Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१९८६
• ज्ञानस्य वन्द्यत्वे ज्ञानिनोऽपि वन्द्यता • द्वात्रिंशिका-२९/१५ "एयाइं अकुवंतो जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती अभत्तिमंतादओ दोसा ।।"
(बृ.क.भा.४५४९, नि.भा.४३७४, आ.नि. ११४३) ।।१५।। मूर्खस्य सेवकजनस्य गृहस्थितस्य । एतद् गुरोः किमपि नैव चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रतिष्ठम् ।। - (अव.गी.२/१) इति अवधूतगीतावचनं च भावनीयं यथागमम् ।।
_ 'तत्स्थानाऽऽपन्ने तत्कार्यलाभ' इति न्यायेन प्रकटसेवी अपि श्रुताधिकः तदा विद्यागुरुयोग्यवन्दनादीनि प्राप्नोति । लोके हि यो यस्य प्रसङ्गे भवति, लभतेऽसौ तत्कार्याणि । यथा उपाध्यायस्य शिष्यो याज्यकुले अग्रासनादीनि प्राप्नुते तथाऽत्राऽवसेयम् । ततश्च श्रुतार्थिना प्रकटसेविसमीपे श्रुतग्रहणे यथायोग्यं वाग्नमस्कार-हस्तोत्सेध-शिरोनमन-देहवार्तापृच्छन-छोभवन्दन-सम्पूर्णवन्दनप्रमुखव्यवहारः प्रयोक्तव्यः । तदुक्तं निशीथभाष्ये पञ्चकल्पभाष्ये बृहत्कल्पभाष्ये आवश्यकनियुक्तौ च → वायाए नमोक्कारो हत्थुस्सेहो य सीसनमणं च। संपुच्छणऽच्छणं छोभवंदणं वंदणं वा वि ।। - (नि.भा.४३७२, आ.नि.११४१, बृ. क.भा.४५४५, पं.क.भा.१३२८) इति ।
प्रकटसेविनि हि ज्ञानविशेषे सति विनयादिविधानं दृश्यते तन्निवृत्तौ च नोपलभ्यते इति ‘तदागमे हि तद् दृश्यते' इति न्यायेन ज्ञानविशेषस्यैवात्र विनयाद्यर्हता तथापि 'तात्स्थ्यात् तद्व्यपदेश' इति न्यायेन ज्ञानाऽऽश्रयस्य प्रकटसेविनोऽत्र विनयाद्यर्हताऽपि वक्तुं युज्यत इत्यवधेयम् ।।
ततश्च ज्ञानग्रहणकाले श्रुतार्थिना तस्य तदकरणे निशीथभाष्य-बृहत्कल्पभाष्य-पञ्चकल्पभाष्याऽऽवश्यकनियुक्तिगाथासंवादोपदर्शनेनाऽपायमाह- ‘एयाई' इति । क्षेमकीर्त्याचार्यकृता बृहत्कल्पभाष्यवृत्तिस्त्वम् → एतानि = वाङ्नमस्कारादीनि पार्श्वस्थादीनां यथार्ह = यथायोग्यं अर्हद्देशिते मार्गे स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्तु अभक्तिमत्त्वादयो दोषा भवन्ति, तत्राऽऽज्ञाभङ्गेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात् स्वार्थपरिभ्रंशः चारिक-हेरिकाद्यभ्याख्यानप्राप्तिः बन्धनादयश्च दोषा भवन्ति - (बृ.क.भा.वृ.४५४९) इति । तदुक्तं सामाचारीप्रकरणेऽपि → एत्तो अववाएणं पागडपडिसेविणो वि सुत्तत्थं । वंदणयमणुण्णायं दोसाणुववूहणाजोगा - (सा.प्रा.८८) इत्यधिकं ततोऽवसेयम् ।।२९/१५।।
તેથી તો બૃહત્કલ્પભાષ્ય, નિશીથભાષ્ય, આવશ્યકનિયુક્તિ વગેરે ગ્રંથોમાં જણાવેલ છે કે – “અરિહંત ભગવંતે બતાવેલા માર્ગમાં રહેલો જે સાધુ શિથિલાચારીને યથાયોગ્ય એવા વાચિક નમસ્કાર વગેરે માનકષાયના કારણે ન કરે તો તેમાં જિનશાસનભક્તિ નથી. ઉપરથી ભગવાનની અભક્તિ વગેરે घोषो दागे छे.' 6 (२८/१५)
વિશેષાર્થ-બૃહત્કલ્પભાષ્ય વગેરે છેદશાસ્ત્રોમાં જણાવેલ છે કે જાહેરમાં જ મોટા દોષનું સેવન કરનાર શિથિલાચારી જો જ્ઞાનાદિ ક્ષેત્રમાં બળવાન હોય તો વાચિક નમસ્કાર, અંજલિકરણ વગેરે વિનય કરીને તેની પાસેથી જ્ઞાન વગેરે મેળવવું જોઈએ. તેની પાસે વિશેષ પ્રકારની શક્તિ હોય તો તે શક્તિના માધ્યમથી શાસનના જરૂરી કામ વગેરે કરાવવા જોઈએ. જો સંયમચુસ્ત સાધુ “આ શિથિલાચારીને હું શા માટે વંદન કરું ?' આવા માનકષાયના લીધે તેને યથાયોગ્ય વંદનાદિ ન કરે તો શાસનના મહત્ત્વના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266