવે તો ભણનાર ઉન્માદ વગેરે પામે છે, દીર્ઘ रोगने, सन्निपातने } भोतने पा पाने छे - खावुं आवश्य नियुक्ति (गा. १४१४), निशीथ भाष्य, व्यवहारभाष्य, पंथवस्तुङ (गा. पह८) वगेरेमां भगवे छे. (२८/२८)
* તીર્થંક્સ પણ વિનય ધર્મને છોડે નહિ ≈
ગાથાર્થ :- બધા યોગોમાં વિનયની મુખ્યતા જણાવવા માટે જ કૃતાર્થ એવા પણ તીર્થંકર ભગવાન સમવસરણમાં તીર્થને નમસ્કાર કરીને જ ધર્મદેશના કરે છે. (૨૯/૩૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266