Book Title: Dwatrinshada Dwatrinshika Prakran Part 7
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• सुदृढव्यापारस्य करणनिरोधानुकूलत्वम् •
१९४९ न, ध्यानाऽप्रतिबन्धतः सुव्यापारलक्षणस्य तस्य करणनिरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामेव' तत्प्रतिबन्धकत्वात् ।
एकध्यानान्तरं पुनः ध्यानान्तराऽऽरम्भे मैत्र्यादिपरिकर्मणि स्थितम् । तथा च तावन्मात्रेण न, भिक्षाटन-कवलाहारादिव्यवहारकाले भावयतीनां ध्यानप्रतिबन्धस्याऽवश्यम्भावाऽनियमात्, चित्तविक्षेपाणामेव मोहाद्युदयोपहितभोगतृष्णा-सङ्कल्प-विकल्पदशा-निद्रादीनां तत्प्रतिबन्धकत्वात् = ध्यानप्रतिबन्धकत्वात्, तद्विरहे ध्यानप्रतिबन्धाऽसम्भवात् ।
इत्थं तदानीं ध्यानाऽप्रतिबन्धतः न व्युत्थानदशाप्रसङ्गः, → संपत्ते भिक्खकालम्मि असंभंतो अमुच्छिओ। इमेण कमजोगेण भत्त-पाणं गवेसए।। (द.वै.५/१/१) इति पूर्वोक्त(पृ.६७५) दशवैकालिकसूत्रोक्त्यनुस्मरणतो जायमानस्य देहादिभेदविज्ञानगर्भवैराग्य-यतनेर्यादिसमिति-कायादिगुप्तिसंवलितस्य सुव्यापारलक्षणस्य = सुदृढकायव्यापारात्मकस्य तस्य भिक्षाटन-कवलाहारादिव्यवहारस्य करणनिरोधे = विद्यमानमनोवाक्कायलक्षणकरणनिरोधात्मके ध्याने अनुकूलत्वादेव = उपकारकत्वादेव । न च तथापि शुभयोगरूपस्य तस्याऽऽवश्यकादिव्यापाराणामिवाऽस्तु प्रमत्तगुणस्थानमात्रविश्रान्तत्वमिति वाच्यम्, यतः छद्मस्थानामारम्भं प्रत्यनुमतमेतत्, न तु निष्ठां प्रति । अत एव श्रीगौतमप्रव्राजिताः कौण्डिन्यादयः क्षपकश्रेणिं प्रतिपद्यमानाः सप्तमादिगुणस्थानस्पर्शनां कारं कारं एवाऽऽरब्धं कवलाहारं निष्ठितवन्तः, न च तत्परिनिष्ठया तेषां दुष्प्रणिधानं, सुप्रणिधानस्य बलवत्त्वादिति (अ.म.प.गा.१०५ वृ.) व्यक्तं अध्यात्ममतपरीक्षावृत्तौ ।
वस्तुतस्तु एकध्यानान्तरं = विवक्षितध्यानपरिसमाप्त्युत्तरकालं पुनः स्वरसतो ध्यानान्तराऽऽरम्भे = अभिनवध्यानप्रारम्भाऽवसरे मैत्र्यादिपरिकर्मणि मङ्गलमैत्री-करुणा-प्रमोद-माध्यस्थ्याऽनित्यत्वाऽशरणत्वादिभावनालक्षणे चित्तपरिकर्मणि यथा न व्युत्थानं तथैव सर्वसम्पत्करीभिक्षाग्रहणादिलक्षणे शास्त्रविहितव्यवहारेऽपि जिनाज्ञापालन-मोहविजय-सानुबन्धसंयमपोषणादिप्रणिधानस्याऽखण्डिततयैव न व्युत्थानमिति स्थितम् ।
प्रकृतफलितमाह तथा च तावन्मात्रेण = शास्त्रविहितप्रशस्ताऽऽवश्यकव्यापारमात्रेण व्युत्थानत्वे चित्तव्युत्थानाऽवस्थाने इष्यमाणे समाधिप्रारम्भस्याऽपि शास्त्रविहितप्रशस्तव्यापाररूपत्वेन तुल्यन्यायतो व्युस्थानत्वाऽऽपत्तिः । न चैतदिष्टमिति न व्यवहारे व्युत्थानदशाऽभ्युपगमः श्रेयान्, जिनाज्ञाऽनुसारित्वेन કે વ્યવહારસમયે પણ ધ્યાનનો પ્રતિરોધ થતો નથી. આનું કારણ એ છે કે સપ્રવૃત્તિસ્વરૂપ ભિક્ષાટનાદિ વ્યવહાર મન-વચન-કાયાના પ્રતિરોધ સ્વરૂપ ધ્યાનમાં અનુકૂળ જ છે. ફક્ત ચિત્તવિક્ષેપો જ તથાવિધ કરણપ્રતિરોધરૂપ ધ્યાન પ્રત્યે વિરોધી છે.
વાસ્તવમાં તો એક ધ્યાન પૂર્ણ થયા પછી ફરીથી અન્ય ધ્યાનનો પ્રારંભ કરવાના અવસરે મૈત્રી વગેરે ભાવનાસ્વરૂપ ચિત્તપરિકર્મ કરવામાં જેમ વ્યુત્થાનદશા મનાતી નથી તેમ ભિક્ષાટનાદિ સ્વરૂપ શાસ્ત્રવિહિત વ્યવહાર કરવામાં પણ વ્યુત્થાનદશા આવતી નથી- એવું નક્કી થાય છે. તેથી ભિક્ષાટનાદિ વ્યવહાર માત્રથી જો વ્યુત્થાનદશા માનવામાં આવે તો સમાધિના પ્રારંભ વખતે પણ વ્યુત્થાન દશા
१. मुद्रितप्रती हस्तादर्श च '...पाणामिव...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org