SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ २००४ तीर्थकृतः तीर्थप्रणामप्रयोजनम् • द्वात्रिंशिका - २९/३० विनयस्य प्रधानत्वद्योतनायैव पर्षदि । तीर्थं तीर्थपतिर्नत्वा कृतार्थोऽपि कथां जगौ ।। ३० ।। एवं विणयजुत्तस्स सुत्तं अत्थं तदुभयं । पुच्छमाणस्स सिस्सस्स वागरिज्ज जहासुयं ।। ← (उत्तरा १/१७-२३) इति उत्तराध्ययनोक्तदिशा विनयपूर्वं श्रुतग्रहणे एव तद्रहस्योपलम्भसम्भव इति ध्येयम् । इत्थञ्च विनय - बहुमानाभ्यामेव श्रुतपारगामित्वं भवतीति सूचितम् । तदुक्तं पञ्चवस्तुके पुष्पमालायां च गुरुपरितोसगएणं गुरुभत्तीए तहेव विणणं । इच्छियसुत्तत्थाणं खिप्पं पारं समु वयंति ।। ← (पु.मा. १५. पञ्चव. १००८) इति ।।२९ / २९ ।। विनयस्य तीर्थकृदासेवितत्वमाह - 'विनयस्ये 'ति । विनयस्य द्विपञ्चाशद्विधस्य सर्वस्य वा प्रधानत्वद्योतनायैव सर्वयोगेषु अग्रेसरत्वद्योतनायैव कृतार्थोऽपि केवलज्ञानलाभेन कृतकृत्योऽपि तीर्थपतिः सर्वः पर्षदि समवसरणे द्वादशपर्षन्मध्ये तीर्थं नत्वा = 'नमो तित्थस्स' इति भणनेन प्रवचनं प्रणम्य कथां = सद्धर्मकथां अनुत्तरमोक्षमार्गस्योपदेशाय ख्यापनाय प्रज्ञापनाय प्रस्थापनाय विवरणाय विभजनाय विशदीकरणाय च जगौ । अयमत्राऽऽशयोऽर्हत्तायाः तीर्थपूर्वकत्वेन यद्यहमुपकारिणं तीर्थं पूजयामि ततः तीर्थकरस्याऽपि पूज्यमिदमिति कृत्वा लोकोऽपि पूजयिष्यति । तथा विनयमूलं धर्मं प्ररूपयिष्यामीति प्रथमतो विनयं प्रयुजे येन लोकोऽपि मद्वचनं सुतरां श्रद्दधीतेति कृत्वा कृतकृत्योऽपि तीर्थकरः तीर्थं ननाम । यथोक्तं आवश्यकनिर्युक्तो बृहत्कल्पभाष्ये च तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं जोयणनीहारिणा भयवं ।। ← (बृ.क.भा. ११९३ + आ.नि. ५६६ + तीर्थोद्गालीप्रकीर्णक - ४४७) तप्पुव्विया अरहया, पूइयपूया य विणयमूलं च । कयकिच्चो वि जह कहं कहेइ नमए तहा तित्थं ।। ← ( आ.नि.५६७, बृ.क.भा.११९४ ) इति । इत्थञ्च विनयोऽपि धर्ममार्गे प्राथम्यभावेन दर्शितो भवति । तदुक्तं चन्द्रकवेध्यकप्रकीर्णके पुव्विं परूविओ जिणवरेहिं विणओ अणंतनाणीहिं ← (चं. वे. ६१ ) इति । एवञ्च विनयस्य तीर्थकृद्भिः सर्वैरेवाऽऽसेवितत्वे तदन्येषामकृतार्थानां तीर्थकृदनुगामिनां तु सुतरां विनयपरतया भाव्यमित्युपदेश: सूचितः । सामान्यकेवली अपि केवलितयाऽज्ञातः सन् छद्मस्थमपि स्वगुरुप्रभृतिकं वन्दते, विनयादिव्यवहारधर्मस्य बलवत्त्वात् । तदुक्तं आवश्यकनिर्युक्तिभाष्ये बृहत्कल्पभाष्ये पञ्चवस्तुके च ववहारो विहु = • = = વિશેષાર્થ :- જમીન, પર્વત વગેરેમાં દાટેલા મહાનિધાનને ગ્રહણ કરવું હોય તો તેનો ધૂપ-દીપ વગેરે ઉપચાર-વિનય કરવામાં ન આવે તો મહાનિધાનનો અધિષ્ઠાયક દેવતા કોપાયમાન થાય છે અને ભયંકર ઉત્પાત મચાવે છે. તેમ શાસ્ત્ર પણ મહાનિધાન તુલ્ય છે. તેનો પણ ઉપચાર વિનય કર્યા વિના ભણવામાં આવે, શાસ્ત્રોક્ત મર્યાદા પાળવામાં ન આવે તો ભણનાર ઉન્માદ વગેરે પામે છે, દીર્ઘ रोगने, सन्निपातने } भोतने पा पाने छे - खावुं आवश्य नियुक्ति (गा. १४१४), निशीथ भाष्य, व्यवहारभाष्य, पंथवस्तुङ (गा. पह८) वगेरेमां भगवे छे. (२८/२८) * તીર્થંક્સ પણ વિનય ધર્મને છોડે નહિ ≈ ગાથાર્થ :- બધા યોગોમાં વિનયની મુખ્યતા જણાવવા માટે જ કૃતાર્થ એવા પણ તીર્થંકર ભગવાન સમવસરણમાં તીર્થને નમસ્કાર કરીને જ ધર્મદેશના કરે છે. (૨૯/૩૦) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004944
Book TitleDwatrinshada Dwatrinshika Prakran Part 7
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages266
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy