Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• कर्ममात्रस्य परिणामदुःखहेतुता •
२०२१ अनन्तं चेति । (४) अनन्तं च सुखं भर्तुः = भगवतो ज्ञानादिगुणसङ्गतं = तन्मयीभूतमिति यावत् । अज्ञानादिजन्यदुःखनिवृत्तेः सर्वेषामेव कर्मणां परिणामदुःखहेतुत्वाच्च क्षुदादयो न बाधन्ते स्वाऽभावनियतसुखानामेव तैर्बाधनं । पूर्णं तु = निरवशेषं तु सुखं महोदये मोक्षे अस्ति । तत्रैव सर्वकर्मक्षयोपपत्तेः ।।११।। ___ 'केवलिनः कवलभुक्तौ तत्कारणक्षुद्वेदनोदयाऽवश्यम्भावात् तेनाऽनन्तसुखविरोधान्न कवलाहारसम्भव' इति यदुक्तं प्राक् (द्वा.द्वा.३०/१ पृ.२०१०) तन्निराकरणकृते ग्रन्थकार उपक्रमते- 'अनन्तमिति । भगवतः भवस्थकेवलिनः अनन्तं सुखं तन्मयीभूतं = केवलज्ञानादिगुणमयीभूतं क्षुदादयो न बाधन्ते, केवलज्ञानादितोऽनन्तसुखस्य पृथक्कर्तुमशक्यत्वात्, ज्ञानपराभवस्य कर्तुमशक्यत्वात्, अज्ञानादिजन्यदुःखनिवृत्तेः = अज्ञानराग-द्वेषादिजन्यदुःखाऽनुत्पत्तेः । न च कर्मजन्यतया परिणामतः क्षुदादीनां दुःखत्वमेवेति शङ्कनीयम्, एवं हि त्रसत्व-बादरत्व-पञ्चेन्द्रियत्व-नरत्वादीनामपि कर्मोदयजन्यतया परिणामतो दुःखरूपताऽऽपत्त्या तेऽपि भगवतोऽनन्तसुखं बाधेरन्, सर्वेषां एव कर्मणां परिणामदुःखहेतुत्वाच्च । न चैवमघातिकर्मोदयेन केवलज्ञानादिगुणमयाऽनन्तसुखबाधप्रसङ्ग इति वाच्यम्, यतः स्वाऽभावनियतसुखानामेव = तत्तद्घात्यघातिकर्मोदयाऽभावव्याप्तानामेव सुखानां तैः = तत्तद्घात्यघातिकर्मभिः बाधनं = व्याघातो भवति । ततश्च भवस्थकेवलिनः कवलभोजित्वेऽभोजित्वे वा वेदनीयाद्यघातिकर्मणां स्वक्षयव्याप्ते तदीये सुखे बाधकत्वन्त्वकामेनाऽप्याशाम्बरेणाऽभ्युपगन्तव्यमेव । घात्यघातिकर्मक्षयनियतं निरवशेष = अखण्डं तु सुखं मोक्षे एव अस्ति, तत्रैव = मुक्तावेव सर्वकर्मक्षयोपपत्तेः सर्वकर्मक्षयव्याप्तक्षायिकसुखसम्भवात् ।
एतेन → न भुक्तिः क्षीणमोहस्य तवाऽनन्तसुखोदयात् । क्षुत्क्लेशबाधितो जन्तुः कवलाहारभुग्भवेत् ।। → (आ.पु.२५/३९) इति आदिपुराणे जिनसेनवचनं निराकृतम् । न खलु भवस्थकेवलिनां अनन्तं क्षायिकं सुखं सम्भवति, उदयप्राप्तेन वेदनीयकर्मणा तद्विरोधात् । क्षायिकं सुखं हि वेदनीयकर्मक्षयजन्यं, न च तदुदये तत्क्षयः सम्भवतीति भावः । अथ क्षायिकसुखे गौणं मुख्यं वा दुःखमेव साक्षात्तत्प्रतिपन्थि, वेदनीयकर्म तु तत्कारणतयैवोपक्षीणम् । एवं च प्रदेशोदयाऽर्थकत्वात्तस्य च दुःखाऽजनकत्वात् तद्विरहे तत्र नित्याऽऽनन्दनिस्पन्दता निराबाधेति चेत् ? न, तत्कर्मक्षायिकभावं प्रति तत्कर्मक्षयस्यैव हेतुत्वात्,
ટીકાર્ય - ભગવાનનું અનંત સુખ જ્ઞાનાદિ ગુણોથી વ્યાપ્ત થયેલું છે. જ્ઞાનાદિમય અનંત સુખ છે. સર્વજ્ઞ ભગવંતને અજ્ઞાનાદિ જન્ય દુઃખો રવાના થયેલા છે. માટે ભૂખ વગેરે ભગવાનના અનંત સુખને બાધિત કરી શકતા નથી. કારણ કે ભગવાનના પરિપૂર્ણજ્ઞાનથી સુખને છુટ્ટુ પાડી શકાતું નથી. તથા (ભૂખ કર્મજન્ય હોવાથી અનંત સુખને બાધિત કરે તો સર્વજ્ઞમાં રહેલ ત્રપણું, પંચેન્દ્રિયપણું વગેરે પણ કર્મજન્ય હોવાથી દિગંબરસંમત અભોજી સર્વજ્ઞના અનંત સુખને બાધિત કરશે. કારણ કે) તમામ કર્મો પરિણામે તો દુઃખનું જ કારણ છે. માટે પ્રસ્તુતમાં એવું માનવું જોઈએ કે દરેક કર્મો પોતાની ગેરહાજરીમાં જ અવશ્ય આવનાર સુખોને બાધિત કરે છે. માટે સર્વજ્ઞ ભોજન કરે કે ન કરે પરંતુ અશાતાવેદનીય કર્મના ક્ષયથી મળનારા સુખનું તો ભવસ્થકેવલીમાં બાધક બનશે જ. કારણ કે પરિપૂર્ણ सुम भोक्षमा ४ छे. तेथी भोक्षमा ४ सर्व भनो क्षय संगत थाय छे. (3०/११) १. मुद्रितप्रतौ 'स्वभाव...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266