Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
Catalog link: https://jainqq.org/explore/022391/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आहेतमतप्रभाकरस्य ( प्रथमो मयूखः ) कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता स्वोपज्ञवृत्तिसहिता प्रमाणमीमांसा पुण्यपत्तनस्थ ओसवालवणिग्वंशजश्रेष्ठिलाधाजीतनूजमोतीलाल इत्येतैः टिप्पणीभिरुपोद्धातेन च परिष्कृत्य संशोधिता। वीर संवत् रहर प्रथमेयमनावृत्तिः। Page #2 -------------------------------------------------------------------------- ________________ =-TRASRAE+ इदं पुस्तकं 'मोतीलाल लाधाजी' इत्येतैः पुण्यपत्तने (१९६ भवानी पेठ) प्रकाशितम्। (अस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः।) तच्च, 'जैन प्रिंटिंग वर्क्स' मुद्रणालये 'दत्तराम रङ्गनाथ उपासक' इत्येतैः पुण्यपत्तने (२१ सोमवार) मुद्रितम् । Page #3 -------------------------------------------------------------------------- ________________ आहतमतप्रभाकरपरिचयः। अयि श्रेष्ठा विद्वांसः सज्जनवरेण्याश्च । शासनदेवकृपाकटाक्षवशात् अल्पमतेरपि मम बाल्यादेव स्याद्वादग्रन्थाध्ययने मतिरभूत् । ततो मया यावच्छक्यं साधनान्युपयुज्य सपरिश्रममध्ययनमारभ्यत । तदानीं प्रतिपदमनुभूतिपदमारूढं यत् संस्कृतप्राकृतजैनग्रन्थानां दौर्लभ्यम् । केचन ग्रन्था अद्यावधि न मुद्रिताः केचन मुद्रिता अपि दुर्लभाः । सुलभा अपि मुद्रिताः केचित् न विद्यार्थिन उपकुर्वन्ति विषयवैशद्यबोधकटिप्पनीपाठान्तरादिरहितत्वात् । तदेतदाकलय्य मनसि किंचिदिव पूर्वोक्तत्रुटीरपहर्तुं 'आहेतमतप्रभाकर'नानी संस्थामस्थापयम् । संस्थया चानया जैनसंस्कृतप्राकृतभाषामया न्यायव्याकरणाध्यात्मिकागमादिग्रन्था मुद्रणीया वक्ष्य: माणरीत्या । १ अधुना सर्वसंमता पुस्तकाकृतिरालम्बनीया ग्रन्थानाम् । पुस्तकानि च घनचिकणपत्रात्मकानि (डेमी अष्टपेजी) भवेयुः । २ अधोभागे विशदार्थबोधिन्यष्टिप्पन्यो मुद्रणीयाः । ३ ग्रन्थकृदुध्दृतानि सर्वाणि वचांसि अन्थनामस्थलादिनिर्देशपूर्वकं दर्शनीयानि टिप्पन्याम् । ४ यावच्छक्यं प्राचीनपुस्तकानि तालादिपत्रलिखितानि समुच्चित्यार्थभेददर्शकानि पाठान्तराणि संग्राह्याणि । ५ आदौ सविस्तरमुपोद्धातः संकृतभाषया निबन्धनीयो यत्र च ग्रन्थस्यान्तरङ्गबहिरङ्गपरीक्षणं ग्रन्थकृच्चरितमैतिहासिकदृष्टयाऽन्ये च तदुपयुक्ताः समयान्तरीयशास्त्रीयनिर्देशाः संग्रथनीयाः । ६ एतस्मिन सर्वस्मिन् गुणजाते द्रव्यादिव्ययमविगणय्य संपादितेऽपि यावच्छक्यं प्रन्थानां मूल्याल्पता संपादनीया । एतत्कार्य विना विदुषां करुणैकपक्षपातिनां साहाय्यं न सेत्स्यतीति दृढं प्रत्येमि तदर्थं सर्वे विद्वांसः संप्रार्थ्यन्ते यावच्छक्यं लिखितग्रन्थार्पणेन संशोधनेन च तैरुपकृतिः संपादनीयेति। अधुना शासनदेवकृपया प्राच्यविद्याविशारदानां नव्यसंस्कारसंस्कृतानां पण्डितानां च साहाय्यमलम्भि मया । तत्साहाय्येनैव १प्रमाणमीमांसा २ सभाष्यतत्वार्थसूत्राणि ३ स्याद्वादमञ्जरी ४ औपपातिकसूत्राणि इति ग्रन्थचतुष्कं आहेतमतप्रभाकरमयूखचतुष्करूपं प्राकाशि । अतः परं १ धर्मसंग्रहणी २ स्याद्वादरत्नाकरः ३ हैमव्याकरणम् • ४ छन्दोऽनुशासनम् ५ सूत्रकृताङ्गम् । इत्यादयो ग्रन्थाः प्रकाशनीया इति संकल्पः । अत्र विद्वद्भिः साहाय्यदानेनानुग्राह्योऽहमिति साञ्जलिबन्धं सप्रश्रयं संप्रार्थकःआर्हतमतप्रभाकरकार्यालयः। विद्वद्वशंवदः भवानीपेठ घ. नं. १९६ पूना. मोतीलाल लाधाजी Page #4 -------------------------------------------------------------------------- ________________ श्रीः वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः। वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः॥ वीरात् तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो। वीरे श्रीधृतिकीर्तिकान्तिनिचयःश्रीवीर ! भद्रं दिश॥१॥ प्रास्ताविकं किंचित् । १ प्रमाणमीमांसा अयि श्रेष्ठा विद्वद्वरेण्याः स्याद्वादजिज्ञासवः । सोऽयं प्रकाश्यमानस्य 'आर्हतमतप्रभाकरस्य' प्रथमो मयूखः प्रमाणमीमांसा नाम । इयं प्रमाणमीमांसा न्यायशास्त्रगतसकलपदार्थविचारिणी पूर्वोक्तानेतत्कार्यकारिणो ग्रन्थानतिशेते स्वगुणमहिम्ना। अत्र पूर्वेषामक्षपादादीनां पदार्थविवेचनस्य विमर्शः संपादितो विद्वन्मनोह्लादिन्या सरण्या । इयं च कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता सूत्ररूपेण । विशेषतः संतोषायैतत् यत्प्रमाणमीमांसासूत्रवृत्तिः स्वयं तैरेवाचार्यपादैः प्राणायि । तेन स्यादेवायं वृत्तिधृतोऽर्थः सूवकृत्संमतो नवेति न कस्यचिदपि शङ्काकलङ्कः । एवं सूत्रवृत्तिकृतोरैक्यं न घटते कुत्रापि विरहय्य जैननिबन्धान । श्रीहेमचन्द्राचार्यैः प्रणीता येऽन्ये ग्रन्थास्तद्विषयेऽनुपदमेव वक्ष्यते । अत्र तु प्रमाणमीमांसाविषय एव विमृश्यते । अयं ग्रन्थः श्रीहेमचन्द्राचार्यैः पञ्च. भिरध्यायैः संपूरितः ॥ तत्र वर्णसमूहात्मकैः पदैः पदसमूहात्मकैः सूत्रैः सूत्रसमूहात्मकैः प्रकरणैः प्रकरणसमूहात्मकैराह्निकैराह्निकसमूहात्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदाचार्यः।' (पृ. ३) इति स्वयमेव वृत्तावुक्तेर्जायते । किन्तु विषीदति चेतो निवेदयितुं यदधुना द्वितीयाध्यायप्रथमाह्निकसमाप्तिपर्यन्तमेव स उपलभ्यते। एतच्चाध्ययनाध्यापनाभावमूलं दुर्विलसितम् । एतादृशं ग्रन्थरत्नं न कदाचिदपि दृष्टिपथं यायात् । तथाप्याचार्यकृपया यदि तद्गतं किंचिदप्युपलभामहे तर्हि तत्प्रकाश्य विद्वज्जनेभ्य उपहारं करिष्येत साद Page #5 -------------------------------------------------------------------------- ________________ (२) . रम् । उपलब्धे सूत्रवृत्त्यात्मके ग्रन्थे सूत्राणि शतसंख्याकानि । सूत्रसहितवृत्तिग्रंथसंख्या सार्वद्विसहस्रात्मिकेव दृश्यते । अस्याः प्रमाणमीमांसाया रचनाचार्यैः शब्दकाव्यच्छन्दोऽनुशासनानन्तरं कृता “ आनन्तर्यार्थो वाथशब्दः शब्दकाव्यच्छन्दोऽनुशासनेभ्योऽनन्तरं प्रमाण मीमांस्यत इत्यर्थः" (पृ.३) इति स्वयमाचार्योक्त्यैव प्रतीयते । एतद्गौतमसूत्रप्रथनानुकरणमिव प्रतिभाति यतस्तत्र पञ्चाध्यायास्तथात्रापि । आह्निकरचनापि तथैव । केवलरचनैवान गौतमस्यानुकृता विषयविमर्शस्तूभयोभिन्नः । एतद्विषयवैलक्षण्यमग्रिमप्रघट्टके प्रदर्शयिष्यते । एवमेव पञ्चाध्यायी दिगाम्बराचार्य ' अमृतचन्द्र' विराचता सापि न संपू ोपलभ्यते । सा च श्लोकरूपा न सूवरूपा। तत्र सांप्रदायिकतत्त्वानां विमर्श उपलभ्यते । तस्या नाम 'पञ्चाध्यायी' इति । एतस्यां तु श्रीहेमचन्द्राचार्यकृतप्रमाणमीमांसायां प्रमाणप्रमेयादीनां दार्शनिकपदार्थानां वर्ण्यमानत्वात् प्रमाणमीमांसेति नामान्वर्थकम् । २ न्यायसूत्रप्रमाणमीमांसयो(लक्षण्यम्। .. प्रमाणमीमांसासूत्रम् गौतमसूत्रम् १ सम्यगर्थनिर्णयः प्रमाणम् । १-१-२) प्रमाणलक्षणं गौतमसूत्रेषु नास्ति। २ अनुभयत्रोभयकोटिसंस्पर्शी प्र- समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुत्ययः संशयः। १-१-५ पलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशे षापेक्षो विमर्शः संशयः । १-१-२३ ३ प्रमाणं द्विधा ।। १-१-९ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि। प्रत्यक्षं च परोक्षं च । १-१-१० १-१-३ ४ विशदः प्रत्यक्षम्। १-१-१३ इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यप देश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षम् १-१-४ ५ स्पर्शरसगन्धरूपशब्दग्रहणलक्ष- घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि णानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणी- भूतेभ्यः १-१-१२ न्द्रियाणि द्रव्यभावभेदानि । १-१-२२ Page #6 -------------------------------------------------------------------------- ________________ प्रमाणमीमांसासूत्रम् गौतमसूत्रम् ६ सर्वार्थग्रहणं मनः। युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्। १-१-१६ ७ वासनोब्दोधहेतुका तदित्याकारा प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणस्मृतिः। बा १-२-३ सादृश्यपरिग्रहाश्रयाश्रितसंबन्धान्तर्य वियोगककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रि यारागधर्माधर्मनिमित्तेभ्यः। ३-२-४२ ८ उपलम्भानुपलम्भनिमित्तं व्याप्ति- अब 'ऊह' लक्षणं नास्ति किंतु तर्कज्ञानमूहः । १-२-५ लक्षणम्-अविज्ञाततत्त्वेऽर्थे कारणो पपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः। ९ साधनात्साध्यविज्ञानमनुमानम् । अथ तत्पूर्वकं विविधमनुमानं पूर्वव ५ १-२-७ च्छेषवत्सामान्यतो दृष्टं च । १-१-५ १० से व्याप्तिदर्शनमूमिः । १-२-२०, लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः । १-१-२५ ११ बोध्यानुरोधात्प्रतिज्ञाहेतूदाहरणो- प्रतिज्ञाहेतूदाहरणोपनयनिगमनापनयनिगमनानि पञ्चापि । २-१-१० न्यवयवाः । १-१-३२ १२ साध्यनिर्देशः प्रतिज्ञा । २-१-११ साध्यनिर्देशः प्रतिज्ञा। १-१-३३ १३ साधनत्वाभिव्यञ्जकविभक्त्यन्तं | उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः साधनवचनं हेतुः । २-१-१२ १-१-३४ तथा वैधात् । १-१-३५ १४ दृष्टान्तवचनमुदाहरणम्। साध्यसाधात्तद्धर्मभावी दृष्टान्त २-१-१३ उदाहरणम् । १-१-३६ १५ धर्मिणि साधनस्योपसंहार उप- उदाहरणापेक्षस्तथेत्युपसंहारो न नयः। २-१-१४ तथेति वा साधनस्योपनयः। १-१-३८ १ सः--दृष्टान्तः। | १ तत्पूर्वकं प्रत्यक्षपूर्वकम् । Page #7 -------------------------------------------------------------------------- ________________ (४) प्रमाणमीमांसासूत्रम् गौतमसूत्रम् १६ साध्यस्य निगमनम् । २-१-१५ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् । १-१-३९ १७ असिद्धविरुद्धानैकान्तिकास्त्रयोहे- सव्यभिचारविरुद्धप्रकरणसमत्वाभासाः। २-१-१६ साध्यसमकालातीता हेत्वाभासाः । १-२-४ १८ तत्त्वसंरक्षणार्थं प्रानिकादिस- प्रमाणतर्कसाधनोपालम्भः सिद्धामक्षं साधनदूषणवदनं वादः । २-१-३० न्तविरुद्धः पञ्चावयवोपपन्नः पक्ष प्रतिपक्षपरिग्रहो वादः। १-२-१ सुप्रतीतमेव स्यात्प्रज्ञानां विमर्शशालिनां यदत्र श्रीहेमचन्द्राचार्यसूत्रेषु गौतमसूत्रेषु च समानशब्दव्याहारेण यत्सूत्रितं तस्यैवैतद्वैलक्षण्यं तत्रापि सूत्रकृतोरुभयोरल्पीयसांशेन प्रतीतिभेदः । यथा वादलक्षणे है. सू. २-१-३० गौ. सू. १-१-२ तर्कलक्षणे है. सू. १-२-५ गौ. सू. १-१-४० । दुर्दैवविलसितेनाधुनास्माभिः श्रीहेमचन्द्राचार्याणां निखिला पञ्चाध्यायी नोपलभ्यते किन्तु शतसूत्रात्मकस्तस्या अध्योऽध्यायः । तत्र श्रीहेमचन्द्राचार्यैर्ग्रहीता गौतमसूत्रेष्वगृहीता विषया बहवः सन्ति ते च दर्शयितुं शक्यन्ते यतो गौतममूत्राणि सर्वाणि समुपलभ्यन्त एव मुद्रितान्यपि । तथाहि-हैमसूत्रधृताः प्रमाण, अनध्यवसाय, विपर्यय, वस्तु, प्रत्यभिज्ञानं, व्याप्ति, पक्ष, दृष्टान्ताभास, दूषण, जय, पराजयलक्षणादिविषया गौतमसूत्रेषु नोपलभ्यन्ते । अवग्रहहावायधारणावधिमनःपर्यायज्ञानद्रव्येन्द्रियादयो विषया गौतम. सूत्रेषु न लक्षिता इत्यन्यदेतत् । यतो नैते विषयाः समयान्तरे परिगृहीतास्तथैव गौतमसमयेऽपि । हेत्वाभासविषये महदेव वैलक्षण्यं गौतममते पञ्च हेत्वाभासाः श्रीहेमचन्द्रशास्त्रे ते त्रयः। त्रिष्वेव पश्चानामन्तर्भावः स्वयमेव 'विशेष्यासिद्धादीनामेष्वेवान्तर्भावः' २-१-१९ इति सूत्रवद्भिः प्रदर्शितः। Page #8 -------------------------------------------------------------------------- ________________ (५) ३ श्रीहेमचन्द्राचार्यचरितम् । ... अस्ति गुर्जरेषु धुन्धुकसंझो ग्रामः । तत्र मोढवंशावतंसः' चाच'संज्ञकः श्रेष्ठी निवसति स्म । तस्य भार्या 'पाहिनी' नाम । सा च कदाचित् उपलब्धं चिन्तामणिरत्नं गुरवेऽहमदामिति स्वप्नेऽद्राक्षीत् । तदानी दैवादायातान् श्रीप्रद्युम्नसूरिशिष्यान् श्रीदेवचन्द्रसूरीन्सा पाहिनी स्वस्वप्नमकथत् । तदा तैस्तस्य स्वप्नेनानेन संसूचितोऽयमर्थ इत्यकथ्य । तथा च प्रभावकचरिते हेमचन्द्रसूरिप्रबन्धे-- जैनशासनपाथोधिकौस्तुभः संभवी सुतः। तव स्तवकृतो यस्य देवा अपि सुवृत्ततः ॥ १६॥ तदनुसारं पाहिनीकुक्षे वैक्रमे ११४५ इ. स. १०८८ संवत्सरे कार्तिकशुक्लपूर्णिमायां भानुजवासरे पुत्ररत्नमजीजनत् । तस्य पितृकृतं व्यावहारिकं नाम 'चांगदेव' इत्यासीत् । शिशुरपि स महामतिः पञ्चमे वर्षे गुरुणा मातृसकाशात्प्रार्थितः । तया च पत्यौ प्रोषितेऽपि स्वप्नसंस्मृतेः पञ्चवर्षीयश्चांगदेवो गुरुभ्यः चान्द्रगच्छीयदेवचन्द्रसूरिभ्यः समाप्यंत । स च १ तस्या नाम ' चङ्गी' इति वीरवंशावली ( साहित्यसंशोधकत्रैमासिकम् । खं. १. अं. ३ पूना) . २ (१) जैन इतिहासे भा. १ हिरालालहंसराजसंकलिते पृ. ५१ एते प्रद्युम्रसूरयो न देवचन्द्रगुरवः किंतु भिन्नाः। ते मानदेवसूरिपूर्णचन्द्रसूरिगुरव आसन् । तेषां विद्यमानताकाल:-- विक्रमसंवत् १२९२ । ये श्रीहेमचन्द्रसुरिगुरवो देवचन्द्रसूरयस्ते भिनास्तैः शान्तिनाथचरितम् २ स्थानाङ्गवृत्तिरिति ग्रन्थद्वयं कृतम् । वीरवंशावल्यामपि (पृ. २१६) इत्यत्र प्रद्युम्नसूरिशिष्या मानदेवसूरय इत्युक्तम् । (२) श्रीहमेचन्द्रः प्रद्युम्न सूरिसतीर्थ्य (गुरुबन्धु ) इति डॉ. सतीशचन्द्रकृत (दि हिस्टरि ऑफ इण्डियन लॉजिक् ) ग्रन्थे पृ. १०५ इत्यत्र मुद्रितं, ३ टिप्पन्यां श्लोकश्च दत्तः-श्रीमांश्चन्द्रकुलेऽभवद्गुणनिधिः प्रद्युम्नसूरिप्रभुबन्धुर्यस्य स सिद्धहेमविधये श्रीहेमसूरिविधिः । उत्पादसिद्धिप्रकरणटीकायां चन्द्रसेनकृतायाम् । ३ स्वसंप्रदायेऽधुना पुर्वाचार्यवत् शासनोन्नतिकारको न कोऽपि पुरुषोऽस्तीति दूयमानचतोभः 'श्रीपूर्णतल्लाख्यगच्छीयश्रीदेवचन्द्रसूरिभिः संप्रार्थिता देवा एवं तेभ्यो वरमदुः । यूयं धुंधुकग्रामं गत्वा — पाहिनी' सूनुं चांगदेवाख्यं याचत स च संप्रति सप्रभावको भविष्यति तदनुसार तैर्गत्वा याचितः स सुतः ' । कुमारपालचरिते चारित्रसुन्दरगणिकृते प्रथमसर्गे तृतीयवर्गे । Page #9 -------------------------------------------------------------------------- ________________ (६) चांगदेवस्तैः स्तम्भनपुरं नीत्वा दीक्षया संस्कृतः विक्रमसंवत्सरे ११५० मिते माघशुक्लचतुर्दश्यां रविसुतवारे । दीक्षितस्य तस्य सोमचन्द्रेत्यभिधानं बभूव । ततः श्रीरैवतावतारे श्रीनेमितीर्थे जाग्रतो नासाग्रन्यस्तचक्षुषः सोमचन्द्रस्य समाराधनात् देवी शारदा तुष्टा तवेहितं सेत्स्यतीति तस्मै वरमदात्। तेन वरेण सिद्धं तं सोमचन्द्रं शुभे मुहूर्ते विक्रमसंवत्सरे ११६६ मिते (१२०९) वैशाखे प्रभावकधुराधुर्यं सूरिपदे स्थापयामासुः श्रीगुरवः । तदा तस्य ' हेमचन्द्र' इति संज्ञा व्यधायि । ___अथ च श्रीहेमचन्द्राचायैर्विविधास्तत्तच्छास्त्रव्युत्पादका ग्रन्था निरमीयन्त यन्नामनिर्देशोऽनुपदमेव करिष्यते । तत्रान्यतमोऽयं प्रमाणमीमांसाख्यो निरुपमो न्यायग्रन्थः । जैनश्वेताम्बरसंप्रदायानुयायिनां सन्त्यन्येऽपि न्यायग्रन्थाः। तथाहि-१ श्रीसिद्धसेनदिवाकराणां वैक्रमप्रथमशताब्द्यां वर्तमानानां संमतितर्कन्यायावतारादयः । २ श्रीहरिभद्रमूरिणां वैक्रमषष्ठाव्यां वर्तमानानां अष्टकानि षड्दर्शनसमुच्चय, अनेकान्तजयपताकादयः ।३ श्रीदेवसुरिणां वादिदेवसूरीति नाम्ना विख्यातानां वैक्रमद्वादशशताब्यां वर्तमानानां प्रमाणनयतत्त्वालोकालङ्कारः स्वोपज्ञस्याद्वादरत्नाकराख्यबृहट्टीकासहितः । ततः ४ श्रीहेमचन्द्रसमयो वैक्रमद्वादशाब्दी । एतेषां वादिदेवसूरीणां च समानकालभवत्वं यतो वादिदेवसूरिभिः सह सिद्धराजसभायां । श्रीहेमचन्द्रसूरय आसन् दिगम्बराचार्यकुमुन्द्रचन्द्रशास्त्रार्थसमये ।५ ततः परं वाचकयशोविजयसूरीणां वैक्रमषोडशशताब्द्या वर्तमानानां द्वाविंशिकादयो ग्रन्थाः । यद्यप्येतत्कृता द्वात्रिंशिकाः स्वतन्त्र १ पूर्व गुरुश्चतुर्दशे वर्षे ११५९ मिते, ११६४ मिते वा सोमचन्द्रं पदाधिकारिणमकारयत् । ततो गुरुनिदेशेन कश्मीरा शारदाराधनबुध्या गतवतस्तृतीये प्रयाणके शून्ये कस्मिंश्चिद् देवालये निशीथे शारदामन्त्रं हृदि ध्यायतस्तस्य पुरस्ताच्छारदा प्रादूर्भूय वरमदात् तिरोभूता च । तथाहि-नानाविज्ञानरूपः शुचिरुचिरवचोरञ्जितानेकभूपः सद्विद्यायज्ञयूपो भवभवभयभित्पुण्यपानीयकूपः । आजन्मब्रह्मलीलाकलितकलतनो! संस्मृता त्वत्समापिमेषैष्यामीत्युदित्वा सपदि भगवती भारती सा तिरोऽभूत् ॥२१॥ चा. कृत कुमारपालचरिते प्रथमसर्गे चतुर्थवर्गे। Page #10 -------------------------------------------------------------------------- ________________ ग्रन्थास्तथापि ते श्रीहरिभद्रमुरिग्रन्थानां विस्तृतविशव्याख्यानरूपा इव भान्ति । सोऽयं सामयिकः क्रमो न्यायशास्त्रग्रन्थकृतां जैनश्वेताम्बराचायाणाम् । तत्र श्रीहेमचन्द्रचार्यकृतानां सार्धचतस्रः कोटयो ग्रन्थानामिति प्रामाणिकैतिहासिकैस्तत्र तत्र निर्दिष्टम् । प्रकृते च प्रमाणमीमांसाग्रन्थे पर्यालोच्यमाने सुप्रतीतं भवति विदुषां यदेतद्ग्रन्थप्रणयनसमये श्रीहेमचन्द्राचार्या गौतमबौद्धजैनाचार्यकृतिषु न्यायविषयिणीषु दत्तदृष्टय आसन्निति । आचार्यैरेतैर्व्याकरणादिग्रन्थेष्विवात्रापि प्रमाणमीमांसाग्रन्थे स्वासाधारण्यं विषयप्रतिपादनादिविषये प्रादर्शि । सर्वेष्वधीतेषु श्रीहेमचन्द्राचार्यग्रन्थेषु सर्वविषयनदीष्णः स्याद्यः कोऽपि न तेन संप्रदायान्तरस्थो ग्रन्थोऽध्येय इति वदन्नहं नातिशयोक्तिभाजनमात्मानं करोमीति दृढं प्रत्येमि यत आचार्याणामेतेषां वाङ्मयस्य सर्वासु शाखासु सिद्धान्तग्रन्था दृश्यन्ते तथाहि- व्याकरणे हैमशब्दानुशासनं पञ्चाङ्गम् ।साहित्य काव्यानुशासनम् , काव्येषु व्याश्रयकाव्यम् । छन्दःसु छन्दोऽनुशासनम् । योगेषु योगशास्त्रम्। अध्यात्मविषये, अयोगान्ययोगव्यवच्छेदद्वात्रिंशिके। नीतिषु-अर्हन्नीतिः । चरित्रेषु, त्रिषष्ठीशलाकापुरुषचरित्रम् । कोशेषुअभिधानचिन्तामण्यादयः । न्यायग्रन्थेषु-प्रमाणमीमांसा । एवमेव सर्वत्र । किं चापरमिदं वैशिष्टयमेतेषां यत्र व्याख्यानापेक्षा तत्र तैः स्वोपज्ञवृत्तिरेव व्यरचि । तेन न संप्रदायान्तरवत् एतद्ग्रन्थेष्वभिप्रायभेदः संभवति । यदद्य पण्डितैजैनग्रन्थानामैश्वर्यमुररीक्रियते तदेतदाचार्यकृतग्रन्थमूलमेव । नो चेदाचार्याः प्राणेष्यन् ग्रन्थजातं तर्हि जैनवाङ्मयमपूरितमिवाभविष्यत् । एताः सर्वा ग्रन्थकृतयः श्रीसिद्धराजकुमारपालसंसूचनयैव समभूवन । तथाहि सिद्धराजसंसूचनया संस्कृतप्राकृतापभ्रंशव्याकरणानि । कुमारपालसंसूचनया योगशास्त्रत्रिषष्टिपुरुषचरित्रादिकम् । तथाच-" ततः समभ्यर्थ्य स हेमचन्द्रसूरीन् श्रुतेशावरराजमानान् । श्रीसिद्धहेमाभिधशब्दशास्त्रमचीकरसिद्धनृपः स्वकीत्यै॥२९॥" कुमारपालचरिते प्रथमसर्गे चतुर्थबर्गे। "भूपालोऽथावदत् किं नास्मरकोशे शास्त्रपद्धतिः । विद्वान् Page #11 -------------------------------------------------------------------------- ________________ (८) कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे ॥७९॥ सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् ॥८०॥ श्रीहेममूरयोऽप्यतालोक्य व्याकरणव्रजम् । शास्त्रं चक्रुर्नवं श्रीमत्सिद्धहेमाख्यमद्भुतम् ॥१६॥" इति प्रभावकचरिते श्रीहेमचन्द्रसूरिप्रबन्धे" श्रीयोगशास्त्रप्रमुखान् प्रबन्धान त्रिषष्टिपुसां चरितानि चायम् । प्रभोर्मुखान्निश्चलचित्तवृत्तिः शुश्राव सुश्रावकचक्रचक्री ॥२०॥" कुमारपालचीरते चतुर्थसर्गे चतुर्थवर्गे। एवं ग्रन्थान् निर्माय तत्र तत्र शास्त्रार्थचर्चया कुमारपालादिप्रतिबोधनेन कालं समर्थयतां श्रीहेमचन्द्राचार्याणां पञ्चाशद्वर्षाणि व्यतीयुः । अन्तरान्तरा तेषां वादोऽप्यभूत्। तथाच कुमारपालचरिते पञ्चमसर्गे प्रथमवर्गे-" काशीनिवासी स्वकलाकलापदासीकृताशेषजनः प्रकाशी । तद्देवबोधः कृतवादिरोधः शुश्राव नामान्यकृतावबोधम् ॥४॥ श्रीहेमचन्द्रेण समं विवादं कर्तु समागात् समदेन तत्र । अहो ! सहन्ते नहि मानवन्तस्तेजः परेषामधिकं समर्षाः ॥५॥" एवं परानुग्रहबुद्धया कालं नयन्तोऽगाधमेधश्रीहेमचन्द्राचार्याः कलिकालसर्वज्ञेति बिरुदावलिं भूषयन्तः स्वर्गमलंचकुवैक्रमसंवति १२२९ मिते वर्षे । तथाच प्रभावकचरिते श्रीहमचन्द्रसूरिप्रबन्धे "नन्दद्वयरवौ वर्षेऽवसानमभवत्प्रभोः॥८४९" तत्रैव तद्वर्णनम्। "इत्थं श्रीजिनशासनाभ्रतरणेः श्रीहेमचन्द्रप्रभोरज्ञानान्धतमःप्रवाहहरणं मात्रादृशाम् मादृशाम् । विद्यापङ्कजिनीविकाशविदितं राज्ञोऽतिवृध्द्यै स्फुरत्- . वृत्तं विश्वविबोधनाय भवताद् दुःकर्मभेदाय च ॥८५०॥" ४ श्रीहेचन्द्राचार्यरचितग्रन्थानां नामानि । १ सिद्धहेमशब्दानुशासनम् (सूत्राणि, लघुबृहद्वृत्तिद्वयं, बृहद्वृत्तौ २ गणपाठः, सवृत्तिः ३ धातुपाठः (धातुपारायणम् ) सवृत्तीनि ४ उणादि सूत्राणि, बृहट्टीकायुतं ५ लिङ्गानुशासनम् । ) स्वोपज्ञबृहद्वृत्तौ न्यासः (८४०००) ग्रन्थसंख्यात्मकः । Page #12 -------------------------------------------------------------------------- ________________ (3) २ काव्यानुशासनम् (सवृत्ति ) । ३ छन्दोऽनुशासनम् (सवृत्ति ) । ४ अयोगव्यवच्छेद्द्द्वात्रिंशिका | ५ अन्ययोगव्यवच्छेदद्वात्रिंशिका | ६ अर्हन्नीतिः । ७ अभिधानचिन्तामणिः सवृत्तिकः ( अयमेव नाममालत्यप्यभिधीयते डॉ. सतीशचन्द्रेण ) ८ अनेकार्थसंग्रहः सवृत्तिः (पिटर्सनमहाशयः वृत्तिर्महेन्द्रकृता न हेमचन्द्रकृतेति वदन् चिन्त्यः । पिटर्सन्स रिपोर्ट पृ. ५१ ) जैनग्रन्था - वलि पृ. ३०९ इत्यत्र अनेकार्थनाममालेति नाम यदुच्यते तदेतस्यैव स्यात् । ९ निघण्टुः सशेषः । १० देशीनाममाला (सवृत्ति: ) ११ योगशास्त्रम् (सवृत्ति) १२ त्रिषष्टिशलाकापुरुषचरित्रम् | १३ परिशिष्ट पर्व १४ व्याश्रयमहाकाव्यं संस्कृतं प्राकृतं च । १५ वीतरागस्तोत्राणि विंशतिसंख्यानि ( तथा च प्रभावकचरिते “ चक्रे विंशतिमुच्चैः स वीतरागस्तवानां च ।। ८३५ ।। " १६ न्यायबलाबलसूत्राणि । ( अत्र पं. हिरालालहंसराजकृतजैनेति हासे ( १-१४९ ) बलाबलसूत्र बृहद्वृत्तिरित्युक्तम् ) १७ सप्तसंधानमहाकाव्यम् । १८ नाममालाशेष: (निर्णय सागरमुद्रितकाव्यानुशासनप्रस्तावनायामेवं निर्देशः ) १९ बालभाषाव्याकरणसूत्रवृत्ति: । ( पं. हिरालालमतेन ) २० विभ्रमसूत्रम् । (पं. हिरालालमतेन । पं. बेचरदास महाशयस्तु ग्रन्थोऽयं गुणचन्द्रस्येति लिखति पुरातत्त्व पु. ४ अं. १ पृ. ८१ ) काव्यानुशासनप्रस्तावनानुसारम् २१ शेषसंग्रहः २२ शेषसंग्रहसारोद्धारः २३ द्वात्रिंशत् द्वात्रिंशिका : - जैनग्रन्थावलयनुसारम् पृ. १८० इदं लिखितपुस्तकं राजनगर ( अहमदाबाद ) डेहलाभाण्डागारेऽस्तीति तत्रैव निर्दिष्टम् । Page #13 -------------------------------------------------------------------------- ________________ (१०) ... २४ नाभेयनेमिद्विसंधानकाव्यम् । जैनप्रन्थावल्यनुसारम् । तथा मुनिजिनविजयमहाशयाः। पं. हिरालालमतेनायं ग्रन्थः द्रोणाचार्यशिष्यसुराचार्यकृतः ( जै. इ. ११३६) २५ द्विजवदनचपेटा-अयमेव ग्रन्थो वेदाङ्कश इत्यप्यभिधीयत इति पं. हरगोविन्ददासमतम् । श्रीहरिभद्रसूरिकृतोऽपि द्विजवदनचपेटेति ग्रन्थो वर्तते। - २६ चन्द्रलेखविजयप्रकरणम् । जैनग्रन्थावली पृ.३२९एतदनुसारम् । - अयि श्रेष्ठा विद्वांसः। आर्हतमतप्रभाकरपरिचये प्रतिश्रुतानुसारं प्रथमोऽयं किरणः प्रमाणमीमांसाख्यः प्रकाश्य श्रीमत्पुरतो निधीयते । एतप्रकाशने पुस्तकद्वयं लब्धम् ।। १ प्राच्यविद्यासंशोधनमन्दिरम् (भाण्डारकर ओरिएंटल रीसर्च इं.) प्राचीनं लिखितं च । अतीवाशुद्धम्पूर्णं च । . २ श्रेष्ठि माणिकलालमनसुखभाईमुद्रापितम् अधुना दुर्लभमपि मुनिजिनविजयजीकृपाप्रसादाल्लब्धम् । पुस्तकद्वयेनाप्युपकृता वयं तत्तन्महाशयानुग्रहभरान्वहामः । एवं पुस्तकद्वयानुसारं विलिख्य शुद्धं पुस्तकमर्थभेदविधायिपाठान्तराणि संगृहीतानि टिप्पनीरूपेण । तथैव टिप्पन्यां १ दुर्गमशब्दार्थः २ पौराणिकदृष्टान्ताः ३ लौकिकन्यायाश्च तथा विशदीकृता यथा ग्रन्थार्थजिज्ञासूनांसौकर्यं स्यात् । किं च प्रमाणार्थ ग्रन्थकृदाहतानि वचांसि तत्तद्ग्रन्थस्थलनिर्देशपूर्वकमधो निर्दिष्टानि स्थूलाक्षरैश्च मुद्रितानि येन प्रकरणादिज्ञानं सुलभं भवेत् जिज्ञासूनाम् । प्रयतमानैरप्यस्माभिः कानिचिद्वचनस्थलानि नोपालभ्यन्त तानि तथैव स्थूलाक्षरैर्निर्दिष्टानि । यैर्महाशयैरुपलभ्येत पूर्वोक्तवचनस्थलादिकं तैरनुग्रहबुध्द्या प्रेष्यते चेत् लिखित्वास्मत्सविधे तर्हि पुनर्मुद्रणावसरे तदुपयोगेनात्मनः कृतकृत्यता संपाद्येत । कानिचिद्वाक्यानि नोपलभ्यन्ते यथायथं किं तु तदर्थसमानि ग्रन्थेषु केषुचित लभ्यन्ते तद्ग्रन्थनामानि स्थलनिर्देशपूर्वकं टिप्पन्यां दर्शितानि । दृढं विश्वसिमो यद्गन्थकृदादृतानुपूर्वीघटितानि भवेयुरेव कुत्रचित् इमानि वाक्यानि तान्यपि यदि कैश्चित्कृपया प्रेष्यन्ते तर्हि पुनर्मुद्रणावसरे मुद्रापयिष्येरन् । एवं त्रिविधमपि स्थूलाक्षरमुद्रितं, उपलब्धानुपलब्धोपलब्धसमवाक्यजातं परिशिष्टे दर्शनसौकर्याय मुद्रापितम् । प्रास्ताविके Page #14 -------------------------------------------------------------------------- ________________ (११) १ प्रमाणमीमांसाग्रन्थधृतविषयः २ न्यायसूत्रप्रमाणमीमांसयोंवैलक्षण्यम् ३ श्रीहेमचन्द्राचार्यचरितम् ४ श्रीहेमचन्द्राचार्यरचितग्रन्थानां नामानि । इति चतुष्टयं यथामति सविस्तरं निरूपितम् । श्रीहेमचन्द्राचा. र्याणां वंशवृक्षो यद्यपि महतायासेन साधनानि समुच्चित्य संसाधितस्तथापि केषांचिदाचार्यमहाभागानां संसूचनया न मुद्रापितः । अन्तिममरुन्तुदं कृत्यं निवेदयामो यत् मुद्रापितग्रन्थे संभूता अशुद्धयः । तत्र कारणं मानुषतासुलभमज्ञानमिति तु नातिरोहितम् । तथापि काचिदासीत्त्वरा। तथाहि-अस्माभिरारब्धमात्रे मुद्रापणे श्रुतिपथमागतं यत् 'जैनश्वेताम्बरपरिषदोऽधिवेशनम्' पक्षाभ्यन्तर एव मोहमय्यां भवितेति तदासीन्मनसि यदेकसमयावच्छेदेन सर्वेभ्यो नानादिग्देशागतेभ्यःपण्डितेभ्यो जैनग्रन्थप्रसारबद्धादरेभ्यो महाशयेभ्यश्च दर्शनीयं मुद्रितप्रमाणमीमांसापुस्तकं भवतु च परिचयः कार्यद्वारा 'आर्हतमतप्रभाकरस्य ' इति निश्चित्य प्रत्यहं षोडशपत्राणि मुद्राफ्तिानि । तेन मुद्राप्यमाणपत्रावलोकनानवसरादशुद्धयः प्रतिपृष्ठं पदमकार्षुः । संतुष्यते चेतो निवेदयितुं पुस्तकमेतन्मुद्रापितं दृष्ट्वा बहुभिः प्रज्ञैर्महाशयश्चै सभ्यैः प्रोत्साहितोऽहं आहेतमतप्रभाकरकर्मणि । ततः सभाया निवर्त्य शुध्द्यशुद्धिपत्रं निर्मितं तदप्यन्ते परिशष्टरूपेण मुद्रापितम् । तदनुसारं संपाद्य पुस्तकशुद्धिं पठेयुः पाठकश्रेष्ठा इति विज्ञापयामः । प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकं तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाठकोपाह्वश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात् साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थकारिटिप्पनीयुतं प्रास्ताविकं च सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्यतेति निर्दिशन्नहमल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किंच 'दत्तराम रंगनाथ उपासक' (कार्याधिपो जैन प्रिंटिंग वर्क्स) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये यदल्पीयसा कालेन स्वीयकार्यकर्तृभिः सहैतैः सोदायासभरानहोरात्रं संपादितं मुद्रणं पुस्तकस्यास्य । यदि न स्यादीदृशं साहाय्यं तर्हि पुस्तकमिदं जैनश्वेताम्बराधिवेशनसमये नोपस्थितं भवेत् । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यमानास्टीर्विज्ञाप्यानुग्राह्योऽयं जन इति संप्रार्थकःसांवत्सरीकपर्व वीरसंवत् २४५२ । विद्वद्वशंवदः, पुण्यपत्तनम् . मोतीलाल लाधाजी Page #15 -------------------------------------------------------------------------- ________________ १-१-१५ अकारादिक्रमेण प्रमाणमीमांसामूत्राणां सूचिपत्रम्। अक्षार्ययोगे दर्शना- १-१-२७ । तत्सर्वथावरणविलयेअज्ञाननिवृत्तिर्वा । १-१-३९ । तथोपपत्त्यन्यथानुप- २-१-४ अत एव नोभयोः प्र- २-१-६ तविधा स्वार्थ परा- १-२-८ अतस्मिंस्तदेवेति- १-१-७ तन्दधा । २-१-३ अथ प्रमाणमीमांसा । १-१-१ तल्लक्षणत्वाद्वस्तुनः। १-१-३३ अनुभयत्रोभयकोटि- १-१-५ तस्यां सत्यामर्थप्रकाश- १-१-३८ अप्रदर्शितान्वयव्यतिरेको। २-१-२७ द्रव्यन्द्रियं नियताकाराः- १-१-२३ अभूतदोषोद्भावनानि- २-१-२९ दर्शनस्मरणसम्भवं- १-२-४ अमूर्तत्वेन नित्ये २-१-२३ दृष्टान्तवचनमुदाहरणम्। २-१-१३ अर्थक्रियासामर्थ्यात्। १-१.३२ धर्मिणि साधनस्योप- २-१-१४ अवग्रहादीनां वा- १-१-४० धर्मी प्रमाणसिद्धः। १-२-१६ अवग्रहीतविशेष- १-१-२८ | न दृष्टान्तोऽनुमानाङ्गम् । १-२-१८ अविशदः परोक्षम् । १-२-१ न विप्रतिपत्त्यप्रतिपत्ति- २-१-३४. असम्भवद्बाधकत्वा नानयोस्तात्पर्ये भेदः। २-१-५ असिद्धविरुद्धानैका- २-१-१६ नार्थालोको ज्ञानस्य- १-१-२६ असिद्धिः पराजयः। २-१-३२ नासन्ननिश्चितसत्त्वो- २-१-१७ इन्द्रियमनोनिमित्तोऽव- १-१-२१ । नियमस्यासिद्धौ स- २-१-२१ इंहितविशेषनिर्णयो- १-१-२९ प्रशातिशयविश्रा १-१-१६ उपलम्भानुपलम्भनिमित्तं- १-२-५ प्रत्यक्षं च परो १-१-१० ऊहात्तन्निश्चयः। १-२-११ प्रत्यक्षानुमानागमलोक १-२-१४ एतावान् प्रेक्षप्रयोगः। २-१-९ प्रमाणं द्विधा। १-१-९ कर्तृस्था प्रमाणम् । १-१-३७ प्रमाणस्य विषयो १-१-३१ कर्मस्था क्रिया। १-१-३६ प्रमाणाद्भिन्नाभिन्नम् । १-१-४२ गम्यमानत्वेऽपि साध्य- २-१-८ प्रमाणान्तरानपेक्षे- १-१-१४ अहिष्यमाणग्राहिणः- १-१-४ प्रामाण्यनिश्चयस्व १-१-८ तत्तारतभ्येऽवधि- १-१-१८ | पूर्वोत्तराकारपरिहार १-१-३४ तत्त्वसंरक्षणार्थ प्राभिका- २-१-३० ।-फलमर्थप्रकाशः । १-१-३५ १-१-१७ Page #16 -------------------------------------------------------------------------- ________________ १-१-३ (१३) - बुद्धिसिद्धोऽपि । १-२-१७) स्मृतिहेतुभरणा। १-१-३० बोध्यानुरोधात्प्रतिशा। २-१-१० सम्यगर्थनिर्णयः प्रमाणम् । १-१-२ भावाभावात्मकत्वा- १-१-१२/ सर्वार्थग्रहणं मनः। १-१-२५ भावन्द्रियं लब्ध्युपयोगौ। १-१-२४ स्वनिर्णयः सन्नप्ययथोक्तसाधनाभिधानजः- २-१-१ । स्वपक्षस्य सिद्धिर्जयः। २-१-३१ वचनमुपचारात् । २-१-२ | स्वपराभासी परिणाम्या- १-१-४३ वचनाद्रागे रागान्म- २-१-२५/ स्वभावः कारणं कार्य- १-२-१२ व्यवस्थान्यधीनिषे- १-१-११ स्वार्थ स्वनिश्चितसाध्या- १-२-९ व्याप्तिापकस्य व्याप्ये- १-२-६ । स व्याप्तिदर्शनभूमिः । १-२-२० वादिप्रतिवाद्युभय- २-१-१८ स साधर्म्यवैधाभ्यां- १-२-२१ वासनोद्बोधहेतुका- १-२-३ | सहक्रमभाविनोः सह- . १-२-१० विपरीतनियमान्यथै- २-१-२० साधनत्वाभिव्यञ्जकविभक्त्य- २-१-१२ विपरीतान्वयव्यतिरेको । २-१-२६ साधनदोषोद्भावनं- २-१-२८ विशदः प्रत्यक्षम् । १-१-१३ साधनधर्मप्रयुक्त- १-२-२२ विशुद्धिक्षेत्रस्वामि- १-१-२० साधनमात्रात्तात्सद्धेः। १-२-१९ विशेषानुल्लेख्यनध्यवसायः । १-१-६ - साधनात्साध्यविज्ञानम- १-२-७ विशेष्यासिद्धादीनामे- २-१-१९ साध्यधर्मनिवृत्तिप्रयु- १-२-२३ विषयोपदर्शनार्थं तु- २-१-७ । साध्यनिर्देशः प्रतिज्ञा । २-१-११ वैधhण परमाणुकर्मा- २-१-२४ साध्यं साध्यधर्मावशि १-२-१५ स द्वेधा भवप्रत्ययो- १-१-१९ साध्यस्य निगमनम् । स निग्रहो वादिप्रतिवादिनोः।२-१-३३ साधर्म्यवैधाभ्यामष्टा- २-१-२२ स्पर्शरसगन्धरूप- १-१-२२ सिषाधयिषितमसिद्ध- १-२-१३ स्मृतिप्रत्यभिज्ञानो- १-२-२ । हानादिबुद्धयो वा । १-१-४१ २-१-१५ Page #17 -------------------------------------------------------------------------- ________________ (१४) निर्दिष्टस्थलानि प्रमाणवचनानि प्रमाणवचनानि अनिग्रहस्थाने १०४ गौ. सू. ५-२-२२ अपाणिपादो जवनो- २० श्वेताश्वतरोपनिषद् ३-१९ अभिलापसंसर्ग ३७ न्या. बि. परि. १ सू. ४ अयमेवेति यो ह्येष- . १५ मी. श्लो. सूत्र ५ अभावप. श्लो. १५ इन्द्रियार्थसन्निकर्पोत्पन्नं- ३६ गौ. सू, १-१-४ उत्वाव्ययध्रौव्ययुक्तं सत् । ४० तत्त्वार्थ, ५-२९ एवं सत्यनुवादत्वं ३८ मी. श्लो. सू. ४ श्लो. ३९ कत्थइ पंचावयवं-- ७६ दशवै. हा. बृ. अ. १ गा. १ (रा. ब. बाबु धनपतसिंहजी) कार्यव्यासङ्गात् कथा-- १०३ गौ. सू, ४-२-२८ कालमसंखं संखं च- ५१ विशे० गा. ३३३ गृहीत्वा वस्तुसद्भावं-- १५ मी. श्लो. सू. ५ अभावप, श्लो. २७ तत्त्वाध्यवसायसंरक्षणार्थ- ९. गौ. सू. १-२-१ तत्सम्प्रयोगे पुरुषस्य-- ३८ मी. द, पृ. ६ पं. १७ ( चौखम्ब सीरीज काशी) दोहिंवि नएहिं नीयं-- ४० सम्म, का. ३ गा. ४९ । दृष्टश्वासावन्ते-- न्या. वा. पृ. ५५२ पं. ८ (चौखम्बासीरीज काशी) न तावदिन्द्रियेणैषा मी. श्लो. सू. ५ अभावप, श्लो. १८ नर्ते तदागमात्सिध्येत्- १९ मी. श्लो. सू. २ श्लो. १९ प्रतिज्ञाहेतूदाहरणोपनय- ७६/१०८ गौ. सू. १-१-३२ प्रतिज्ञाहेत्वोविरोध ९६ गौ. सू. ५-२-४ प्रतिदृष्टान्तधर्माभ्यनुशा- ९४. गौ. सू. ५-२-२ प्रतिविषयाध्यवसायो- . ३९ सां. कारिका ५ प्रत्यक्ष कल्पनापोढ- - ३७ न्या. बि. परि. १ २-४ Page #18 -------------------------------------------------------------------------- ________________ (१५) पृष्ठे ... प्रमाणवचनानि प्रमाणतर्कसाधनोपलम्भ- प्रमाणनरधिगमः प्रमाणस्य फलं साक्षात- प्रमाणं स्वपरावभासिपुटुं सुणेइ सदंपुढवि चित्तमंतममतिश्रुतयोर्निबन्धोमदेन मानेन मनोभवेनयत्र तत्र समये यथा तथा यत्राप्यतिशयो दृष्टःयथोक्तोषपन्नछलयदीयसम्यक्त्वबलात्प्रतीमोरूपिष्ववधेः । रोलम्बगवलव्यालविप्रतिपत्तिरप्रत्तिपत्तिश्च- श्रुतमनिन्द्रियस्य । सत्सम्पयोगे पुरुषस्यसम्बद्धं वर्तमानं च-.. सम्यगनुभवसाधनं सम्यगर्थे च संशब्दो- - स्वापूर्वार्थव्यवसायात्मकं- साध्यधर्मप्रत्यनीकेन- सिद्धान्तमभ्युपेत्य- हेत्वपदेशात्प्रतिज्ञाहेत्वाभासाश्च यथोक्ताः । हेलोस्तथोपपत्त्या वा ९१ गौ. सू. ५-२-२९ ४ तत्त्वार्थ, १-६ ४७ न्याया. श्लो. २८ ६ न्याया, श्लो, १ ३४ विशे. गा. ३६० २८ दशवै, अध्य, ४ सूत्र १ ३१ तत्त्वार्थ, १-२७ २३ अयोगव्यव, श्लो. २५ २४ अयोगव्यव. श्लो. ३१ ५४ मी. श्लो. सू. २ श्लो. ११४ - ९२ गौ. सू. १-२-२ २१ अयोगव्यव, श्लो. २१ । २५ तत्त्वार्थ. १-२८ ६३ षड्, समु. अ. २ श्लो. २० ९४ गौ. सू. १-२-१९ ३१ तत्त्वार्थ, २-२२ ३७ मी. द. १-१-४ २४-५३ मी. श्लो, सू, ४ श्लो. ८४ ११ न्यायसार, परि, १ सू. १.. ३८ मी. श्लो. सू. ४ श्लो. ३८ ८ परीक्षामुख १-१ . ९५ गौ. सू., वात्स्या, भा. ५-२-२ । १०४ गौ. सू. ५-२-२३ १०१ -गौ. सू. १-१-३९ १०४ गौ. सू. ५-२-२४ ७३ न्याया. श्लो. १७ Page #19 -------------------------------------------------------------------------- ________________ ४२ ० ० w Ww (१६) अनुपलब्धस्थलानि प्रमाणवचनानि प्रमाणवचनानि अमिस्वभावः शक्रस्य- ६४ अथापि नित्यं परमार्थसन्तंअथापि वेददेहत्वात्अनुमानादि विलक्षअन्यथानुपपन्नत्वं-- अपूर्वार्थविज्ञानम् । अर्थक्रिया न युज्येत-- अर्थक्रियासमर्थस्यअर्थेन घटयत्येनां-- अल्पाक्षरमसन्दिग्धंअसाधनाङ्गवचन-- आद्यन्तापेक्षिणी सत्ता-- ६५ आवर्तवतनाशालिइन्द्रियमनोनिमित्तः । उप्पण्णे इवा विगमे-- उपमानं प्रसिद्धार्थ-- एकसामाग्रयधीनस्य-- एकार्थसमवायस्तुकार्य धूमो हुतभुजःगम्भीरगर्जितारम्भ-- ज्ञानमप्रतिघं यस्य-- ज्ञानादतिरिक्तोतर्कसहितात्प्रत्यक्षात्त्रिकालविषयं तत्त्वं--- दुःशिक्षितकुतर्कोश ११ ३२ ६ - U ९३ Page #20 -------------------------------------------------------------------------- ________________ (१७) प्रमाणवचनानि धीरत्यन्तपरोक्षेऽथेन स्मृतेरप्रमाणत्वंनासतो हेतुता नापिनासिद्धे भावधर्मोऽस्तिनो इन्द्रियम् । प्रत्यक्षागमबाधितप्रत्येकं यो भवेद्दोषोप्रमाणेतरसामान्यपित्रोश्च ब्राह्मणत्वेनपूर्वप्रमितमात्रे हि बाधाविनाभावयोर्विभिन्नकालं कथं ग्राह्यमनोऽनिन्द्रियम् । यत्परः शब्दः सयथाहेः कुण्डलावस्था-(श्लोकपंचकम्)४९ यस्त्वन्यतोऽपियो यत्रैव स तत्रैवरूपं यद्यन्वयो हेतोरूपालोकमनस्काररोमशो दन्तुरः श्यामो (श्लोकत्रितयम् )५२ लिङ्गस्यानन्वया अष्टालिङ्ग लिङ्गीभवत्येववर्षातपाभ्यां किं व्योम्नःविरुद्धहेतुमुद्भाव्यशंखः कदल्यां कदलीश्रोत्रादिवृत्तिरविकल्पिका Page #21 -------------------------------------------------------------------------- ________________ (१८) प्रमाणवचनानि सकलप्रमाणज्येष्ठं प्रसर्वमस्ति स्वरूपेणस्वसमयपरसमयज्ञास्वार्थव्यवसायात्मकं प्रमाणम्सादेरपि न सान्तत्वंसाध्यानुवादालिङ्गस्यहसति हसति स्वामिन्यु पृष्ठे उपलब्धवाक्यसमानि प्रमाणवचनानि प्रमाणवचनानि अर्थोपलब्धिहेतुः प्रमाणम् । ११ गौ. सू. पृ. ९४ पं. (आनन्दाश्रम) अविच्चइ धारणा होइ । ३५ विशे. मूलगा २ भाष्यगा. १ जाणइ बज्झे गुमाणा उत्ति- २६ विशे. गाथा ८१४ । प्रमाणमविसंवादिज्ञानम् । ११ न्या. बि. पृ.५५.९ (चौखम्बासिरीज काशी) हीनमन्यतमेनाप्यव- १०८ गौ. सू. ५-२-१२ Page #22 -------------------------------------------------------------------------- ________________ वैक्रम १२९४ मिते संवत्सरे तालपत्रोपरि चित्रितमूर्तिप्रतिकृतिः । .. . .... .... HEMAMA REN . BHAKTI Paire गार - - - कलिकालसर्वज्ञो भगवान श्रीहेमचन्द्रसूरीश्वरः। परमाहतश्रीकुमारपालभूपालः। इत्थं श्रीजिनशासनाभ्रतरणेः श्रीहेमचन्द्रप्रभो रज्ञानान्धतमःप्रवाहहरणं मात्रादृशां मादृशाम् । विद्यापङ्कजिनीविकाशविदितं राज्ञोऽतिवृष्ट्यै स्फुरत् वृत्तं विश्वविबोधनाय भवताद् दुःकर्मभेदाय च ॥१८५॥ -प्रभावकचरिते श्रीहेमचंद्रसूरिप्रबन्धे । Page #23 -------------------------------------------------------------------------- ________________ अशुद्धम् प्रद्युम्रसूरयो पुर्वाचार्यवत् कुमुन्द्रचन्द्र मपि श्री हेमचन्द्रचार्य 'श्रीचन्द्राच उणादि शुद्धम् पूर्ण (पुद्रल) प्रामाणान्तरमुपासीत शद्वात् संशद्वनम् ब्राह्मविष्णु (? स्वभावव भावसि सम्भागे नाना परिणामा नाना परिणामा शुद्धिपत्रकम् । ..... शुद्धम् प्रद्युम्नसूरयो पूर्वाचार्यवत् कुमुदचन्द्र मी श्री हेमचन्द्राचार्य श्रीहेमचन्द्राचार्य इदन्तया प्रतिभासो वेति इदन्तया प्रतिभासो वेति हृदि हृदि साहायक विरहात् सहायक विरहात् उणादि शुद्धमपूर्ण (पुद्गल ) प्रमाणान्तरमुपासीत सम्यगर्थनिर्णय शब्दात् संशब्दनम् ब्रह्मविष्णु स्वभावाव भासि सम्भोग नानापरिणामा नानापरिणामा पृष्ठे पङ्क्तौ ५ "" ६ "" 60 ሪ 2 x w 2 av १४ १६ १७ ११ "" १८ १९ २१ २२ "" 54 " 35 " २३ १७ २६ १.८ २.६ m x ~ ov -३ २४ २६ ११ १४ ८ ११ २१ २० २२ १५ SM ma ८ १६ १० Page #24 -------------------------------------------------------------------------- ________________ ___ पङ्क्तो y अशुद्धम् धनेकविध रूपशद्वानापरिमाणस्यापि मतिश्रुतयो नैयायिकसत्सप्तमी पक्ष पूर्वार्धम् ३९ उत्तरार्धम् उत्तरार्धम् नियम् भेद कल्पना विशेषण विशेष्यभावो प्रतिनियमहेतुत्वाभावात् नीलानील भेदध्वनिका द्रव्यपर्यात्मकं नन्वैवं व्यवस्थायाम् इतीदमखिल प्रमाण विक्षिते यद्यदुत्तर पन्थीनी " रोमशोदन्तुरः वृत्तिताः" विषयवत्वमपि लिङ्गीभवत्येव विपर्यासे शुद्धम् द्यनेकविधरूपशब्दानापरिणामस्यापि 'मेतिश्रुतयो नैयायिका सत्सप्तमपिक्ष उत्तरार्धम् ३८ पूर्वार्धम् पूर्वार्धम् नीयम् भेदकल्पना विशेषणविशेष्यभावो .. प्रतिनियतहेतुत्वाभावात् नलिानील भेदध्वनिना द्रव्यपर्यायात्मकं नन्वेवं व्यवस्थायाम् । इतीदमखिलप्रमाण विवक्षिते यद्यदुत्तरं पन्थीनि "रोमशो दन्तुरः वृत्तिता" विषयवत्त्वमपि लिङ्गी भवत्येव विपर्यासेऽ. ४४ & , , Page #25 -------------------------------------------------------------------------- ________________ (३) पृष्ठे पङ्क्तौ ६२ हेडिंग ११ - २२ होडिंग . अंशुद्धम् तन्दिविधा १-२-३ संवादिनं नित्यवे वाष्पभावेन १-२-५ व्यभिचारात् बाष्पदे १-२-५ च्छयनाशना स्ववचन प्रतीतयो विशिष्ये धर्मिता भ्यायामपि शद्वाः -शब्दस्य शुद्धम् तन्द्दिधा १-१-१२ संवादिन नित्यत्वे बाष्पभावेन १-२-१२ व्यभिचारात् बाष्पादे१-२-१२ च्छय स्ववचनप्रतीतयो विशिष्टो धर्मितां भ्यामपि शब्दाः शब्दस्य शब्दे विभेदो शब्दे यथाऽमि धूमवत्त्वोपपत्तेः धूमवत्त्वानुपपत्ते वा शब्दः स्वशब्देन त्तदुपपत्तिः धर्मोपसंहार पद्यन्ते: विभेदी शद्वे थयाऽनि धूमवत्वोपपत्तेः धूमवत्वानुपपत्तेवा स्वशद्वेन तदुपपत्तिः धर्मोपसहार चंते Page #26 -------------------------------------------------------------------------- ________________ ‘पङ्क्तौ अशुद्धम् त्वधिक यतश्री बृहद्धत्तिः तदती शुद्धम् त्वधिको यच्छी बृहदारीः तदती नुपपन्नः नपपन्न शब्द सत्वस्य सर्वत्रोत्पलकचित्पठाः सिद्धावाद्य सामान्यबत्वे दिकार्य प्रत्यक्षत्वा विपर्ययं नन्वनव्ययाव्यलिङ्ग स्याषामुद्भासते ऽनित्य जातीनामान्त्ये वर्णाश्रमापालन तत्त्वसंरक्षणार्थ प्रयोजन वोपपपन्न वितण्डा निराकरणेन सिद्धिजयः वादिन सनिग्रहो सत्त्वस्य सर्वत्रोपल कचित्पाठः सिद्धा सामान्यवत्त्वे दिकार्य प्रत्यक्षत्वाविपर्यय नन्वनन्वयाव्यलिङ्गस्यापामुद्भाव्यते ऽनित्यः जातीनामानन्त्ये वर्णाश्रमपालन तत्त्वसंरक्षणार्थ, प्रयोजनं वोपपन्न वितण्डानिराकरणेन सिद्धिर्जयः बादिनं स निग्रहो Page #27 -------------------------------------------------------------------------- ________________ (५) पङ्क्ती १ अशुद्धम श्रीपदकलङ्कः विप्रतिपत्तिभेदा व्यारयानं यद्यन्द्रिक प्रसज्जयन् भो वात्स्यायन भाष्ये दृष्टमैन्द्रिकत्वं यद्यन्द्रियक ऐन्द्रियकवादिति धर्म नोदिते । स्वदृष्टाते विरुद्धालक्षणो शब्द कदन्तं पदम् दितीयपक्षे रवात्कृतलभ्यात् . पदस्या पितत्स्यात् सागानामिति प्रतिपतृणाख्यानस्योपलम्भात् प्रतिज्ञा हेतु हनिमन्यतमे रुदत्यतिरादिति पुनरूक्तमुक्तं । शुद्धम् । श्रीमदकलङ्कः विप्रतिपत्तिभेदाः व्याख्यानं यद्यैन्द्रियिक प्रसञ्जयन् धर्म वात्स्यायनभाष्ये दृष्टमैन्द्रियकत्वं यौन्द्रियकं ऐन्द्रिकत्वादिति धर्म नोदिते स्वदृष्टान्ते विरुद्धतालक्षणो शब्दः कृदन्तं पदम् । द्वितीयपक्षे खात्कृतलम्भात् पदस्यापि तत्स्यात् समानमिति प्रतिपत्तॄणारव्यानस्योपलम्भात् प्रतिज्ञाहेतु हनिमन्यतमे रुदत्यतिरादिति, पुनरुक्तमुक्तं Page #28 -------------------------------------------------------------------------- ________________ (६) शक्ती ० ० अशुद्धम् प्रयत्नानान्त हेतुमेवोचार्य । दूषयितुम। युन्नांतरीयि शुद्धम् प्रयत्ननान्त हेतुमेवोच्चार्य दूषयितुमयन्नान्तरीयि १६ ० ० ० १०२ १०३ ० कण्ठ दोषः प्राप्तस्य १०४ निग्रानिग्रहार्ह नादति कण्ड दोपः प्रोत्पस्य निग्रा निग्रहाई नाद्यति सङ्गा निग्रहस्थान असाध सिध्धि निग्रहस्थानं वेदः सदो निग्रहस्थान असाधसिद्धि निग्रहस्थानं वादः Page #29 -------------------------------------------------------------------------- ________________ ॐ नमः सर्वज्ञाय कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता खोपज्ञवृत्तिसहिता प्रमाणमीमांसा अनन्तदर्शनज्ञानवीर्यानन्दमयात्मने । नमोऽर्हते कृपाक्लप्तधर्मतीर्थाय तायिने ॥१॥ बोधबीजमुपस्कर्तुं तत्त्वाभ्यासेन धीमताम् । जैनसिद्धान्तसूत्राणां स्वेषां वृत्तिर्विधीयते॥२॥ ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्व - कानि किमीयानि वा तान्यासन्निति । अत्यल्पमिदमन्वयुङ्क्तथाः। पोणिनिपिङ्गलकर्णादाक्षपादादिभ्योऽपि पूर्वे कानिं किमी * तायड् संतानपालनयोरिति ( है. धा. पा. १-८०६) धातो रूपम् । पालकायेत्यर्थः। १ बोधो ज्ञानम् । २ अष्टाध्यायीव्याकरणकारको दाक्षीपुत्रो मुनिः पाणिनिः । तेनैव प्राकृतलक्षणनामकं प्राकृतव्याकरणमपि रचितम् । 'यदाह पाणिनिः स्वप्राकृतलक्षणे "व्यत्ययोऽप्यासाम्"। इति। सूर्यप्रशप्तिटीकायां तथा पञ्चसंग्रहटकिायामपि 'यदाह पाणिनिः प्राकृतलक्षणे-तृतीयायें सप्तमी यथा 'तिसु तेसु ' अलंकिया पुहई' इति । मलयगिर्याचार्येण निरदोश । ३ छन्दःसूत्राणां प्रणेता पिङ्गलो मुनिः । ४ कणमत्तीति कणादः । तेन प्रणीत कणाददर्शनम् । अयमेवौलूक्यः । उलूकस्यधैरपत्यमौलूक्यः । अस्य दर्शनस्यौलूक्यदर्शनमिति नामे । अयं कणादो दशाध्यायात्मकदर्शनस्य प्रणेता ।अत्र (वैशेषिक ) मते पदार्थाः सप्त । ५ षोडशपदार्थवादिना (“ प्रमाणप्रेमेयसंशयप्रयोर्जेनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवैदिजल्पवितण्डाहेत्वाभासन्छलजातिीनग्रंहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगमः" । इति । Page #30 -------------------------------------------------------------------------- ________________ सूत्र १-१-१ ---- [प्रमाण यानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुट्व । अनादय एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाश्चोच्यन्ते। .. किं नाश्रौषीर्न कदाचिदनीदृशं जगदिति । यदि वा प्रेक्ष्य स्ववाचकमुख्यविरचितानि सकलशास्त्रचूडामाणिभूतानि तत्त्वार्थसूत्राणीति॥ यद्येवंअकलङ्कधर्मकीर्त्यादिवत् प्रकरणमेव किं नारभ्यते किमनया सूत्रकारत्वाहोपुरुषिकया। मैवं वोचः। भिन्नरुचियं जनस्ततो नास्य स्वेच्छाप्रतिबन्धे लौकिकं राजकीयं वा शासनमस्तीति यत्किश्चिदेतत् । तत्र वर्णसमूहात्मकैः पदैः पदसमूहात्मकैः सूत्रैः सूत्रसमूहात्मकैः प्रकरणैः प्रकरणसमूहात्मकैरोह्निकैराह्निकसमूहा गौतमसूत्र १-१-१) अक्षपादेन गौतमेन न्यायशास्त्रं प्रणीतं न्यायशास्त्रं च - पंचाध्यायात्मकम् । तत्र प्रत्यध्यायमाह्निकद्वयम् । तत्र १ प्रथमाध्यायस्य प्रथमाह्निके प्रमाणादिपदार्थनवकलक्षणनिरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनिरूपणं कृतम् । २ द्वितीयाध्यायस्य प्रथमाह्निके संशयपरीक्षणं प्रमाणचतुष्टया (१ प्रत्यक्षं, २ अनुमानं, ३ शाब्द, ४ उपमानम् ) प्रामाण्यशङ्कानिराकारणं च । द्वितीयेऽ पित्त्यादेरन्तर्भावनिरूपणम् । ३ तृतीयस्य प्रथम आत्मशरोरेन्द्रियार्थपरीक्षणम् । द्वितीये बुद्धिमनःपरीक्षणम् । ४ चतुर्थस्य प्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरीक्षणम् । द्वितीये दोषनिमित्तकत्वनिरूपणमवयव्यादिनिरूपणं च । ५ पञ्चमस्य प्रथमे जातिभेदनिरूपणम् । द्वितीये निग्रहस्थानभेदनिरूपणम् । अत्र मते पदार्थाः षोडश । १ तत्त्वार्थसूत्राणि भगवतोमास्वातिवाचकमुख्येन प्रणीतानि दशभिरध्यायैः। तत्र प्रथमेऽध्यायचतुष्टये जीवतत्त्वस्य वर्णनम् । पञ्चमे अजीव ( पुद्गल )स्य । षष्ठसप्तमयोरास्रवस्य । अष्टमे बन्धस्य । नवमे संवरनिर्जरयोः । दशमे मोक्षतत्त्वस्य । संपूर्णसूत्रसंख्या ३४४ परिमिता। अयं सूत्रग्रन्थो दिगम्बरैः श्वेताम्बरैश्च पूज्यत्वेनाभिमन्यते । यत उभयमतवादिभिस्तैस्तैराचार्यैरस्य भाष्याणि व्याख्याश्च निर्मिताः । दिगम्बरेषु प्रायोऽस्य नाम्न उमास्वामित्वेन व्यवहारः। २ सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः । अनेकार्थसंग्रहे का. २ श्लो. ४५८ ३ एकस्मिन्नह्नि भवमाह्निकम् । Page #31 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-१, त्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदाचार्यः । तस्य च प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयमभिधातुमिदमादिसूत्रम् ॥ ॥अथ प्रमाणमीमांसा ॥१-१-१॥ २ल अथेत्यस्याधिकारार्थत्वाच्छास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाणस्याभिधानात्सकलशास्त्रतात्पर्यव्याख्यानेन प्रेक्षावन्तो बाधिताःप्रवर्तिताश्च भवन्ति । आनन्तार्थो वाऽथशब्दः शब्दकाव्यछन्दोनु-: शासनेभ्योऽनन्तरं प्रमाणं मीमांस्यत इत्यर्थः । अनेन शब्दानुशासनादिभिरस्यैककर्तृकत्वमाह । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति, मङ्गले च सति परिपन्थिविघ्नविघाताम्रक्षेपेण शास्त्रसिद्धिरायुष्म च्छ्रोतृकता च भवति । परमेष्ठिनमस्कारादिकं तु मङ्गलं कृतमपि न निवेशितं लाघवार्थिना शास्त्रकारणोत । १ ' शास्त्रं ग्रन्थनिदेशयोः' इति अनेकार्थसंग्रहे २ कां. श्लो. ४५१. २ प्रेक्षावन्तो विचारिणः। ३ हेमचन्द्राचार्यैरष्टाध्यायात्मकं संस्कृतप्राकृतभाषाव्याकरणं सूत्रर्निबद्धम् । तत्र सप्ताध्यायाः संस्कृतव्याकरण उपयुक्ताः । अष्टमोऽध्यायः प्राकृतव्याकरणे । तथा च काव्यानुशासनमष्टाध्यायात्मकमेव साहित्यशास्त्रसर्वविषयनिदर्शकं निबद्धम् । एवमेव छन्दःशास्त्रेऽपि ग्रन्थोऽष्टाध्यायात्मकः । तत्र प्रथमः संज्ञाध्यायः । द्वितीयः समवृत्तव्यावर्णनाध्यायः । तृतीयोऽर्धसमविषमवैतालीयमात्रासमकादिव्यावर्णनाध्यायः । चतुर्थ आर्यागलितकखञ्जकशीर्षकव्यावर्णनाध्यायः । पञ्चम उत्साहादिप्रतिपादनाध्यायः । षष्ठः खदिचतुष्पदीशासनाध्यायः । सप्तमो द्विपदीव्यावर्णनाध्यायः । अष्टमः प्रस्तारादिव्यावर्णनाध्यायः । अत्रानुशासनत्रये स्वोपज्ञवृत्तिरप्यस्ति । ४ अक्षेपेण-कालविलम्बाभावेन । - ५ तथाचोक्तं पातञ्जलमहाभाष्ये १।१।१ इत्यत्र ' मङ्गलादीनि हि शास्त्राणि प्रथन्ते। वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषकाणि च । अध्येतारश्च वृद्धियुक्ता यथा स्युरिति । ६ परमे पदे तिष्ठतीति परमेष्ठिः, अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुषु पंचसु प्रसिद्धः । Page #32 -------------------------------------------------------------------------- ________________ सूत्र १-१-१ ሂ [ प्रमाण प्रकर्षेण संशयादि व्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्प्रमाणं प्रमायां साधकतमम् । तस्य मीमांसा उद्देशादिरूपेण प्रर्या लोचनम् । त्रयी हि शास्त्रस्य प्रवृत्तिः १ उद्देशः २ लक्षणम् ३ परीक्षा च । तत्र नामधेयमात्रकीर्त्तनमुद्देशः । यथेदमेव सूत्रम् । उद्दिष्टस्यासाधारणधर्म्मवचनं लक्षणम् । तद्द्द्वेधा १ सामान्यलक्षणम् २ विशेषलक्षणं च । सामान्यलक्षणमनन्तरमेव सूत्रम् ( १ १/२ ) विशेषलक्षणं विशदः प्रत्यक्षम् ( १|१|१३ ) इति । विभागस्तु विशेषलक्षणस्यैवाङ्गमिति न पृथगुच्यते । लक्षितस्येदमित्थं भवति नेत्थमिति न्यायतः परीक्षणं परीक्षा, यथा तृतीयसूत्रम् (१।१।३ ) | पूजितविचारवचनश्च मीमांसाशब्दः । तेन न प्रमाणमात्रस्यैव विचारोऽत्राधिकृतः । किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण पूरिशोधितमार्गाणां नयानामपि । " प्रमाणनयैरधिगमः” दिवाई वाचकमुख्यः, सकलपुरुषार्थेषु मूर्द्धाभिर्षितस्य सोपायस्य सप्रतिपक्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्रविचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाकलहमात्रं स्यात् । तद्विवक्षायां तु अथ प्रमाणपररीक्षेत्येव क्रियेत । तत् स्थितमेतत् प्रमाणनयपरिशोधितप्रमेयमार्ग सोपायं सप्रतिपक्षमोक्षं विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥ १ ॥ तत्र प्रमाणसामान्यलक्षणमाह १ युक्तितः । २ तत्त्वार्थाधिगमसूत्रे – अध्याय १ सूत्र ६ । भाष्यंच - एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिर्न्यस्तानां प्रमाणनयैर्विस्ताराधिगमो भवति । तत्र प्रमाणं द्विविधम् । परोक्षं प्रत्यक्षं च चतुर्विधमित्येके नयवादान्तरेण । नयाश्च नैगमादयः । ( नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः । तत्त्वार्थाधिगमसूत्र १ - ३४ ) ३ श्रेष्ठस्य । Page #33 -------------------------------------------------------------------------- ________________ मीमांसा ] ५ सूत्र १-१-२ ॥ सम्यगर्थनिर्णयः प्रमाणम् ॥ १-१-२॥ प्रमाणमिति लक्ष्यनिर्देशः। शेष लक्षणम् । प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थः । तत्र यत्तदविवादेन प्रमाणमिति धम्मि प्रसिद्धं तस्य सम्यगनिर्णयात्मकत्वं धर्मो विधीयते । अत्र प्रमाणत्वादिति हेतुः । नच धम्मिणो हेतुत्वमनुपपन्नम्, भवति हि विशेषे धम्मिणि तत् सामान्यं हेतुर्यथाऽयं धूमः सानिर्द्धमत्वात पूर्वोपलब्ध- ६ धूमवत् । न च दृष्टान्तमन्तरेण नगमकत्वम् । अन्तर्व्याप्त्यैव साध्यसिद्धेः। सात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्यादिवदिति दर्शयिष्यते। तत्र निर्णयः संशयाऽनध्यवसायाविकल्पत्वरहितंज्ञानम् । ततो निर्णयपदेनाज्ञानरूपस्येन्द्रियसन्निकर्षादेर्ज्ञानरूपस्यापि संशयादेः प्रमाणत्वनिषेधः । अर्यतेऽर्थ्यते वाऽर्थो हेयोपादेयोपेक्षणीयलक्षणः । हेयस्य हातुम् उपादेयस्योपादातुम् उपेक्षणीयस्योपेक्षितुमर्थ्यमानत्वात् । न चानुपादेयत्वादुपेक्षणीयो हेय एवान्तर्भवति । अहेयत्वादुपादेय एवान्तर्भावप्रसक्तेः । उपेक्षणीय एव च मूर्दाभिषिक्तोऽर्थो योगिभिस्तस्यैवार्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेवोपेक्षणीयोऽर्थः । तन्नायमुपेक्षितुं क्षमः । अर्थस्य निर्णय इति कर्मणि षष्ठी । निर्णीयमानत्वेन व्याप्यत्वादर्थस्य । अर्थग्रहणं च स्वनिर्णयव्यवच्छेदार्थ तस्य सतोऽप्यलक्षणत्वादिति वक्ष्यामः । सम्यगित्यविपरीतार्थमव्ययं समञ्चतेर्वा रूपं तच्च निर्णयस्य विशेषणं तस्यैव सम्यक्त्वाऽसमक्त्वयोगेन विशेष्टमुचितत्वात् । अर्थस्तु स्वतो न सम्यग्नाप्यसम्यगिति सम्भवव्यभिचारयोरभावान विशेषर्णायः । १ लक्षणसूत्रम् १-२-६। २ लक्षणसूत्रम् १-२-१३ । ३. स्वः निर्णयः। : ४ विशेषणं दातुम् । ५ सम्भवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत् । न शैत्येन न चौष्ण्येन वति । पि विशिष्यते। १। Page #34 -------------------------------------------------------------------------- ________________ सूत्र १-१-२ [प्रमाण तेन सम्यग् योऽर्थनिर्णय इति विशेषणाद्विपर्ययनिरासः । ततोऽतिव्याप्त्यव्याप्त्यसम्भवदोषविकलमिदं प्रमाणसामान्यलक्षणम् ॥२॥ नन्वर्थनिर्णयवत्स्वनिर्णयोऽपि वृद्धैः प्रमाणलक्षणत्वेनोक्तःप्रमाणं स्वपरावभासीति । स्वार्थव्यवसायात्मकं प्रमाणमिति च। न चासावसन् । घटमहं जानामीत्यादौ कर्तृकर्मवज जप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिद्धयति । न च ज्ञानान्तरात् तदुपलम्भसम्भावनम् । तस्यानुपलब्धस्य प्रस्तुतोपलम्भ प्रत्यक्षीकाराभावात् । उपलम्भान्तरसम्भावने चानवस्था । अर्थो। पलम्भात्तस्योपलम्भेऽन्योन्याश्रयदोषः । एतेनार्थस्य सम्भवो नोपपद्यते न चैतज् ज्ञानं स्यात् इत्यर्थापत्त्यापि तदुपलम्भः प्रत्युक्तः। तस्या अपि ज्ञापकत्वेऽनाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषापत्तेस्तदवस्थः परिभवः । तस्मादर्थोन्मुखतयेव स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वनिर्णयात्मकत्वमप्यस्ति । नन्वनुभूतरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गः । मैवं वोचः । ज्ञातुर्ज्ञातृत्वेनेवाऽनुभूतेरनुभूतित्वेनैवानुभवात् । न चानुभूतेरनुभाव्यत्वं दोषः । अर्थापेक्षयानुभूतित्वात्, स्वापेक्षयाऽनु१ अर्थस्य निर्णयोऽर्थनिर्णयः सम्यक् चासौ अर्थनिर्णयश्च । २ अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यभिन्नमलक्ष्यं तत्र लक्षणसत्त्वम् । शृङ्गित्वं लक्ष्यभिन्नमहिण्यादिषु वर्तते । अतस्तदतिव्याप्तम् । ३ लक्ष्यैकदेशावृत्तित्वमव्यातिः । यथा गोः कपिलत्वम् । लक्ष्यस्यैकदेशे लक्षणस्यासत्त्वम् । प्रकृते लक्ष्या गावः । तदेकदेशः शुक्ला गावः । तत्र कपिलत्वस्यासत्त्वादव्याप्तिः । ४ लक्ष्यमात्रावर्तनमसम्भवः । यथा गोरेकशफवत्त्वम् । कस्मिन्नपि लक्ष्ये लक्षणासत्त्वम् । एकशफवत्त्वं न कस्यामपि गवि वर्तते । अतस्तदसम्भवदोषदूषितम् ।) प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्रयात् ।। श्रीसिद्धसेनदिवाकरप्रणीत न्यायावतार श्लोकः १ । Page #35 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-३ भाव्यत्वात् । स्वपितृपुत्रापेक्षयैकस्य पितृत्वपुत्रत्ववद्विरोधाभावात् । न च स्वात्मनि क्रियाविरोधः । अनुभवसिद्धेऽर्थे विरोधासिद्धेः। अनुमानाच्च स्वसंवेदनसिद्धिः। तथाहि ज्ञानं प्रकाशमानमेवार्थ प्रकाशयाति प्रकाशकत्वात् प्रदीपवत् संवेदनस्य प्रकाशकत्वात् । प्रकाशकत्वमसिद्धमिति चेत् । न । अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः । न च नेत्रादिभिरनैकान्तिकता। तेषां भावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैव न व्यभिचारः । तथा संवित् स्वप्रकाशा अर्थप्रतीतित्वात्। यः स्वप्रकाशो न भवति नासावर्थप्रतीतिर्यथा घटः। तथा यज्ज्ञानं तदात्मबोधं प्रत्यनपक्षितपरव्यापारं यथा गोचैरान्तरग्राहिज्ञानप्राग्भाविगोचरान्तरग्राहिज्ञानप्रबन्धस्यान्त्यज्ञानम् । ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति, संवित् स्वप्रकाशे स्वावान्तरजातीयं नापेक्षते वस्तुत्वात् घटवत् । संवित् परप्रकाश्या वस्तुत्वाद्धटवदिति चेत् न । अस्याप्रयोजकत्वात् । न खलु घटस्य वस्तुत्वात् परप्रकाश्यता अपि तु बुद्धिव्यतिरिक्तत्वात् । तस्मात् स्वनिर्णयोऽपि प्रमाणलक्षणमास्त्वित्याशङ्कायामाह १ लक्षणं २-१-२१ २ "लब्ध्युपयोगौ भावेन्द्रियम्"। तत्त्वार्थसूत्र २-१८ भाष्यम्-लब्धिरुपयोगश्च भावेन्द्रिय भवति । लब्धिर्नाम गतिजात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता चेन्द्रियाअयकर्मोदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा स्पर्शनेन्द्रियलब्धिरसनेन्द्रियलब्धिोणेन्द्रियलब्धिक्षुरिन्द्रियलब्धिश्रोत्रेन्द्रियलब्धिरिति स्पर्शादिषु ‘स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि' ( तत्वार्थ २-२०) मतिज्ञानोपयोग इत्यर्थः । उक्तमेतत् 'उपयागो लक्षणम्' (त.२-८) उपयोगः प्रणिधानमायोगस्तद्भावः परिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगी भवतः। सत्यां च लब्धौ निर्वृत्युपकरणोपयोगा भवन्ति । निर्वृत्यादीनामेकतराभावे विषयालोचनं न भवति । जिज्ञासुभिः सर्वार्थसिद्धितत्त्वार्थश्लोकवार्तिकतत्त्वार्थराजवार्तिकादयो द्रष्टव्याः । विस्तरभयान्न संगृह्यन्ते। .. ३ गोचरः विषयः। Page #36 -------------------------------------------------------------------------- ________________ सूत्र १-१-३ [प्रमाण ॥स्वनिर्णयः सन्नप्यलक्षणमप्रमाणेऽपि भावात्॥१-१-३॥ .. सन्नपीति परोक्तमनुमोदते । अयमों नास्तीत्येव सर्व लक्षणं वाच्यं किन्तु यो धर्मी विपक्षाव्यावर्त्तते । स्वनिर्णयस्त्वप्रमाणेऽपि संशयादौ वर्तते । नहि काचित् ज्ञानमात्रा सास्ति या न स्वसंविदिता नाम ततो न स्वनिर्णयो लक्षणमुक्तोऽस्माभिः । द्वैस्तु परीक्षार्थमुपक्षिप्त इत्यदोषः॥३॥ ननु च परिच्छिन्नमर्थ परिच्छिन्दता प्रमाणेन पिष्टं पिष्टं स्यात् । तथा च गृहतिग्राहिणां धारावाहिकज्ञानानामाप प्रामाण्यप्रसङ्गः। ततोऽपूर्वार्थनिर्णय इत्यस्तु लक्षणम्। यथाहुः “ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्” इति । तथा-'अपूर्वार्थविज्ञानम् ' इति च । तंत्राह ॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥ १-१-४॥ अयमर्थ ः। द्रव्यापेक्षया वा गृहीतग्राहित्वं विप्रतिषिध्येत पर्यायापेक्षया वा । तत्र पर्यायापेक्षया धारावाहिकज्ञानानामपि गृहीतग्राहित्वं न सम्भवति । क्षणिकत्वात् पर्यायाणाम् । तत्कथं तन्निवृत्त्यर्थ विशेषणमुपादीयते । अथ द्रव्यापेक्षया । तदप्ययुक्तम् । द्रव्यस्य नित्यत्वादेकत्वेन गृहीतग्रहीष्यमाणावस्थयोन भेदः । ततश्च कं विशेषमाश्रित्य ग्रहीष्यमाणग्राहिणः प्रामाण्यं न गृहीतग्राहिणः । अपि च अवग्रहेहाँदीनां गृहीतग्राहित्वेऽपि प्रामाण्यमिष्यत एव । न चैषां भिन्न १ पिष्टस्य पेषणं नास्ति मृतस्य मरणं नहि ॥ इति न्यायात् २ एकस्मिन्नेव घटे " घटोऽयं घटोऽयम्" इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानामि ... धारावाहिकज्ञानानि । ३ दिगम्बराचार्यमाणिक्यनन्दिकृते परीक्षामुखे प्रथमोद्देशे प्रथमसूत्रम् । ४ आदिशब्दादीहावायधारणाग्रहणम् । एतेषां लक्षणं क्रमेण १-१-२७, १-१-२८, १-१-२९, १-१-३० सूत्रे द्रष्टव्यम् । Page #37 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-७ विषयत्वम् । एवं ह्यवगृहीतस्याऽनीहनादीहितस्यानिश्चयादसमञ्जसमापद्येत । न च पर्यायापेक्षयानधिगतविशेषावसायादपूर्वार्थत्वं वाच्यम् । एवं हि न कस्यचिद् गृहीतग्राहित्वमित्युक्तप्रायम् । स्मृतेश्व प्रमाणत्वेनाभ्युपगताया गृहीतग्राहित्वमेव सतत्त्वम् । यैरपि स्मृतेरप्रामाण्यामिष्टं तैरप्यर्थादनुत्पाद एव हेतुत्वेनोक्तो न गृहीतग्राहित्वम् । यदाह "न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् । अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम्” इति ॥४॥ .. अथ प्रमाणलक्षणप्रतिक्षिप्तानां संशयानध्यवसायविपर्ययाणां लक्षणमाह॥अनुभयत्रोभयकोटिसंस्पर्शी प्रत्ययः संशयः॥१-१-५॥ अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेत इवात्मा यस्मिन् सति स संशयः । यथान्धकारे दूरादुर्दाकारवस्तूपलम्भात् साधकबाधकप्रमाणाभावे सति स्थाणुर्वा पुरुषो वोत प्रत्ययः । अनुभयत्रग्रहणमुभयरूपे वस्तुन्युभयकोटिसंस्पर्शेऽपि संशयत्वनिराकरणार्थम् । यथास्ति च नास्ति च घटः, नित्यश्चानित्यश्चात्मेत्यादि ॥५॥ ॥विशेषानुल्लेख्यनध्यवसायः ॥ १-१-६॥ . दूरान्धकारादिवशादसाधारणधर्मावमर्शरहितः प्रत्ययोऽनिश्चयात्मकत्वादनध्यवसायः। यथा किमेतदिति । यद्यप्यविकल्पकं प्रथमलक्षणभावि परेषां प्रत्यक्षप्रमाणत्वेनाभिमतं तदप्यनध्यवसाय एव । विशेषोल्लेखस्य तत्राप्यभावादिति ॥ ६॥ अतस्मिंस्तदेवेति विपर्ययः॥ १-१-७॥ यज्ज्ञाने प्रतिभासिते तद्रूपरहिते वस्तुनि तदेवेति प्रत्ययो विपर्यासरूपत्वाद्विपर्ययः । यथा धातुवैषम्यान्मधुरादिद्रव्येषु तिक्तादि१ वातपित्तकफात्मका धातवः । Page #38 -------------------------------------------------------------------------- ________________ सूत्र १-१-७ [प्रमाण प्रत्ययः। तिमिरादिदोषादेकस्मिन्नपि चन्द्रे द्विचन्द्रादिप्रत्ययः ।। नौयानादगच्छत्स्वापि वृक्षेषु गच्छत्प्रत्ययः । आशुभ्रमणादलाता- . दावचक्रेऽपि चक्रप्रत्ययः। इत्यवासितं प्रमाणलक्षणम् ॥ ७॥ नन्वस्तूक्तलक्षणं प्रमाणम् । तत्मामाण्यं तु स्वतः परतो वा निश्चीयेत । न तावत् स्वतः । तद्धि संविदितत्वात् ज्ञानमित्येव गृह्णीयान पुनः सम्यक्त्वलक्षणं प्रामाण्यम् । ज्ञानत्वमात्रं तु प्रमाणाभाससाधारणम् । अपि च स्वतःप्रामाण्ये सर्वेषामविप्रतिपत्तिप्रसङ्गः। नापि परतः । परं हि १ तद्गोचरगोचरं वा ज्ञानम् २ अभ्युपेतार्थक्रियानिर्भासं वा ३ तद्गोचरनान्तरीयकार्थदर्शनं वा। तच्च सर्व स्वतोऽनवधृतप्रामाण्यमव्यवस्थितं सत् कथं पूर्वप्रवर्तकज्ञानं व्यवस्थापयेत् । स्वतो वाऽस्य प्रामाण्ये कोऽपराधः प्रवर्तकज्ञानस्य । येन तस्यापि तन्न स्यात् । न च प्रामाण्यं ज्ञायते स्वत इत्युक्तमेव परतस्त्वनवस्थेत्याशझ्याह॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥ १-१-८॥ प्रामाण्यनिश्चयः कचित् स्वतो यथाऽभ्यासदशापन्ने स्वकरतलादिज्ञाने, स्नानपानावगाहनोदन्योपशमादावर्थक्रियानि से वा प्रत्यक्षज्ञाने । नहि तत्र परीक्षाकाङ्क्षास्ति प्रेक्षावताम् । तथाहि जलज्ञानं ततो दाहपिपासातस्य तत्र प्रवृत्तिस्ततस्तत्माप्तिस्ततः स्नानपानादीनि ततो दाहोदन्योपशम इत्येतावतैव भवति कृती प्रमाता न पुनर्दाहोदन्योपशमज्ञानमपि परीक्षते इत्यस्य स्वतःप्रामाण्यम् । अनुमाने तु सर्वस्मिन्नपि सर्वथा निरस्तसमस्तव्यभिचाराशङ्के स्वत एव प्रामाण्यम् । अव्यभिचारिलिङ्गसमुत्थत्वात् । न लिङ्गाकारं ज्ञानं लिङ्ग विना, न च लिङ्गं लिङ्गिनं विनेति । कचित् परतः प्रामाण्यनिश्चयो यथा १ अविप्रतिपत्तिः-अविरोधः। Page #39 -------------------------------------------------------------------------- ________________ मीमांसा] सूत्र १-१-८ नभ्यासदशापन्ने प्रत्यक्षे । नहि तदर्थेन गृहीताव्यभिचारामिति तदेकदेशविषयात् संवादकात्, ज्ञानान्तराद्वा, अर्थक्रियानिर्भासाद्वा, नान्तरीयार्थदर्शनाद्वा तस्य प्रामाण्यं निश्चीयते । तेषां च स्वतःप्रामाण्यनिश्चयान्नानवस्थादिदौस्थ्यावकाशः । शाब्दे तु प्रमाणे दृष्टार्थेऽर्थाव्यभिचारस्य दुर्ज्ञानत्वात् संवादाद्यधीनः परतः प्रामाण्यनिश्चयः । अदृष्टार्थे तु दृष्टार्थग्रहोपरागनष्टमुष्ट्यादिप्रतिपादकानां संवादेन/ प्रामाण्यं निश्चित्य संवादमन्तरेणाप्याप्तोक्तत्वेनैव प्रामाण्यनिश्चय इति सर्वमुपपन्नम् । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकाः । तत्रार्थोपलब्धौ हेतुत्वं यादि निमित्तत्वमानं तदा तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः । अथ कर्तृकर्मादिविलक्षणं करणं हेतुशब्देन विवक्षितं तर्हि तज्ज्ञानमेव युक्तं नेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति स तत्करणम् । न चेन्द्रियसन्निकर्षसामग्र्यादौ सत्यपि ज्ञानाभावे स भवति । साधकतमं हि करणमव्यवहितफलं च तदिष्यते । व्यवहितफलस्यापि करणत्वे दधिभोजनादेरापि तथाप्रसङ्गः। तन्न ज्ञानादन्यत्र प्रमाणत्वम् । अन्यत्रोपंचारात् । सम्यगनुभवसाधनं प्रमाणमित्यत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्य प्रमाणत्वं सिध्यति तथाप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवेति तदेव प्रमाणत्वेनेष्टव्यम् । प्रमाणमविसंवादिज्ञानमिति सौगताः। तत्रापि यद्यविकल्पकं ज्ञानं तदा न तद् व्यवहारजननसमर्थम् ।। सांव्यवहारिकस्य चैतसमाणस्य लक्षणमिति च भवन्तः । तत्कथं तस्य प्रामाण्यम् । उत्तर१ 'उपलब्धिहेतुश्च प्रमाणम्' । इति गौतमसूत्रवात्स्यायनभाष्ये । पृ. ९४ पं. ४ । २ भासर्वज्ञप्रणीत न्यायसार प्रत्यक्ष परिच्छेदे सूत्र १ पृ. १ पं. ८ । ३ " अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ” न्यायबिन्दु पृ, ५ पं. ९ । Page #40 -------------------------------------------------------------------------- ________________ सूत्र १-१-८ [ प्रमाण कालभाविनो व्यवहारजननसमर्थाद्विकल्पात् तस्य प्रामाण्ये याचितकमण्डनन्यायः । वरं च व्यवहार हेतोर्विकल्पस्यैव प्रामाण्यमभ्युपगन्तुम् । एवं हि परम्परा परिश्रमः परिहृतो भवति । विकल्पस्य चाप्रामाण्ये कथं तन्निमित्तो. व्यवहारोऽविसंवादी दृष्टविकल्पयोरर्थयोरेकीकरणेन तैमिरिकज्ञानवत् संवादाभ्युपगमे चोपचरितं संवादित्वं स्यात् । तस्मादनुपचरितमविसंवादित्वं प्रामाण्यस्य लक्षणमिच्छता निर्णयः प्रमाणमेष्टव्य इति ॥ ८ ॥ १२ प्रमाणसामान्यलक्षणमुक्त्वा परीक्ष्य च विशेषलक्षणं वक्तुकामो विभागमन्तरेण तद्वचनस्याशक्यत्वाद्विभागप्रतिपादनार्थमाह ॥ प्रमाणं द्विधा ॥ १-१-९॥ सामान्यलक्षणसूत्रे प्रमाणग्रहणं परीक्षयान्तरितमितिन नंदा परासृष्टम् । किन्तु साक्षादेवोक्तं प्रमाणमिति । द्विधा द्विप्रकारमेव विभागस्यावधारणफलत्वात् । तेन प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः । प्रत्यक्षानुमानागमाः प्रमाणमिति वैशेषिकाः। तान्येवेति साङ्ख्याः। सहोपमानेन चत्वारीति नैयायिकाः । सहार्थापत्त्या पश्चेतिः प्राभाकराः । सहाभावेन षडिति भाट्टाः । इति न्यूनाधिकप्रमाणवादिनः प्रतिक्षिप्ताः । तत्प्रतिक्षेपश्च वक्ष्यते ।। ९ ।। तर्हि प्रमाणद्वैविध्यं किं तथा यथाहुः सौगताः प्रत्यक्षमनुमानं चेत्युतान्यथेत्याह १ अस्य न्यायस्य स्वरूपम् । केनचिदकिञ्चनेन याचित्वा परमण्डनानि परगृहे विवाहादिसम्पादनार्थं गम्यते परं न तत् तस्य शोभायै पर्याप्तम् । २ तच्छब्देन । ३ मीमांसकेषु मतत्रयम् १ प्राभाकारं २ भा ३ मुरारिमतञ्च । ४ अभावः - अनुपलब्धिः । ५ १-१-१०, १-१-११, १ - १ - १२ सूत्रेषु । Page #41 -------------------------------------------------------------------------- ________________ १३ मीमांसा ] सूत्र १-१-११ ॥प्रत्यक्षं च परोक्षं च ॥ १-१-१०॥ अश्नुते अक्ष्णाति वा व्यामोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीवः । अश्नुते विषयमित्यक्षमिन्द्रियं च । प्रतिः प्रतिगतार्थः । अक्षं प्रतिगतं तदाश्रितम् । अक्षाणि चेन्द्रियाणि तानि प्रतिगतमिन्द्रियाण्याश्रित्योजिहीते यज्ज्ञानं तत्प्रत्यक्षं वक्ष्यमाणलक्षणम् । अक्षेभ्यः परतो वर्तत इति परेणन्द्रियादिना चोक्ष्यत इति परोक्षं वक्ष्यमाणलक्षणमेव । चकारः स्वविषये द्वयोस्तुल्यबलत्वख्यापनार्थः । तेन यदाहुः सकलप्रमाणज्येष्ठं प्रत्यक्षमिति तदपास्तम् । प्रत्यक्षमितिपूर्वकत्वादितरप्रमाणानां तस्य ज्येष्ठतेति चेत् । न । प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वोपलब्धेः। लिङ्गादाप्तोपदेशाद्वा वन्ह्यादिकमवगम्य प्रवृत्तस्य तद्विषयप्रत्यक्षोत्पत्तेः॥१०॥ न प्रत्यक्षादन्यत्प्रमाणमिति लौकायतिकाः । तत्राह॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षेतरप्रमाणसिद्धिः . प्रमाणाप्रमाणविभागस्य परबुद्धेरतीन्द्रियार्थनिषेधस्य च सिद्धिर्नानुमानादिप्रमाणं विना । चार्वाको हि काश्चिज्ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्यान्याश्च विसंवादित्वेन व्यभिचारिणीः पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणेतरते व्यवस्थापयेत् । न च सन्निहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्यापामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न चायं स्वप्रतीतिगोचराणामाप ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्था१ अशौटि व्याप्तौ ( है. धा. पा. ५-२९)। २ अक्षौ व्याप्तौ च ( है. धा. पा. १-५७०)। ३ लोकायतिकाः-चार्वाकाः। --- Page #42 -------------------------------------------------------------------------- ________________ सूत्र १-१-११ १४ .. [ प्रमाण पयितुं प्रभवति । तस्माद्यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं परप्रतिपादकं परोक्षान्तर्गतमनुमानरूपं प्रामाणान्तरमुपासीत । अपि च अप्रतिपित्सितमर्थ प्रतिपादयन्नायं लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यात्। न च प्रत्यक्षेण परचेतोवृत्तीनामधिगमोस्ति । चेष्टाविशेषदर्शनात्तदवगमे च परोक्षस्य प्रामाण्यमनिच्छतोऽप्यायातम् । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम् । सन्निहितमात्रविषयत्वात्तस्य । परलोकादिकं चाप्रतिषिध्य नायं सुखेनास्ते प्रमाणान्तरं च नेच्छतीति डिम्भहेवाकः । किञ्च प्रत्यक्षस्याप्याव्यभिचारादेव प्रामाण्यं तच्चार्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मजतः परोक्षस्याप्याव्यभिचारादेव किं नेष्यते । व्यभिचारिणोप परोक्षस्य दर्शनादप्रामाण्यमिति चेत् । प्रत्यक्षस्यापि तिमिरादिदोषादप्रामाण्यस्य दर्शनात् सर्वत्राप्रामाण्यप्रसङ्गः । प्रत्यक्षाभासं तदिति चेत् । इत्यत्रापि तुल्यमेतदन्यत्र पक्षपातात् । धर्मकीर्तिरप्येतदाह"प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः। प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचित् ॥१॥ अर्थस्यासम्भवे भावात् प्रत्यक्षेऽपि प्रमाणता। प्रतिबद्धस्वभावस्य तद्धेतुत्वे समंद्वयम्" ॥२॥ इति यथोक्तसङ्ख्यायोगेऽपि च परोक्षार्थविषयमनुमानमेव सौगतैरुपगम्यते तदयुक्तम् । शब्दादीनामपि प्रमाणत्वात् । तेषां चानुमानेऽन्तर्भावयितुमशक्यत्वात् । एकेन तु सर्वसङ्ग्राहिणा प्रमाणेन प्रमाणान्तरसङ्ग्रहे नायं दोषः । तत्र यथेन्द्रियजमानसात्मसंवेदनयोगिज्ञानानां प्रत्यक्षेण सङ्ग्रहस्तथा स्मृतिप्रत्यभिज्ञानोहानुमानागमानां परोक्षण सङ्ग्रहो लक्षणस्याविशेषात् । स्मृत्यादीनां च विशेषलक्षणानि स्वस्थान एव वक्ष्यन्ते । एवं परोक्षस्योपमानस्य प्रत्यभिज्ञाने अर्थापत्तेरनुमानेऽन्तर्भावोऽभिधास्यते ॥ ११ ॥ १ बालानामाग्रहः । २, १-२-३ सूत्रे। ३, १-२-४ सूत्रे। ४, १-२-७ सूत्रे । Page #43 -------------------------------------------------------------------------- ________________ मीमांसा ] १५ सूत्र १-१-१२ यत्तु प्रमाणमेव न भवति न तेनान्तर्भूतेन बहिर्भूतेन वा किंचित् प्रयोजनम् । यथाऽभावः । कथमस्याप्रामाण्यम् । निर्विषयत्वाद् इति ब्रूमः । तदेव कथमिति चेत् ॥ ॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः॥ १-१-१२॥ नहि भावैकरूपं वस्त्विति । विश्वस्य वैश्वरूप्यप्रसङ्गात् । नाप्यभावैकरूपम् । नीरूपत्वप्रसङ्गात् । किन्तु स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् भावाभावरूपं वस्तु । तथैव प्रमाणानां प्रवृत्तेः । तथाहि प्रत्यक्षं तावद्भूतलमेवेदं घटादि न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तु परिच्छिन्दत् तदधिक विषयभावैकरूपं निराचष्ट इति के विषयमाश्रित्याभावलक्षणं प्रमाणं स्यात् । एवं परोक्षाण्याप प्रमाणानि भावाभावरूपवस्तुग्रहणप्रवणान्येव । अन्यथाऽसङ्कीर्णस्वस्वविषयग्रहणासिद्धेः । यदाह " अयमेवेति यो ह्येष भावे भवति निर्णयः। नैष वस्त्वन्तराभावसंवित्त्पनुगमाहते॥” इति । अथ भवतु भावाभावरूपता वस्तुनः । किं नश्च्छिन्नम् । वयमापहि तथैव प्रत्यपीपदाम । केवलं भावांश इन्द्रियसनिकृष्टत्वात् प्रत्यक्षप्रमाणगोचरः। इति अभावांशस्तु न तथेत्यभावप्रमाणगोचर इति कथमविषयत्वं स्यात् । तदुक्तं "नं तावदिन्द्रियेणैषा नास्ती त्युत्पाद्यते मतिः। भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा च १ श्लोक वा. सू. ५. अभावपरिच्छेदे श्लो.. १५. २ श्लोक वा. सू. ५. अभावपरिच्छेदे श्लो. १८. - ३ 'इन्द्रियरेषा' इति श्लोकवार्तिकेषु पाठः । - ४ 'उत्पद्यते' इति श्लोकवार्तिक पाठः । ५ श्लोक वा. सू. ५ अभावपरिच्छेदे श्लो. २७. Page #44 -------------------------------------------------------------------------- ________________ सूत्र १-१-१२ [प्रमाण प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ २ ॥” इति । ननु भावांशादभावांशस्याभेदे कथं प्रत्यक्षेणाग्रहणम् । भेदे वा घटाद्यभावरहितं भूतलं प्रत्यक्षेण गृह्यत इति घटादयो गृह्यन्त इति प्राप्तम् । तदभावग्रहणस्य तद्भावग्रहणनान्तरीयेकत्वात् । तथा चाभावग्रहणमपि पश्चात्प्रवृत्तं न तानुत्सारयितुं पटिष्ठं स्यात् । अन्यथा सङ्कीर्णस्य सङ्कीर्णताग्रहणात् प्रत्यक्षं भ्रान्तं स्यात् । अपि चायं प्रमाणपञ्चकनिवृत्तिरूपत्वात् तुच्छः । तत एवाज्ञानरूपः कथं प्रमाणं भवेत् । तस्मादभावांशात्कथंचिदभिन्नं भावांशं परिच्छिन्दता प्रत्यक्षादिना प्रमाणेनाभावांशी गृहीत एवेति तदतिरिक्तविषयाभावान्निर्विषयोऽभावः । तथा च न प्रमाणमिति स्थितम् ॥ १२ ॥ विभागमुक्त्वा विशेषलक्षणमाह ॥ विशदः प्रत्यक्षम् ॥ १-१-१३॥ सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सस्यगर्थ निर्णय इति प्रमाणसामान्यलक्षणमनूद्य विशद इति विशेषलक्षणं प्रसिद्धस्य प्रत्यक्षस्य विधीयते । तथा च प्रत्यक्षं धर्मिं । विशदसम्यगर्थनिर्णयात्मकमिति साध्यो धर्मः । प्रत्यक्षत्वादिति हेतुः । यद्विशद सम्यगर्थनिर्णयात्मकं न भवति न तत् प्रत्यक्षम् । यथा परोक्षामिति व्यति - रेकी । धर्मिणो हेतुत्वेऽनन्वयदोष इति चेत् । न । विशेषे धर्मिणि धर्मिसामान्यस्य हेतुत्वात् । तस्य च विशेषनिष्ठत्वेन विशेषेष्वन्वयसम्भवात् । सपक्षे वृत्तिमन्तरेणापि च विपक्षव्यावृत्तिबलाद्गमकत्वमित्युक्तमेव ॥ १३ ॥ अथ किमिदं वैशद्यं नाम । यदि स्वविषयग्रहणं तत्परोक्षेप्यक्षु १६ १ 'जायते ऽक्षानपेक्षणात्' इति श्लोकवार्तिकेषु पाठः । २ आवश्यकत्वात् । अभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणता । Page #45 -------------------------------------------------------------------------- ________________ मीमांसा ] १७ सूत्र १-१-१५ ण्णम् । अथ स्फुटत्वं, तदपि स्वसंविदितत्वात् सर्वविज्ञानानां सममित्याशङ्क्याह ॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम् ॥ १-१-१४॥ प्रस्तुतात् प्रमाणादन्यत् प्रमाणं शब्दलिङ्गादिज्ञानं तत् प्रमाणान्तरं तनिरपेक्षता वैशद्यम् । नहि शब्दानुमानादिवत् प्रत्यक्षं स्वोत्पत्तौ शब्दलिङ्गादिज्ञानं प्रमाणान्तरमपेक्षते । इत्येकं वैशद्यलक्षणम् । लक्षणान्तरमाप इदन्तया प्रतिभासो वेति इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम् । वाशब्दो लक्षणान्तरत्वसूचनार्थः ॥ १४ ॥ अथ मुख्यसांव्यवहारिकभेदन द्वैविध्यं प्रत्यक्षस्य हदि निधाय मुख्यस्य लक्षणमाह॥ तत्सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् ॥ १-१-१५॥ तदिति प्रत्यक्षस्य परामर्शार्थम् । अन्यथानन्तरमेव वैशद्यमभिसम्बध्येत दीर्घकालनिरन्तरसत्कारासवितरत्नत्रयप्रकर्षपर्यन्ते एकत्ववितर्काविचारध्यानबलेन निःशेषतया ज्ञानावरणीयादीनां घातिकमणां प्रक्षये सति चेतनास्वभावस्यात्मनः प्रकाशस्वभावस्यति यावत्। स्वरूपस्य प्रकाशस्वभावस्य सत एवावरणापगमेनाविर्भाव आविर्भूतं स्वरूपं मुखमिव शरीरस्य सर्वज्ञानानां प्रधान मुख्य प्रत्यक्षम् । तच्चेन्द्रियादिसाह यकविरहात् सकलविषयत्वादसाधारणत्वाच केवलमित्यागमे प्रसिद्धम् । प्रकाशस्वभावता कथमात्मनः सिद्धति चेत् । १ ज्ञानदर्शनचारित्राणि-इति रत्नत्रयम् । २ आदिशब्दात् दर्शनावरणमोहनीयान्तरायाख्वकर्मणो ग्रहणम् । लक्षणं अस्मिन् ग्रंथे पृ. १८ पं, २२ । ३ प्र. न. लो, प, २ सू. २३ Page #46 -------------------------------------------------------------------------- ________________ सूत्र १-१-१५ ---- १८ -- [प्रमाण एते ब्रूमः। आत्मा प्रकाशस्वभावोऽसन्दिग्धस्वभावत्वात् । यः प्रकाशस्वभावो न भवति नासावसन्दिग्धस्वभावो यथा घटः । न च तथात्मा । न खलु कश्चिदहमस्मि न वेति सन्दिग्धे । इति । नासिद्धो हेतुः । तथात्मा प्रकाशस्वभावो बोद्धृत्वात् । यः प्रकाशस्वभावो न भवति नासौ बोद्धा यथा घटः । न च न बोद्धात्मतेति । तथा यो यस्याः क्रियायाः कर्ता न स तद्विषयो यथा गतिक्रियायाः कत्तो चैत्रो न तद्विषयो ज्ञप्तिक्रियायाः कर्ता चात्मोत । अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् । आवरणे वा सततावरणप्रसङ्गः । नैवम् । प्रकाशस्वभावस्यापि चन्द्रार्कादेरिव रजोनीहाराभ्रपटलादिभिरिव ज्ञानावरणीयादिकर्माभिरावरणस्य सम्भवात् । चन्द्रार्कादेरिव च प्रबलपवमानप्रायैर्ध्यानभावनादिभिर्विलयस्य चेति । ननु सादित्वे स्यादावरणस्योपायतो विलयः । नैवम् । अनादेरापि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् तद्वदेवानादेरापि ज्ञानावरणीयादिकर्मणः प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः । न चामूर्त्तस्यात्मनः कथमावरणमिति वाच्यम् । अमूर्ताया आप चेतनाशक्तमदिरामदनकोद्रवादिभिरावरणदर्शनात् । अथावरणीयतत्पक्षाभ्यामात्मा विक्रियेत न वा । किं चातः । “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः” इति चेत् । न । अस्य दूषणस्य १ आदिशद्वात् पढमं १ नाणावरणं, बीयं पुण २ दंसणस्स आवरणं । तइयं च ३ वेयणीयं, तहा चउत्थं च ४ मोहणीयं ॥ ५॥५ आऊ ६ नामं ७ गोय, अटमियं ८ अंतराइयं होइ, । इति कर्मग्रन्थ १ गाथा ५-६ । व्याख्या-प्रथममाद्यं ज्ञानावरणं ज्ञानस्यावरणमाच्छादनं क्रियते येन कर्मणा तज्ज्ञानावरणम् । तस्य स्वभावोऽर्थानवगमः । एतत्कर्मादित्यप्रभाच्छादकमेघवज्ञातृत्वशक्तिमावृणोति । १ । दृश्यतेऽनेनेति दर्शनं तस्यावरणं दर्शनावरणं तस्य स्वभावोऽर्थानालोचनम् । एतत्कर्म प्रदीपप्रभातिरोधायककुम्भवद्दर्शनमावृणोति । २ । वेद्यते आह्वादादिरूपेणानुभूयते यत्तद्वेदनीयम् । यद्यपि Page #47 -------------------------------------------------------------------------- ________________ मांसा ] १९ सूत्र १-१-१६ कूटस्थानित्यतापक्ष एव सम्भवात् । परिणामिनित्यश्चात्मति तस्य पूर्वापरपर्यायोत्पादविनाशसहितानुवृत्तरूपत्वात् । एकान्तनित्यक्षणिकपक्षयोः सर्वथार्थक्रियाविरहात् । यदाह " अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः । क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता" इति ॥ १५॥ ननु प्रमाणाधीना प्रमेयव्यवस्था । न च मुख्यप्रत्यक्षस्य तद्वतो वा सिद्धौ किश्चित् प्रमाणमास्ति । प्रत्यक्षं हि रूपादिविषयविनिर्मितव्यापारं नातीन्द्रियेऽर्थे प्रवार्तितुमुत्सहते । नाप्यनुमानम् । प्रत्यक्षदृष्टलिङ्गलिङ्गिसम्बन्धबलोपजनितधर्मकत्वात्तस्य । आगमस्तु यद्यतीन्द्रियज्ञानपूर्वकस्तत्साधकस्तदेतरेतराश्रयः। “नर्ते तदागमात्सिध्येन च तेनागमो विना" इति । अपौरुषेयस्तु तत्सासर्वं कर्म वेद्यते तथापि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात् सातासात( सुखदुःख ) रूपमेव कर्म वेदनीयमित्युच्यते । तस्य स्वभावः सुखदुःखसंवेदनम् । एतत्कर्म सुखं दुःखं चोत्पादयति ३। दर्शनचारित्रे च मोहमुत्पादयति मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति वा मोहनीयम्। आद्यस्य (दर्शनमोहनीयस्य) स्वभावस्तत्त्वार्थाश्रद्धानम् । एतत्कर्म दुर्जनसङ्गवत्तत्त्वार्थेऽश्रद्धामुत्पादयति । द्वितीयस्य (चारित्रमोहनीयस्य) स्वभाव इन्द्रियनियमनाभावः । एतत्कर्म त्वाचरण इन्द्रियाणाव्यवस्थामुत्पादयति ४ । एति गच्छति गत्यन्तरमनेनेत्यायुः । आयुर्नामकर्मणः स्वभावो भवधारणम् । एतत्कर्म तरितॄणां मनुष्यपश्वादीनां जलवद्देहं धारयति ५ । नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति । नामसंज्ञककर्मणः स्वभावो नारकादिनामकरणम् । एतत्कर्म चित्रकारवन्नानाविधाः संज्ञा आधचे ६ । गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रम् । गोत्रकर्मणः स्वभावः उच्चनीचसंशद्धनम् । एतत्कर्म कुम्भकारो घटेष्विव शरीर उच्चनीचावस्थां संपादयति ७ । जीवं दानादिकं चान्तरा एति न जीवस्य दानादिकं कर्तुं ददातीत्यन्तरायम् अन्तरायकम् । एतत्कर्म कृपणवद्दानादिषु विघ्नमुत्पादयति । इति शेयम् । १ श्लोकवार्तिक सूत्र २ श्लोक १४२ । । Page #48 -------------------------------------------------------------------------- ________________ सूत्र १-१-१६ २० [ प्रमाण 1 । धको नास्त्येव । योऽपि " अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति वेद्यं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् " इत्यादिः कश्चिदर्थवादरूपोऽस्ति नासौ प्रमाणम् । विधावेव प्रामाण्योपगमात् । प्रमाणान्तराणां चात्रानवसर एवेत्याशङ्कयाह ॥ प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥१-१-१६॥ प्रज्ञाया अतिशयस्तारतम्यं क्वचिद्विश्रान्तमतिशयत्वात् परिमाणातिशयवदित्यनुमानेन निरतिशयप्रज्ञप्तिसिद्धा तस्य केवलज्ञानस्य सिद्धिः। तत्सिद्धिरूपत्वात् केवलज्ञानसिद्धेः । आदिग्रहणात् सूक्ष्मा - न्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवदित्यतो ज्योतिर्ज्ञानाविसंवादान्यथानुपपत्तेश्व तत्सिद्धिः । यदाह " धीरत्यन्तपरोक्षेऽर्थे न चेत् पुंसां कुतः पुनः । ज्योतिर्ज्ञानाविसंवादः श्रुताच्चेत्साधनान्तरम् " । अपि च नोदना हि भूतं भवन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमेवञ्जातीयकमर्थमवगमयति नान्यत्किंचनेन्द्रियमिति वदता भूताद्यर्थपरिज्ञानं कस्यचित् पुंसोऽभिमतमेव । अन्यथा कस्मै वेदस्त्रिकालविषयमर्थं निवेदयेत् । स हि निवेदयंस्त्रिकालविषयतत्त्वज्ञमेवाधिकारिणमुपादत्ते । तदाह । “ त्रिकाल - विषयं तत्त्वं कस्मै वेदो निवेदयेत् । अक्षय्यावरणैकान्तान्न चेद्वेद तथा नरः " इति, त्रिकालविषयवस्तुनिवेदनाऽन्यथानुपपत्ते१ श्वेताश्वतरोपनिषद् ३ – १९ । २ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ' इति जैमिनिसूत्रम् । (जै. १-२ - १ ) ३ केवलज्ञानलक्षणम् ‘ सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ' । इति प्रमाणनयतत्वालोकालङ्कारे परिच्छेद २ सूत्रम् २३ | ( Page #49 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-१६ " रितीन्द्रियकेवलज्ञानसिद्धिः । किञ्च प्रत्यक्षानुमानसिद्धसंवादं शास्त्रमेवातीन्द्रियार्थदर्शिसद्भावे प्रमाणम् । य एव हि शास्त्रस्य विषयः स्याद्वादः स एव प्रत्यक्षादेरपीति संवादः । तथाहि “ सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः " इति दिशा प्रमाणसिद्धं स्याद्वादं प्रतिपादयन्नागमोऽर्हतस्सर्वज्ञतामपि प्रतिपादयति, यदस्तुम “ यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमात्मभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय " इति । प्रत्यक्षं तु यद्यप्यैन्द्रियिकं नातीन्द्रियज्ञानविषयं तथापि समाधिबललब्धजन्मकयोगिप्रत्यक्षमेव बाह्यार्थस्येव स्वस्यापि वेदकमिति प्रत्यक्षतोऽपि तत्सिद्धिः । अथ “ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्म्मश्च सहसिद्धं चतुष्टयम् " । इति वचनात्सर्वज्ञत्वमीश्वरादीनामस्तु । मानुषस्य तु कस्यचिद्विद्याचरणवतोपि तदसम्भावनीयम् । यत्कुमारिलः । “अथापि वेददे - हत्वाद्ब्रह्मविष्णुमहेश्वराः । कामं भवन्तु सर्वज्ञाः सार्वश्यं मानुषस्य किम् ॥” इति, आः सर्वज्ञापलापपातकिन् दुर्वदवादिन् मानुषत्वनिन्दार्थवादापदेशेन देवाधिदेवानधिक्षिपासे । ये हि जन्मान्तरार्जितोर्जितपुण्यप्राग्भाराः सुरभवभवमनुपमं सुखमनुभूय दु:खपङ्कमनमखिलं जीवलोकमुद्दिधीर्षवो नरकेष्वपि क्षणं क्षिप्तमुखासिकामृतवृष्टयो मनुष्यलोकमवतेरु: जन्मसमयसमकालचलितासनसकलसुरेन्द्रवृन्दविहितजन्मोत्सवाः किङ्करायमाणसुरसमूहाहमहमिकारब्धसेवाविधयः स्वयमुपनतामतिप्राज्यसाम्राज्यश्रियं तृणवदवधूय समतृण१ श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक २१ । T २ अहं पूर्वमहं पूर्वमिति यस्यां क्रियायाम् । २१ Page #50 -------------------------------------------------------------------------- ________________ २३ सूत्र १-१-१६ _ [प्रमाण माणशत्रुमित्रवृत्तयो निजप्रभावप्रशमिततिमरेकादिजगदुपद्रवाः। शुक्लध्यानानलानिर्दग्धघातिकर्माण आविर्भूतनिखिलभावाभावस्वभाववभावसिकेवलबलदलितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरणभुवमधिष्ठाय स्वस्वभाषापरिणामिनीभिर्वाग्भिः प्रवर्तितधमतीर्थाश्चतुस्त्रिंशदतिशयमयीं तीर्थत्वलांमुपभुज्य परं ब्रह्म सततानन्दं सकलकर्मनिर्मोक्षमुपेयिवांसस्तान्मानुषत्वादिसाधारणधर्मोपदेशेनापवदन् मुमेरुमाप लोष्ठादिना साधारणीकर्तु पार्थिवत्वेनापवदेः। किञ्चानवरतवनिताङ्गसम्भागेदुर्ललितवृत्तीनां विविधहेतुसमूहधारिणामक्षमालाद्यायत्तमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्व १ ईतिः-" अजन्यमीतिरुत्पातः"। इति हैमः २-४० । ईयते प्राप्यते दुःखमस्यामीतिः । पु. स्त्री. । “अतिवृष्टिरनावृष्टिः शलभा मूषकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः " ॥ १ ॥ २ " मरको मारः" । इति हैमः २-२३९ । मरणं मरकः । ३ शुचं क्लामयतीति शुक्लम् । शोकं ग्लषयतीत्यर्थः । “ ध्यै चिन्तायाम्" । (है.धा. पा. १-३०) ध्यायते चिन्त्यते तत्त्वमनेनेति ध्यानम् । शुक्लं च तद् ध्यानं च शुक्लध्यानम् । ४ समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणम् । ५ अतिशयाः ३४-'तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविनम् ॥ १ ॥ आहारनीहारविधिस्त्वदृश्य (अदृश्य मांसचक्षुषान पुनरवध्यादिलोचनन पुंसा) श्चत्वार एतेऽतिशयाः संहोत्थाः ( सहजन्मानः )। अथ कर्मक्षयजानतिशयानाह-क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जन कोटिकोटे : ॥ २ ॥ वोणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहपतिमण्डलाश ॥ ३ ॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्यतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघाताः ॥ ४॥ अथ देवकृतानतिशयानाह-खे धर्मचक्र चैमराः संपादपीठं मृगेन्द्रासनमुज्ज्वलं च Page #51 -------------------------------------------------------------------------- ________________ १० मीमांसा सूत्र १-१-१६ वित्त्वसाम्राज्यम् । यदवदाम स्तुतौ "*मदेन मानेन मनोभवन क्रोधेन लाभेन च सम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम्"। इति । अथापि रागादिदोषकालुप्यविरहिताः सततज्ञानानन्दमयमूर्तयो ब्रह्मादयस्तर्हि तादृशेषु तेषु न छत्रत्रय रत्नमयध्वजोऽङ्ग्रिन्यासे चचामकिरपङ्कजानि ॥ ५ ॥ व4त्रयं चारु चतुर्मुखाइता चैत्यगुमोऽधोवदनाश्च कष्टकाः । गुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ ६ ॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । ●तुविधाम-निकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ७ ॥ ऋतूंनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशैच मीलिताः' ॥ ८ ॥ १ योजनप्रमाणेऽपि क्षेत्रे समवसरणभुवि समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणं नृणां देवानां तिरश्वां च जनानां कोटिकोटिसङ्ख्यानां स्थितिरवस्थानम् । २ वाणी भाषा अर्द्धमागधी (मागधी इत्यपि दृश्यते ) नृतिर्यक्सुरलोकभाषया संवदति ३ योजनशते ज्वरादिरोगो न स्यात् । ४ एवमेकादश अतिशयाः · ज्ञानावरणदर्शनावरणमोहनीयान्तरायाख्यकर्मचतुष्टयस्य क्षयाज्जायन्ते । ५ धर्मप्रकाशकं चक्रम् । ६, ७, ८, ९ ख इति वर्तते । १० समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोशं भवति । ११ चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यात् । १२ सुखदवादनुकूलः । १३ बहुवर्णानां पञ्चवर्णानां जानुनोरुत्सेधस्य उच्चत्वस्य यत्प्रमाणं यस्याः सा जानूत्सेधप्रमाणमात्रा पुष्पवृष्टिः स्यात् । १४ भवनपतिव्यतरज्योतिष्कवैमानिकदेवाः प्रशान्ताचत्रमानसा प्रशान्तानि समङ्गतानि चित्राणि रागद्वेषाद्यनेकविध विकारयुक्ततया विविधानि मानसान्यन्तःकरणानि येषां ते समीपे धर्म निशामयन्ति । १५ ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां स्पर्शरसगन्धरूपशद्वानाममनोज्ञानापकर्षेण मनोज्ञानां च प्रादुर्भावेनानुकूलत्वं भवति । १६ इति देवैः कृता एकोनविंशातिस्तीर्थकृतामतिशयाः। १७ एकोनविंशतिः सहजैश्चतुर्भिःकर्मक्षयजैरेकादशभिः सह मीलिता एकत्र योजिताश्चतुस्त्रिंशद्भवन्तीति । . * श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक २५ । Page #52 -------------------------------------------------------------------------- ________________ सूत्र १-१-१६ २४ - [प्रमाण विप्रतिपद्यामहे । अवोचाम हि " यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते" ॥ इति । केवलं ब्रह्मादिदेवताविषयाणां श्रुतिस्मृतिपुराणेतिहासकथानां वैतथ्यमासज्येत ॥ १६॥ तदेवं साधकेभ्यः प्रमाणेभ्योऽतीन्द्रियज्ञानसिद्विरुक्ता बाधकाभावाच्च सुनिश्चिता ॥ असम्भवद्वाधकत्वात् सुखादिवत् ॥ १-१-१७॥ __ तत्सिद्धिरिति सम्बध्यते । तथाहि केवलज्ञानबाधकं भवत् प्रत्यक्षं वा भवेत् प्रमाणान्तरं वा । न तावत् प्रत्यक्षम् । तस्य विधाने एवाधिकारात् । “संबंद्धं वर्तमानं च गृह्यते चक्षुरादिना।" इति स्वयमेव भाषणात् । अथ न प्रवर्तमानं प्रत्यक्षं तद्वाधकं किन्तु निवर्तमानम् । तद्धि यदि नियतदेशकालविषयत्वेन बाधकं तर्हि सम्पतिपद्यामहे । अथ सकलदेशकालविषयत्वेन, तर्हि न तत् सकलदेशकालपुरुषपरिषत्साक्षात्करणमन्तरेण सम्भवतीति सिद्धं नः समीहितम् । न च जमिनिरन्यो वा सकलदेशादिसाक्षात्कारी सम्भवति । सत्त्वपुरुषत्वादेः रथ्यापुरुषवत् । अथ प्रज्ञायाः सातिशयत्वात्तत्प्रकर्षोऽप्यनुमीयते । तर्हि तत एव सकलार्थदर्शी किं नानुमीयते । स्वपक्षे चानुपलम्भमप्रमाणयन् सर्वज्ञाभावे कुतः प्रमाणयेदविशेषात् । न चानुमानं तद्बाधकं सम्भवति । धर्मिग्रहणमन्तरेणानुमानाप्रवृत्तेः । धर्मिग्रहणे वा तद्ग्राहकप्रमाणबाधितत्वादनुत्थानमेवानुमानस्य । अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् पुरुषत्वाद्वा रथ्यापुरुषवदित्य १ श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक ३१ । २ श्लोकवार्तिक सूत्र ४ श्लोक ८४ । Page #53 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-१९ नुमानं तद्बाधकं ब्रूषे। तदसत् । यतो यदि प्रमाणपरिदृष्टार्थवक्तृत्वमात्रं हेतुस्तदा विरुद्धः। तादृशस्य वक्तृत्वस्य सर्वज्ञ एव भावात् । अथासद्भूतार्थवक्तृत्वं तदा सिद्धसाध्यताः। प्रमाणविरुद्धार्थवादिनामसर्वज्ञत्वेनेष्टत्वात् । वक्तृत्वमात्रं तु सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् । ज्ञानप्रकर्षे वक्तृत्वापकर्षादर्शनात् । प्रत्युत ज्ञानातिशयवतो वक्तृत्वातिशयस्यैवोपलब्धेः । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि यदि रागाद्यदूषितं तदा विरुद्धम् । ज्ञानवैराग्यादिगुणयुक्तपुरुषत्वस्य सर्वज्ञतामन्तरेणानुपपत्तेः । रागादिदूषिते तु पुरुषत्वे सिद्धसाध्यता । पुरुषत्वसामान्यं तु सन्दिग्धविपक्षव्यावृत्तिकमित्यबाधकम् । नाप्यागमस्तद्धाधकः । तस्यापौरुषेयस्यासम्भवात् । सम्भवे वा तद्धाधकस्य तस्यादर्शनात् सर्वज्ञोपज्ञश्चागमः कथं तद्बाधक इत्यलमतिप्रसङ्गेनेति ॥ १७ ॥ न केवलं केवलमेव मुख्यं प्रत्यक्षमपि त्वन्यदपीत्याह॥ तत्तारतम्येऽवधिमनःपर्यायौ च ॥ १-१-१८॥ - सर्वथावरणविलये केवलं तस्यावरणविलयस्य तारतम्ये आवरणक्षयोपशमाविशेषे तन्निमित्तकोऽवधिरवधिज्ञानं मनःपर्यायो मन:पर्यायज्ञानं च मुख्यामन्द्रियानपेक्षं प्रत्यक्षम् । तत्रावधीयत इत्यवधिः मर्यादा सा च "रूपिष्ववधेः" इति वचनात् रूपवद्रव्यविषया अवध्युपलाक्षितं ज्ञानमण्यवधिः ॥ १८ ॥ ॥स द्वधा भवप्रत्ययो गुणप्रत्ययश्च ॥ १-१-१९॥ तत्राद्यो देवनारकाणां पक्षिणामिव वियद्गमनम् । गुणप्रत्ययो १ " उपज्ञाते ” इति हेमसूत्रम् ६-३-१९१ । बृहद्वृत्तिः-तेनेति वर्तते । प्रथमतः उपदेशेन विना वा ज्ञातं उपज्ञातं, प्रथमतः कृतं वोपज्ञातम् । तस्मिन्नर्थे तृतीयाधन्ताद्यथाविहितं प्रत्ययो भवति । पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् । २ तत्त्वार्थाधिगमसूत्रस्य प्रथमाध्याये सूत्रम् २८ । Page #54 -------------------------------------------------------------------------- ________________ सूत्र १-१-१९ .. [प्रमाण मनुष्याणां तिरश्वां च । मनसो द्रव्यरूपस्य पर्यायाश्चिन्तनानुगुणाः परिणामभेदास्तद्विषयं ज्ञानं मनःपर्यायः । तथाविधमनःपर्यायान्यथानुपपत्त्या तु यद्बाह्यचिन्तनीयार्थज्ञानं तदानुमानिकमेव न मनःपर्यायप्रत्यक्षम् । यदाहुः 'जाणइ बज्झे णुमाणा उत्ति' ॥१९॥ ननु रूपिद्रव्यविषयत्वे क्षायोपशमिकत्वे च तुल्ये को विशेषोऽवधिमनःपर्याययोरित्याह॥ विशुद्धिक्षेत्रस्वामिविषयभेदात्तद्भेदः ॥ १-१-२०॥ __ सत्याप कथञ्चित्साधर्म्य विशुद्धादिभेदादवधिमनःपर्यायज्ञानयोभेंदः । तत्रावधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यानि हि मनोद्रव्याणि अवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि जानीते । क्षेत्रकृतश्चानयोर्भेदः । अवधिज्ञानमङ्गलस्यासङ्ख्यभागादिषु भवत्यासर्वलोकात् । मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति । स्वामिकृतोऽपि, अवधिज्ञानं संयतस्यासंयतस्य संयतासंयतस्य च सर्वगतिषु भवति ।मनःपर्यायज्ञानं तु मनुष्यसंयतस्य प्रकृष्टचारित्रस्य प्रमत्तादिषु क्षीणकषायान्तेषु गुणस्थानकेषु भवति । तत्रापि वर्धमानपरिणामस्य नेतरस्य । वर्धमानपरिमाणस्यापि ऋद्धिमाप्तस्य नेतरस्य । ऋद्धिप्राप्तस्यापि कस्याचिन्न सर्वस्योत । विषयकृतश्च रूपवद्रव्येष्वसर्वपर्यायेष्ववधर्विषयनिबन्धस्तदनन्तभागे मनःपर्यायस्यति ॥२०॥ अवसितं मुख्यं प्रत्यक्षम् । अथ सांव्यवहारिकमाह॥ इन्द्रियमनोनिमित्तोऽवग्रहहावायधारणात्मा सांव्यवहारिकम् ॥ १-१-२१॥ इन्द्रियाणि स्पर्शनादीनि वक्ष्यमाणलक्षणानि । मनश्च निमित्तं १ अत्र ' जाणई बज्झेणुमाणेणम् ' इति पाठः । छाया-जानाति बाह्यानुमानेन । विशेषावश्यके गाथा ८१४ । * १-१-२२ सूत्रे । Page #55 -------------------------------------------------------------------------- ________________ मीमांसा ] त्रसू १-१-२२ कारणं यस्य स तथा । सामान्यलक्षणानुवृत्तेः । सम्यगर्थनिर्णयस्येदं विशेषणं तेनेन्द्रियमनोनिमित्तः सम्यगर्थनिर्णयः । कारणमुक्त्वा स्वरूपमाह — अवग्रहेहावायधारणात्मा । अवग्रहादयो वक्ष्यमाणलक्षणाः । त आत्मा यस्य सोऽवग्रहेहावायधारणात्मा । आत्मग्रहणं च क्रमेणोत्पद्यमानानामप्यवग्रहादीनां नात्यन्तिको भेदः किन्तु पूर्वपूर्वस्योत्तरोत्तररूपतया परिणामादेकात्मकत्वमिति प्रदर्शनार्थम् । समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारस्तत्प्रयोजनं सांव्यवहारिकम् । प्रत्यक्षम् इन्द्रियमनोनिमित्तं च समस्तं व्यस्तं च बोद्धव्यम् इन्द्रियप्राधान्यान्मनोबलाधानाच्चोत्पद्यमान इन्द्रियजो मनस एव विशुद्धिसव्यपेक्षा दुपजायमानो मनोनिमित्त इति । ननु स्वसंवेदनरूपमन्यदपि प्रत्यक्षमस्ति तत्कस्मान्नोक्तमिति न वाच्यम् । इन्द्रियजज्ञानस्वसंवेदनस्येन्द्रियप्रत्यक्षेऽनिन्द्रियजसुखादिस्वसंवेदनस्य मनःप्रत्यक्षे योगिप्रत्यक्षस्वसंवेदनस्य योगिप्रत्यक्षेऽन्तर्भावात् । स्मृत्यादिस्वसंवेदनं तु मानसमेवेति नापरं स्वसंवेदनं नाम प्रत्यक्षमस्तीति भेदेनोक्तम् ।। २१ ॥ इन्द्रियेत्युक्तमितीन्द्रियाणि लक्षयति॥ स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनप्राणचक्षुः श्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि ।। १-१-२२॥ स्पर्शादिग्रहणं लक्षणं येषां तानि यथासङ्ख्यं स्पर्शनादीनीन्द्रियाणि । तथाहि स्पर्शाद्युपलब्धिः करणपूर्वा क्रियात्वात् छिदित्रियावत् । तत्रेन्द्रेण कर्मणा सृष्टानीन्द्रियाणि । नामकर्मोदयनिमित्तत्वात् इन्द्रस्यात्मनो लिङ्गानि वा । कर्ममलीमसस्य हि स्वयमर्थानुपलब्धुमसमर्थस्यात्मनोऽर्थोपलब्धौ निमित्तानि इन्द्रियाणि । नन्वेवमात्मनोऽर्थज्ञानमिन्द्रियात् लिङ्गादुपजायमानमानुमानिकं स्यात् । I x १-१-२७; १-१-२८; १-१-२९; १-१-३० सूत्रेषु । २७ Page #56 -------------------------------------------------------------------------- ________________ सूत्र १-१- २२ २ ८ ..... . [प्रमाण तथा च लिङ्गापरिज्ञानेऽनुमानानुदयात् तस्यानुमानात्परिज्ञानेऽनवस्थाप्रसङ्गः । नैवम् । भावेन्द्रियस्वसंविदितत्वेनानवस्थानवकाशात् । यद्वेन्द्रस्यात्मनो लिङ्गान्यात्मगमकानीन्द्रियाणि करणस्य वास्यादिवकधिष्ठितत्वदर्शनात् । तानि च द्रव्यभावरूपेण भिद्यन्ते । तत्र द्रव्येन्द्रियाणि नामकर्मोदयनिमित्तानि । भावेन्द्रियाणि पुनस्तदावरणवीर्यान्तरायक्षयोपशमनिमित्तानि । सैषा पञ्चसूत्री स्पर्शग्रहणलक्षणं स्पर्शनेन्द्रियं, रसग्रहणलक्षणं रसनेन्द्रियमित्यादि । सकलसंसारिषु भावाच्छरीरव्यापकत्वाच स्पर्शनस्य पूर्व निर्देशः। ततः क्रमेणाल्पाल्पजीवविषयत्वासनघ्राणचक्षुःश्रोत्राणाम् । तत्र स्पर्शनेन्द्रियं तदावरणक्षयोपशमसम्भवं पृथिव्यप्तेजोवायुवनस्पतीनां शेषेन्द्रियावरणवतां स्थावराणां जीवानाम् । तेषां च " पुंढवि चित्तमन्तमरवाया” इत्यादेराप्तागमात्सिद्धिः । अनुमानाच ज्ञानं कचिदात्मनि परमापकर्षवत् अपकृष्यमाणाविशेषत्वात् परिमाणवत् । यत्र तदपकर्षपर्यन्तस्त एकेन्द्रियाः स्थावराः । न च स्पर्शनेन्द्रियस्याप्यभावे भस्मादिषु ज्ञानस्यापकों युक्तः। तत्र हि ज्ञानस्याभाव एव न पुनरपकर्षस्ततो यथा गगनपरिमाणादारभ्यापकृष्यमाणविशेष परिमाणं परमाणौ परमापकर्षवत् । तथा ज्ञानमपि केवलज्ञानादारभ्यापकृष्यमाणविशेषमेकेन्द्रियेष्वत्यन्तमपकृष्यते । पृथिव्यादीनां च प्रत्येकं जीवत्वसिद्धिरग्रे वक्ष्यते । स्पर्शनरसनेन्द्रिये कृमि-अपादिकानूपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-जलौकाप्रभृतीनां १ दशवैकालिकस्य चतुर्थाध्ययने प्रथमसूत्रम् । व्याख्या-पृथिवी। चित्तं जीवलक्षणं तदस्यास्तीति चित्तवती सजीवेत्यर्थः । पाठान्तरं वा "पुढवि चित्तमत्तमक्खाया"। अत्र मात्रशब्दः स्तोकवाची । यथा सर्षपविभागमात्रमिति । ततश्चित्तमात्रा स्तोकचित्तेत्यर्थः । आख्याता सर्वज्ञेन कथिता । २ इयं जीवत्वसिद्धिरत्राध्यायद्वये नास्ति तदने स्यात् । Page #57 -------------------------------------------------------------------------- ________________ २९ मीमांसा ] सूत्र १-१-२२ सानाम् । स्पर्शन-रसन-प्राणानि पिपीलका-रोहिणिका-पोचकाकुंथु-तुंबुरक-त्रिपुस-बीज-कर्पासास्थिका-शतपदी-अयेनकतृणपत्र-काष्ठहारकादीनाम् । स्पर्शन-रसन-घ्राण-चढूंषि भ्रमरवठर-सारङ्ग–माक्षका-पुस्तिका-दंश—मशक-वृश्चिकनन्द्यावर्त्त-कीटक-पतगादीनाम् । सह श्रोत्रेण तानि । मत्स्य-उरग भुजग-पक्षि-चतुष्पदानां तिर्यग्योनिजानां सर्वेषां च नारकमनुष्यदेवानामिति । ननु वचनादानविहरणोत्सर्गानन्दहेतूनि वाक्पाणिपादपायूपस्थलक्षणान्यपीन्द्रियाणीति साङ्ख्यास्तत्कथं पञ्चैवेन्द्रियाणि । न । ज्ञानविशेषहेतूनामेवेहेन्द्रियत्वेनाधिकृतत्वात् चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्वकल्पनायामिन्द्रियानन्त्यप्रसङ्गश्चेष्टाविशेषाणामनन्तत्वात् । तस्माद्व्यक्तिनिर्देशात् पञ्चेन्द्रियाणि । तेषां च परस्परं स्यादभेदो द्रव्यार्थाभेदात् । स्याद्भदः पर्यायार्थादेशात् । अभेदैकान्ते हि स्पर्शनेन स्पर्शस्येव:रसादेरपि ग्रहणप्रसङ्गः। तथाचेन्द्रियान्तरकल्पनावैयर्थ्यम् । कस्यचित् साकल्ये वैकल्ये वान्येषां साकल्यवैकल्यप्रसङ्गश्च । भेदैकान्तेऽपि तेषामेकत्र सकलज्ञानजनकत्वाभावप्रसङ्गः सन्तानान्तरेन्द्रियवत् । मनस्तस्य जनकमिति चेत् । न । तस्येन्द्रियनिरपेक्षस्य तज्जनकत्वाभावात् । इन्द्रियापेक्षं मनोऽनुसन्धानस्य जनकमिति चेत्। सन्तानान्तरेन्द्रियापेक्षस्य कुतो न जनकत्वामिति वाच्यम् । प्रत्यासतेरभावादिति चेत् । अत्र का प्रत्यासत्तिरन्यत्रैकद्रव्यतादात्म्यात् । प्रत्यासत्त्यन्तरस्य च व्यभिचारादिति । एतेन तेषामात्मना भेदाभेदैकान्तौ प्रतिव्यूढौ । आत्मना करणानामभेदैकान्ते कर्तृत्वप्रसङ्गः । आत्मनो वा करणत्वप्रसङ्गः । उभयोरुभयात्मकप्रसङ्गो वा विशेषाभावात् । ततस्तेषां भेदैकान्ते चात्मनः करणत्वाभावः सन्तानान्तरकरणवद्विपर्ययो वेति प्रतीतसिद्धत्वाद्धाधकाभावाचानेकान्त एवाश्र १ त्रसन्ति उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायांद्यासेवनार्थ स्थानान्तरमिति त्रसाः द्वीन्द्रियादयश्च । Page #58 -------------------------------------------------------------------------- ________________ सूत्र १-१-२२ ३० [ प्रमाण यणीयः । द्रव्येन्द्रियाणामपि परस्परं स्वारम्भकपुद्गलद्रव्येभ्यश्च भेदाभेदद्वारानेकान्त एव युक्तः । पुद्गलद्रव्यार्थादेशादभेदस्य पर्यायार्थादेशाच्च भेदस्योपपद्यमानत्वात् । एवमिन्द्रियविषयाणां स्पर्शादीनामपि द्रव्यपर्यायरूपतया भेदाभेदात्मकत्वमवसेयम् । तथैव निर्वाधमुपलब्धेः । तथा च द्रव्यमात्रं पर्यायमात्रं चेन्द्रियविषय इति स्पर्शादीनां कर्मसाधनत्वं भावसाधनत्वं च द्रष्टव्यम् ।। २२ ॥ द्रव्यभावभेदानीत्युक्तं तानि क्रमेण लक्षयति|| द्रव्येन्द्रियं नियताकाराः पुलाः ॥ १-१-२३॥ द्रव्येन्द्रियमित्येकवचनं जात्याश्रयणात् । नियतो विशिष्टो बाह्य आभ्यन्तरश्चाकारः संस्थानविशेषो येषां ते नियताकाराः पूरणगलनधर्माण: स्पर्शरसगन्धवर्णर्वन्तः पुद्गलाः । तथाहि श्रोत्रा - दिषु यः कर्णशष्कुलीप्रभृतिर्बाह्य: पुद्गलानां प्रचयो यश्चाभ्यन्तरः कदम्बगोल काद्याकारः स सर्वो द्रव्येन्द्रियम् । पुद्गलद्रव्यरूपत्वात् । अप्राधान्ये वा द्रव्यशब्दो यथाङ्गारमर्दको द्रव्याचार्य इति । अप्रधानामेन्द्रियं द्रव्येन्द्रियं व्यापारवत्यपि तस्मिन् सन्निहितेऽपि चालोक - प्रभृतीनि सहकारिपटले भावेन्द्रियं विना स्पर्शाद्युपलब्ध्यसिद्धेः॥२३॥ ॥ भावेन्द्रियं लब्ध्युपयोगौ ॥ १-१-२४ ॥ लम्भनं लब्धिर्ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधानाध्यात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्त आत्मनः परिणामविशेष उपयोगः । अत्रापि भावेन्द्रियमित्येकवचनं जात्याश्रयणात् । भावशब्दोऽनुसपर्जनार्थः । यथैवेन्दनधर्मयोगित्वेनानुपचरितेन्द्रत्वो भावेन्द्र उच्यते । तथैवेन्द्रलिङ्गत्वादिधर्मयोगेनानुपचरितेन्द्रलिङ्गत्वादिधर्मयोग भावेन्द्रियम् । तत्र लब्धिस्वभावं तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावेन्द्रियतां प्रतिपद्यते । १ प्रधानार्थः । Page #59 -------------------------------------------------------------------------- ________________ भीमांसा ] ३१ सूत्र १-१-२५ नहि तत्रायोग्यस्य तदुत्पत्तिराकाशवदुपपद्यते स्वार्थसंविद्योग्यतैव च लब्धिरिति । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् । नह्यव्यापृतं स्पर्शनादिसंवेदनं स्पर्शादि प्रकाशयितुं शक्तम् । सुषुप्तादीनामपि तत्प्रकाशकत्वमाप्तेः । स्वार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलत्वादिन्द्रियत्वानुपपत्तिरिति चेत् । न । कारणधर्मस्य कार्येऽनुवृत्तेः । नहि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदीपस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येन्द्रियत्वं तेनैव फलत्वमिष्यते येन विरोधः स्यात् । साधकतमस्वभावेन हि तस्येन्द्रियत्वं क्रियारूपतया च फलत्वम् । यथैव हि प्रदीपः प्रकाशात्मा करणम् । क्रियात्मा फलम् । स्वतन्त्रत्वाच्च कर्त्तेति सर्वमिदमनेकान्तवादे न दुर्लभमित्यलं प्रसङ्गेन ॥ २४ ॥ मनोनिमित्त इत्युक्तमिति मनो लक्षयति ॥ सवार्थग्रहणं मनः ॥ १-१-२५॥ I सर्वे न तु स्पर्शनादीनां स्पर्शादिवत् प्रतिनियता एवार्था गृह्यन्ते तेनोत सर्वार्थग्रहणं 'मनोऽनिन्द्रियम्' इति ' नो इन्द्रियम्' इति चोच्यते । सर्वार्थ मन इत्युच्यमाने आत्मन्यपि प्रसङ्ग इति करणत्वप्रतिपादनार्थं ग्रहणमित्युक्तम् । आत्मा तु कर्त्तेति नातिव्याप्तिः सर्वार्थग्रहणं च मनसः प्रासिद्धमेव । यद्वाचकमुख्यः " श्रुतमनि। न्द्रियस्य " श्रुतमिति हि विषयिणा विषयस्य निर्देशः । उपलक्षणं च श्रुतं मतेः । तेन मतिश्रुतयोर्यो विषयः । समनसो विषय इत्यर्थः । मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु' इति वाचकवचनान्मतिश्रुतज्ञानयोः सर्वविषयत्वं सिद्धम् । मनोऽपि चेन्द्रियवद् द्रव्यभावभेदात् द्विविधमेव । तत्र द्रव्यमनो मनस्त्वेन परिणतानि 1 6 १ तत्त्वार्थाधिगमसूत्र २ - २२ । २ तत्वार्थाधिगमसूत्र १-२७ । Page #60 -------------------------------------------------------------------------- ________________ सूत्र १-१-२५ [ प्रमाण पुद्गलद्रव्याणि । भावमनस्तु तदावरणीयकर्मक्षयोपशमात्मा लब्धिरात्मनश्वार्थग्रहणोन्मुखो व्यापारविशेष इति ॥ २५ ॥ नन्वत्यल्पमिदमुच्यते 'इन्द्रियमनोनिमित्त' इति । अन्यदपि हि चक्षुर्ज्ञानस्य निमित्तमर्थ आलोकश्वास्ति । यदाहुः " रूपालोकमनस्कारचक्षुर्यः सम्प्रजायते । विज्ञानं मणिसूर्यांशुगोशकृद्भ्य इवानलः ॥" इत्यत्राह॥नार्थालोको ज्ञानस्य निमित्तव्यतिरेकात् ॥१-१-२६॥ बाह्यो विषयः प्रकाशश्च न चक्षुर्ज्ञानस्य साक्षात्कारणम् । देशकालादिवत्तु व्यवहितकारणत्वं न निवार्यते । ज्ञानावरणादिक्षयोपशमसामग्र्यामारादुपकारित्वेनाञ्जनादिवच्चक्षुरुपकारित्वेन चाभ्युपगमात् । कुतः पुनः साक्षान्न कारणत्वमित्याह-अव्यतिरेकात् व्यतिरेकाभावात् । नहि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम् । आप तु तदभावेऽभावलक्षणो व्यतिरेकोऽपि । न चासावलोकयोर्हेतुभावेऽस्ति । मरुमरीचिकादौ जलाभावेऽपि जलज्ञानस्य वृषदंशादीनां चालोकाभावेऽपि सान्द्रतमतमःपटलविलुप्तदशगतवस्तुप्रतिपत्तेश्च दर्शनात् । योगिना चातीतानागतार्थग्रहणे किमर्थस्य निमित्तत्वम् । निमित्तत्वे चार्थक्रियाकारित्वेन सत्त्वादतीतानागतत्वक्षतिः । न च प्रकाश्यादात्मलाभ एव प्रकाशकस्य । प्रकाशकत्वं प्रदीपादेर्घटादिभ्योऽनुत्पन्नस्यापि तत्प्रकाशकत्वदर्शनात् । ईश्वरज्ञानस्य च नित्यत्वेनाभ्युपगतस्य कथमर्थजन्यत्वं नाम । अस्मदादीनामपि जनकस्यैव ग्राह्यत्वाभ्युपगमे स्मृतिप्रत्यभिज्ञानादेः प्रमाणस्याप्रामाण्यप्रसङ्गः। येषां चैकान्तक्षणिकोऽर्थो जनकश्च ग्राह्यत इत्येतद् दर्शनम् । तेषामपि जन्यजनकयोर्जानार्थयोर्भिन्नकालत्वान्न ग्राह्यग्राहकभावः सम्भवति । अथ न जन्यजनकभावातिरिक्तं १ " विलिस" इति पाठान्तरम् । Page #61 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-२६ संन्दंशायोगोलकवत् ज्ञानार्थयोः कश्चिद ग्राह्यग्राहकभाव इति. मतम् । "भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् । इति वचनात् ।तर्हि सर्वज्ञज्ञानस्य वार्तमानिकार्थविषयत्वं न कथंचिदुपपद्यते । वार्तमानिकक्षणस्याजनकत्वात् । अजनकस्य चाग्रहणात् । स्वसंवेदनस्य च स्वरूपाजन्यत्वे कथं ग्राहकत्वं स्वरूपस्य वा कथं ग्राह्यत्वमिति चिन्त्यम् । तस्मात् स्वसामग्रीप्रभवयोः प्रकाशघटयोरिव ज्ञानार्थयोः प्रकाश्यप्रकाशकभावसम्भवान्न ज्ञाननिमित्तत्वमर्थालोकयोरिति स्थितम् । नन्वर्थाजन्यत्वे ज्ञानस्य कथं प्रतिकर्मव्यवस्था । तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वान् प्रत्यविशेषात् । नैवम् । तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणयोग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः । तदुत्पतावपि च योग्यतावश्याश्रयणीया । अन्यथाशेषार्थसान्निध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः। तदाकारता त्वर्थाकारसङ्क्रान्त्या तावदनुपपन्ना । अर्थस्य निराकारत्वप्रसङ्गात् । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यमित्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया । ततः- "अर्थेन घट्यत्येनां नहि मुक्त्वाऽर्थरूपताम् ।” इति यत्किञ्चिदेतत् । अपि च व्यस्ते समस्ते चैते ग्रहणकारणं स्याताम् । यदि व्यस्ते तदा कपालाद्यक्षणो घटान्त्यक्षणस्य जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः पामोति । तदुत्पत्तेस्तदाकारत्वाच्च । अथ समस्ते तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसञ्जात । ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरपूर्वज्ञानग्राहकत्वं प्रसज्येत । तन्न योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्यामः ॥२६॥ १ सन्दंश इति तप्तायोग्राहकः कारस्थोपकरणविशेषः । Page #62 -------------------------------------------------------------------------- ________________ सूत्र १-१-२७ _____३४ प्रमाण अवग्रहेहावायधारणात्मेत्युक्तामत्यवग्रहादीलंक्षयति॥अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः॥१-१-२७॥ __ अक्षमिन्द्रियं द्रव्यभावरूपम् अर्थो द्रव्यपर्यायात्मा तयोर्योगः सम्बन्धोऽनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणा योग्यता । नियता हि सा विषयविषयिणोः । यदाह " पुठं सुणेइ सई रूवं पुण पासइ अपुळं तु ।" इत्यादि । तस्मिन्नक्षार्थयोगे सति दर्शनमनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः । तदनन्तरमिति क्रमप्रतिपादनार्थमेतत् । एतेन दर्शनस्यावग्रहं प्रति पारिणामिककारणतोक्ता । नासत एव सर्वथा कस्यचिदुत्पादः, सतो वा सर्वथा विनाश इति दर्शनमेवोत्तरं परिणाम प्रतिपद्यते । अर्थस्य द्रव्यपर्यायात्मनोऽर्थक्रियाक्षमस्य ग्रहणं सम्यगेनिर्णय इति सामान्यलक्षणानुवृत्तेनिर्णयो न पुनरविकल्पकं दर्शनमात्रमवग्रहः । न चायं मानसो विकल्पः । चक्षुरादिसनिधानापेक्षत्वात् । प्रतिसंख्यानेनाप्रत्याख्येयत्वाच्च । मानसो हि विकल्पः प्रतिसङ्ख्यानेन निरुध्यते । न चायं तथेति न विकल्पः ॥ २७॥ ॥ अवगृहीतविशेषकाङ्क्षणमीहा ॥ १-१-२८॥ अवग्रहगृहीतस्य शब्दादेरर्थस्य किमयं शब्दः शाङ्खः शार्दो वेति संशये सति माधुर्यादयः शङ्खधर्मा एवोपलभ्यन्ते न कार्कश्यादयः शार्ङ्गधर्मा इत्यन्वयव्यतिरेकरूपविशेषपालोचनरूपा मतिश्चेष्टेहा । इह चावग्रहहयोरन्तराले अभ्यस्तेऽपि विषये संशयज्ञानमस्त्येव । आशुभावात्तु नोपलक्ष्यते । न तु प्रमाणम् । सम्यगनिर्णयात्मक___ १ अस्या उत्तरार्द्धम्- " गंधं रसं च फासं च बद्धपुटं वियागरे " ॥ विशेषावश्यकगाथा । संस्कृतच्छाया-" स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गंधं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ॥ ३३६॥ २ १-१-२। ३ शाङ्गस्य अयम् शारैः। Page #63 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-२२ त्वाभावात् । ननु परोक्षप्रमाणभेदरूपमूहाख्यं प्रमाणं वक्ष्यते तत्कस्तस्मादीहाया भेदः । उच्यते । त्रिकालगोचरः साध्यसाधनयोातिग्रहणपटुरूहः । यमाश्रित्य व्याप्तिग्रहणकाले योगवि सम्पद्यते प्रमातेति न्यायविदो वदन्ति । ईहा तु वार्त्तमानिकार्थविषया प्रत्यक्षप्रभेद इत्यपौनरुक्त्यम् । ईहा च यद्यपि चेष्टोच्यते तथापि चेतनस्य सेति ज्ञानरूपैवेति युक्तं प्रत्यक्षभेदत्वमस्याः । न चानिर्णयरूपत्वादप्रमाणत्वमस्याः शङ्कनीयम् । स्वविषये निर्णयत्वात् निर्णयान्तरासादृश्ये निर्णयान्तराणामप्यनिर्णयत्वप्रसङ्गः ॥२९॥ ॥ ईहितविशेषनिर्णयोऽवायः ॥ १-१-२९॥ ईहाक्रोडीकृते वस्तुनि विशेषस्य शाव एवायं शब्दो न शाई इत्येवंरूपस्यावधारणमवायः ॥२८॥ ॥ स्मृतिहेतुर्धारणा ॥ १-१-३०॥ स्मृतेरतीतानुसन्धानरूपाया हेतुः परिणामिकारणं संस्कार इति यावत् । सङ्ख्ययमसङ्ख्ययं वा कालं ज्ञानस्यावस्थानं धारणा । अवग्रहादयस्तु त्रय आन्तमौहूर्तिकाः। संस्कारस्य च प्रत्यक्षभेदरूपत्वात् ज्ञानत्वमुन्नेयम् । न पुनर्यथाहुः पैरे-' ज्ञानादतिरिक्तो भावनाख्योऽयं संस्कारः' इति । अस्य ह्यज्ञानरूपत्वे ज्ञानरूपस्मृतिजनकत्वं न स्यात् । नाहि सत्ता सत्तान्तरमनुविशति । अज्ञानरूपत्वे चास्यात्मधर्मत्वं न स्यात् । चेतनधर्मस्याचेतनत्वाभावात् । नन्वविच्युतिमाप धारणामन्वशिषन् वृद्धाः। यद्भाष्यकारः "अवि १ मुहूर्तः–घटिकाद्वयप्रमाणः कालविशेषः । मुहूर्त्तस्यान्तः अन्तर्मुहूर्त्तम् । इह " पारे मध्येऽन्तः षष्ठया वा" । इति हैमसूत्र ३-१-३०॥ इति विकल्पेनान्त:शब्दस्य प्राग् निपातो भवति । २ नैयायिकाः । ३ 'अविच्चुई धारणा तस्स' ॥१॥ विशेषावश्यकमूलद्वितीयगाथा । भाष्यगाथा १ । Page #64 -------------------------------------------------------------------------- ________________ सूत्र १-१-३० [प्रमाण चइ धारणा होइ" तत्कथं स्मृतिहेतोरेव धारणात्वमसूत्रयः । सत्यम् । अस्त्यविच्युतिर्नाम धारणा । किन्तु साऽवाय एवान्तर्भूतेति न पृथगुक्ता । अवाय एव हि दीर्घदीर्घोऽविच्युतिर्धारणेत्युच्यत इति । स्मृतिहेतुत्वाद्वाऽविच्युतिर्धारणयैव सङ्ग्रहीता। न ह्यवायमात्रादविच्युतिविरहितात् स्मृतिर्भवति । गच्छत्तृणस्पर्शप्रायाणामवायानां परिशीलनविकलानां स्मृतिजनकत्वादर्शनात् । तस्मात् स्मृतिहेतू अविच्युतसंस्कारावनेन सङ्ग्रहीतावित्यदोषः । यद्यपि स्मृतिरपि धारणाभेदत्वेन सिद्धान्तेऽभिहिता तथापि परोक्षप्रमाणभेदत्वादिह नोक्तेति सर्वमवदातस् । इह च क्रमभाविनामध्यवग्रहादीनां कथञ्चिदेकत्वमवसेयम् । विरुद्धधर्माध्यासो ह्येकत्वप्रतिपत्तिपरिपन्थी। न चासौ प्रमाणप्रतिपन्नेऽर्थे प्रत्यर्थितां भजते । अनुभूयते हि खलु हर्षविषादादिविरुद्धविवर्ताक्रान्तमेकं चैतन्यं विरुद्धधर्माध्यासाच्च बिभ्यद्भिरपि कथमेकं चित्रपटीयं ज्ञानमेकानेकाकारोल्लेखशेखरमभ्युपगम्यते सौगतैः चित्रं वा रूपं नैयायिकादिभिरिति ।नैयायिकस्तु 'इंन्द्रियार्थसन्निकर्षात्पन्नं ज्ञानमव्यपदेशमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ' इति प्रत्यक्षलक्षणमीक्षन्ते । अत्र च पूर्वाचार्यकृतव्याख्यावैमुख्येन सङ्ख्यावद्भिस्त्रिलोचनवाचस्पतिप्रमुखैरयमर्थः समर्थितो यथेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारि प्रत्यक्षमित्येवं प्रत्यक्षलक्षणं यतः शब्दाध्याहारेण च यत्तदोर्नित्याभिसम्बन्धादुक्तविशेषणविशिष्टं ज्ञानं यतो भवति तत्तथाविधज्ञानसाधनं ज्ञानरूपमज्ञानरूपं वा प्रत्यक्षं प्रमाणामिति । अस्य च फलभूतस्य द्वयी गतिरविकल्पकं सविकल्पकं वा । तयोरुभयोरपि प्रमाणरूपत्वमाभिधातुं विभागवचनमेतदव्यपदेश्यं व्यवसायात्मकमिति । तत्रोभयरूपस्यापि ज्ञानस्य प्रामाण्यमुपेक्ष्य यतः शब्दाध्याहारक्ले१ गौतमसूत्र १-१-४। Page #65 -------------------------------------------------------------------------- ________________ ३७ मीमांसा ] सूत्र १-१-३० शेनाऽज्ञानरूपस्य सत्रिकर्षादेः प्रामाण्यसमर्थनमयुक्तम् । कथं ह्यज्ञानरूपाः सन्निकर्षादयोऽर्थपरिच्छित्तौ साधकतमा भवन्ति । व्यभिचारात् सत्यपीन्द्रियार्थसन्निकर्षेऽर्थोपलब्धेरभावात् ज्ञाने सत्येव भावात् साधकतमं हि करणमव्यवहितफलं च तदिति । सन्निकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तर्हि स चक्षुषोऽर्थेन सह नास्ति । अप्राप्यकारित्वात्तस्य । दृश्यते हि काचाभ्रपटलस्फटिकादिव्यवहितस्यार्थस्य चक्षुषोपलब्धिः। अथ प्राप्यकारि चक्षुः। करणत्वाद्वास्यादिवदिति ब्रूषे । तयस्कान्ताकर्षणोपलेन लोहासनिकृष्टेन व्यभिचारः । न च संयुक्तसंयोगादिसन्निकर्षस्तत्र कल्पयितुं शक्यते । अतिप्रसङ्गादिति । सौगतास्तु प्रत्यक्षंकल्पनापोढमभ्रान्तम्' इति लक्षणमवोचन्। 'अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना तया रहितम्-तयापोढम्' इति । एतच्च व्यवहारानुपयोगित्वात्पमाणस्य लक्षणमनुपपन्नम् । तथा ह्येतस्माद्विनिश्चित्यार्थमर्थक्रियार्थिनस्तत्समर्थेऽर्थे प्रवर्तमाना विसंवादभाजो मा भूवनिति प्रमाणस्य लक्षणपरीक्षायां प्रवर्तन्ते परीक्षकाः । व्यवहारानुपयोगिनश्च तस्य वायससदसैद्दशनपरीक्षायामिव निष्फल: परिश्रमः निर्विकल्पोत्तरकालभाविनः सविकल्पकात्तु व्यवहारोपगमे वरं तस्यैव प्रामाण्यमास्थेयं किमविकल्पकेन र्शिखण्डिनेति । जैमिनीयास्तु धर्म प्रति अनिमित्तत्वव्याजेन “ सत्सम्प्रयोगे पुरुष १ न्यायबिन्दु प्रथम परिच्छेदे सूत्र ४. २ न्यायबिंदु प्रथम परिच्छेदे सूत्र ५. ३ एतत्समानम्-काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । गर्दभे कति रामाणीत्यषा मूर्खविचारणा ॥ १॥ ४ शिखण्डिन्-स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैव शिखण्डीति संज्ञया व्यवजहें । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान । सोऽपि च शिखण्डी पश्वादश्वत्थाम्ना हतः। ५ मीमांसादर्शन १-१-४. Page #66 -------------------------------------------------------------------------- ________________ सूत्र १-१-३० ___३८ ... [प्रमाण स्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ।” इत्यनुवादभङ्ग्या प्रत्यक्षलक्षणमाचक्षते । यदाहुः " एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत् ।” इति । व्याचक्षते च-इन्द्रियाणां सम्पयोगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति । अत्र संशयविपर्ययबुद्धिजन्मनोऽपीन्द्रियसंयोगे सति प्रत्यक्षत्वप्रसङ्गादतिव्याप्तिः। अथ सत्सम्पयोग इति सता सम्प्रयोग इति व्याख्यायते तर्हि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ सति सम्प्रयोग इति सत्सप्तमी पक्ष एव न त्यज्यते संशयविपर्ययनिरासाय च सम्पयोग इत्यत्र समित्युपसर्गो वर्ण्यते । यदाह संम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात् ॥” इति । तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कार्यतोऽवगतिर्वक्तव्या । कार्य च ज्ञानम् । न च तदविशेषितमेव प्रयोगसम्यक्त्वावगमनायालम् । न च तद्विशेषणपरमपरामिह पदमस्ति सतां सम्पयोग इति च वरं निरालम्बनविज्ञाननिवृत्तये सतीति तु सप्तम्यैव गतार्थत्वादनर्थकम् । 'येऽपि “ तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षं यद्विषयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षं यदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षम् ।” १ श्लोकवार्तिकसूत्र ४ श्लोक ३९ पूर्वार्धम् । २ श्लोकवार्तिकसूत्र ४ श्लोक ३९ उत्तरार्धम् । ३ श्लोकवार्तिकसूत्र ४ श्लोक ३९ उत्तरार्धम् । ४ मीमांसासूत्रवृत्तिकाराः । ५ मीमांसादर्शन पृष्ठ ६ पं. १७ । ६ तेनैव' इति पाठः। Page #67 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-३१ इत्येवं तत्सर्वतो व्यत्ययेन लक्षणमनवद्यमित्याहुः । तेषामाप क्लिष्टकल्पनैव संशयज्ञानेन व्यभिचारानिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्पयोग इन्द्रियाणामस्त्येव । यद्याप चोभयविषयं ज्ञानं संशयज्ञानं तथापि तयोरन्यतरेणेन्द्रियं संयुक्तमेव । उभयावमार्शत्वाच्च संशयस्य । येन संयुक्तं चक्षुस्तद्विषयमापि तज्ज्ञानं भवत्येवेति नातिव्याप्तिपरिहारः। अव्याप्तिश्च चाक्षुषज्ञानस्येन्द्रियसम्प्रयोगजत्वाभावात् । अप्राप्यकारि च चक्षुरित्युक्तप्रायम् । श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षमिति वृद्धसाङ्ख्याः । अत्र श्रोत्रादीनामचेतनत्वात्तवृत्तेः सुतरामचैतन्यमिति कथं प्रमाणत्वम् । चेतनसंसर्गात्तच्चैतन्याभ्युपगमे वरं चित्त एव प्रामाण्यमभ्युपगन्तुं युक्तम् । न चाविकल्पत्वे प्रामाण्यमस्तीति यत्किश्चिदेतत् । 'प्रतिविषयाध्यवसायो दृष्ट इति प्रत्यक्षलक्षणमितीश्वरकृष्णः। तदप्यनुमानेन व्यभिचरितत्वादलक्षणम् । अथ प्रतिराभिमुख्ये वर्तते तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षमित्युच्यते तदप्यनुमानेन तुल्यम् । घटोऽयमितिवदयं पर्वतोऽग्निमानित्याभिमुख्येन प्रतीतेः । अथ 'अनुमानादिविलक्षणो अभिमुखोऽध्यवसायः प्रत्यक्षम् । तर्हि प्रत्यक्षलक्षणमकरणीयमेव शब्दानुमानलक्षणविलक्षणतयैव तत्सिद्धेः। ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव विशेदः प्रत्यक्षम् इति प्रत्यक्षलक्षणमनवद्यम् ॥ ३०॥ प्रमाणविषयफलप्रमातृरूपेषु चतुर्पु विधिषु तत्त्वं परिसमाप्यते विषयादिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयातिप्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥१-१-३१॥ प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये प्रमाणस्येति १ सांस्यकारिका ५। २ १-१-१३। Page #68 -------------------------------------------------------------------------- ________________ सूत्र १-१-३१ [ प्रमाण प्रमाणसामान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थम् । जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षादीनां विषयो गोचरो द्रव्यपर्यायात्मकं वस्तु । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं धौव्य1 लक्षणम् । पूर्वोत्तरविवर्त्तवर्त्यन्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत् । परियन्त्युत्पादविनाशधर्माणो भवन्तीति पर्याया विवर्त्ताः । तच्च ते चात्मा स्वरूपं यस्य तद्रव्यपर्यायात्मकं वस्तु परमार्थसदित्यर्थः । यद्वाचकमुख्यः “ उत्पादव्ययधौव्ययुक्तं सद् " इति पारमर्षमपि “ उपणे इवा विगमे इवा धुवे इवा ” इति । तत्र द्रव्यपर्यायग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चान्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः । यच्छ्रीसिद्धसेनः " 3 46 दोहिं वि नएहिं नीयं, - सत्थमलूण्ण तहवि मिच्छत्तं । जं सविसयप्पहाण, तणेण अन्ननिरविक्खा " ॥ ३१ ॥ कुतः पुनर्द्रव्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमात्रं पर्यायमात्रमुभयं वा स्वतन्त्रमित्याह ४० ॥ अर्थक्रियासामर्थ्यात् ॥ १-१-३२ ॥ अर्थस्य हानोपादानादिलक्षणस्य क्रिया निष्पत्तिस्तत्र सामर्थ्यात् द्रव्यपर्यायात्मकस्यैव वस्तुनोऽर्थक्रियार्थसमर्थत्वादित्यर्थः ॥ ३२ ॥ यदि नामैवं ततः किमित्याह — ॥ तल्लक्षणत्वाद्वस्तुनः ॥ १-१-३३ ॥ तदर्थक्रियासामर्थ्य लक्षणमसाधारणं रूपं यस्य तत्तल्लक्षणं तस्य १ तत्त्वार्थाधिगमसूत्र ५-२९| २ छाया - उत्पद्यते वा विगच्छति ( नश्यति) वा ध्रुवयति वा । ३ संमतितर्क तृतीयकाण्डगाथा ४९ । Page #69 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-३३ भावस्तत्त्वं परमार्थसतो रूपस्य । अयमर्थः । अर्थक्रियार्थी हि सर्वः प्रमाणमन्वेषते अपि नामतः प्रमेयमर्थक्रियाक्षमं विनिश्चित्य कृतार्थो भवेयमिति । न व्यसनितया । तद्यदि प्रमाणविषयोर्थोऽर्थक्रियाक्षमो न भवेत्तदा नासौ प्रमाणपरीक्षणमाद्रियेत । यदाह-"अर्थक्रियासमर्थस्य विचारैः किं तदर्थनाम् । षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया" इति । तत्र न द्रव्यैकरूपोऽ र्थोऽर्थक्रियाकारी । स ह्यप्रच्युतानुत्पन्नस्थिरैकरूपः कथमर्थक्रियां कुर्वीत क्रमेणाक्रमेण वा । अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र न क्रमेण । स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् । समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तः। समर्थोऽपि तत्तसहकारिसमवधाने तं तमर्थ करोतीति चेत् । न तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात् । सापेक्षमसममिति हि किं नाश्रौषीः । न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तानपेक्षत इति चेत् । तत्कि स भावोऽसमर्थः । समर्थश्चेत् किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते न पुनर्झटिति घटयति । ननु समर्थमपि बीजमिलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथा । तत् किं तस्य सहकारिभिः किश्चिदुपक्रियत न वा । नो चेत् । स किं पूर्ववन्नोदास्ते । उपक्रियेत चेत् । स तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियेत इति निर्वचनियम् । अभेदे स एव क्रियते इति लाभामिच्छतो मूलक्षतिरायाता। भेदे स कथं तस्योपकारः । किं न सह्यविन्ध्यादेरापि, तत्सम्बन्धात्तस्यायमिति चेत् । उपकार्योपकारयोः कः सम्बन्धः । न संयोगो द्रव्ययोरेव तस्य भावात् । नापि समवायत्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतसम्बन्धिसम्बन्धत्वं युक्तम् । तत्त्वे १ इला-पृथिवी । उत्तमा मृदित्यर्थः । --- Page #70 -------------------------------------------------------------------------- ________________ सूत्र १-१-३३ [ प्रमाण वा तत्कृत उपकारोऽस्याभ्युपगन्तव्यः तथा च सत्युपकारस्य भेदाभेद कल्पना तदवस्यैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धि सम्बन्धत्वम् । सम्बन्धत्वे समवायस्य विशेषण विशेष्यभावो हेतुरिति चेत् । उपकार्योपकारकभावाभावे तस्यापि प्रतिनियमहेतुत्वाभावात् । उपकारे तु पुनर्भेदाभेदविकल्पद्वारेण तदेवावर्तते । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । नाप्यक्रमेण । न ह्येको भावः सकलकालकलाभाविनीर्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा तथापि द्वितीयक्षणे किं कुर्यात् । करणे वा क्रमपक्षभावी दोषः । अकरणेऽनर्थक्रियाकारित्वादवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिबलात् व्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्त - यति तदपि स्वव्याप्यं सत्त्वमित्यसन् द्रव्यैकान्तः । पर्यायैकान्तरूपोऽपि प्रतिक्षणविनाशी भावो न क्रमेणार्थक्रियासमर्थो देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशकालक्रमश्चाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहुः “ यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ।। " न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति । सन्तानस्यावस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणभ्यः कश्चिद्विशेषः । अथाक्षाणकत्वं न सुस्थितः पर्यायैकान्तवादः । यदुक्तम् “ अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उत्तिष्ठ भिक्षो फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ॥ इति । नाप्यक्रमेण क्षणिकेऽर्थक्रिया सम्भवति । स ह्येको रूपा - दिक्षणो युगपदनेकान् रसादिक्षणान् जनयन् यद्येकेन स्वभावेन जनयेत्तदा तेषामेकत्वं स्यादेकस्वभावजन्यत्वात् । अथ "" ४२ Page #71 -------------------------------------------------------------------------- ________________ मीमांसा ] ४३ सूत्र १-१-३३ नानास्वभावैर्जनयाते किञ्चिदुपादानभावेन किश्चित् सहकारित्वेन । ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा । अनात्मभूताश्चेत् स्वभावहानिः । यदि तस्यात्मभूतास्तर्हि तस्यानेकत्वं स्वभावानां चैकत्वं प्रसज्येत । अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते । तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्य च माभूत् । अथाक्रमात् क्रमिणामनुत्पत्तेर्नैवमिति चेत् । एकानंशकारणाद्युगपदनेककारणसाध्यानेककार्यविरोधात् क्षणिकानामप्यक्रमेण कारित्वं मा भूदिति पर्यायैकान्तादपि क्रमाक्रमयोर्व्यापकयोर्निवृत्त्यैव व्याप्यार्थक्रियापि व्यावर्तते । तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्यसन् पर्यायैकान्तोऽपि । काणादास्तु द्रव्यपर्यायावुभावप्यभ्युपागमन् । पृथिव्यादीनि गुणाद्याधाररूपाणि द्रव्याणि । गुणादयस्त्वाधेयत्वात्पर्यायाः । ते च केचित् क्षणिकाः। केचिद्यावद्रव्यभाविनः कोचनित्या इति केवलमितरेतरविनिर्लुठितधर्मिधर्माभ्युपगमान्न समीचीनविषयवादिनः । तथाहि यदि द्रव्यादत्यन्तविलक्षणं सत्त्वं तदा द्रव्यमसदेव भवेत् । सत्तायोगात् सत्त्वमस्त्येवेति चेत् । असतां सत्तायोगेऽपि कुतः सत्त्वम् । सतां तु निष्फलः सत्तायोगः । स्वरूपसत्त्वं भावानामस्त्येवेति चेत् तर्हि किं शिखण्डिना सत्तायोगेन । सत्तायोगात् प्राग्भावो न सन्नाप्यसन् । सत्तासम्बन्धात्तु सन्निति चेत् वाङ्मात्रमेतत् । सदसद्विलक्षणस्य प्रकारान्तरस्यासम्भवात् । अपि च पदार्थ : सत्ता योग इति न त्रितयं चकास्ति । पदार्थसत्तयोश्च योगो यदि तादात्म्यं तदनभ्युपगमबाधितम् । अत एव न संयोगः समवायस्त्वनाश्रित इति सर्वं सर्वेण सम्बध्नीयान्न वा किंचित् केनचित् । एवं द्रव्यगुणकर्मणां द्रव्यत्वादिभिर्द्रव्यस्य द्रव्यगुणकर्मसामान्य १ पृष्ठ ३७ । Page #72 -------------------------------------------------------------------------- ________________ सूत्र १-१-३३ [ प्रमाण विशेषैः पृथिव्यप्तेजोवायूनां, पृथिवीत्वादिभिराकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं सर्वमभिधानीयम् । एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौलूक्यपक्षेऽपि विषयव्यवस्था । ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनस्तदवस्थमेव दौस्थ्यम् । तथाहि द्रव्यपर्याययोरैकान्तिकभेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादः स्याद्वादिभिरुपेयते । न चासौ युक्तो विरोधादिदोषात् । विधिप्रतिषेधरूपयोरेकत्र वस्तुन्यसम्भवान्नीलानीलवत् । १ अथ केनचिद्रूपेण भेदः केनचिदभेदः । एवं सति भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् । २ यं वात्मानं पुरोधाय भेदो यं चाश्रित्याभेदस्ताप्यात्मानौ भिन्नाभिन्नावन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था ३ येन च रूपेण भेदस्तेन भेदाभेदश्च येन चाभेदस्तेनाप्यभेदश्व भेद सङ्करः । ४ येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः । ५ भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः संशयः । ६ ततश्चाप्रतिपत्तिरिति न विषयव्यवस्था । नैवम् । प्रतीयमाने वस्तुनि विरोधस्यासम्भवात् । यत्सन्निधाने यो नोपलभ्यते स तस्य विरोधीति निश्चीयते । उपलभ्यमाने च वस्तुनि को विरोधगन्धावकाशः | नीलानीलयोरपि यद्येकत्रोपलम्भोऽस्ति तदा नास्ति विरोधः । एकत्र चित्रपटीज्ञाने सौगतैनीलानीलयोर्विरोधाभ्युपगमात्, योगैश्चैकस्य चित्रस्य रूपस्याभ्युपगमात् एकस्यैव पटादेश्वलाचलरक्तारक्तावृतानानृतादिविरुद्धधर्माणामुपलब्धेः प्रकृते को विरोधशङ्कावकाशः । एतेन वैयाधिकरण्यदोषोऽप्यपास्तः । तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा प्रतीतेः । यदप्यनवस्थानं दूषणमुपन्यस्तम् । तदप्यनेकान्तवादिमतानभिज्ञेनैव तन्मतम् । द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावेव भेदः भेदध्वनिका तयोरेवाभिधानात् १ नैयायिकमते । ४४ Page #73 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-३४ द्रव्यरूपेणाभेदः इति द्रव्यमेवाभेदः । एकानेकात्मकत्वाद्वस्तुनः । यौ च सङ्करव्यतिकरौ तौ मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहृतौ । अथ तत्र तथाप्रतिभास: समाधानं परस्यापि तदेवास्तु प्रतिभासस्यापक्षपातित्वात् । निर्णीते चार्थे संशयोऽपि न युक्तः तस्य सकम्पप्रतिपत्तौ दुर्घटत्वात् प्रतिपन्ने च वस्तुन्यप्रतिपत्तिरिति साहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धं द्रव्यपर्यात्मकं वस्त्विति ॥ ३३ ॥ ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनः कथमर्थक्रिया नाम । सा हि क्रमाक्रमाभ्यां व्याप्ता । द्रव्यपर्यायैकान्तवदुभयात्मकादपि व्यावर्त - ताम् । शक्यं हि वक्तुमुभयात्मा भावो न क्रमेणार्थक्रियां कर्तुं समर्थः । समर्थस्य क्षेपायोगात् । न च सहकार्यपेक्षा युक्ता । द्रव्यस्यापि कार्यत्वेन सहकारिकृतोपकारनिरपेक्षत्वात् । पर्यायाणां च क्षणिकत्वेन पूर्वापरकार्यकालाप्रतीक्षणात् । नाप्यक्रमेण युगपद्धि सर्वकार्याणि कृत्वा पुनरकुर्वतोऽनर्थक्रियाकारित्वादसत्त्वं कुर्वतः क्रमपक्षभावी दोषः । द्रव्यपर्यायवादयोश्च यो दोषः स उभयवादेऽपि समानः । “ प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न सः । " इति वचनादित्याह - ४५ ॥ पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियोपपत्तिः ॥ १-१-३४ ॥ पूर्वोत्तरयोराकारयोर्विवर्तयोर्यथासङ्घयेन यौ परिहारस्वीकारौ ताभ्यां स्थितिः सैव लक्षणं यस्य स चासौ परिणामश्च । एतेनास्य द्रव्यपर्यायात्मकस्यार्थक्रियोपपद्यते अयमर्थः । न द्रव्यरूपं न पर्यायरूपं नोभयरूपं वस्तु । येन तत्तत्पक्षभावी दोषः स्यात् । किं तु १ दृष्टेइष्टाविरुद्धं दृष्टं च तत् इष्टं च तदविरुद्धं चेति विशेषणत्रयात्मकः कर्मधारयः । २ काल विलम्बाभावात् । Page #74 -------------------------------------------------------------------------- ________________ सूत्र १-१-३४ ४६ [ प्रमाण स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु । तेन तत्तत्सहकारिसन्निधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वतः सहकारिकृतां चोपकारपरम्परामुपजीवतो भिन्नाभिन्नोपकारादिनोदनानुमोदनाप्रभुदितात्मन: उभयपक्षभाविदोषशङ्काकलङ्काकन्दिशीकस्य भावस्य न व्यापकानुपलब्धिबलेनार्थक्रियाया, नापि तद्व्याप्यस्य सत्त्वस्य निवृत्तिरिति सिद्धम् । द्रव्यपर्यायात्मकं वस्तु प्रमाणस्य विषयः ॥३४॥ फलमाह ॥ फलमर्थप्रकाशः ॥ १-१-३५॥ प्रमाणस्येति वर्तते प्रमाणस्य फलमर्थप्रकाशोऽर्थसंवेदनम् । अर्थार्थी हि सर्वः प्रमातेत्यर्थसंवेदनमेव फलं युक्तम् । नन्वैवं प्रमाणमेव फलत्वेनोक्तं स्यात् । ओमिति चेत् तर्हि प्रमाणफलयोरभेदः । स्यात् । ततः किं स्यात् । प्रमाणफलयोरैक्ये सदसत्पक्षभावी दोषः स्यात् । नासतः करणत्वं न सतः फलत्वम् । सत्यमस्त्ययं दोषो जन्मनि न व्यवस्थायाम् यदाहुः । “नासतो हेतुता नापि सतो हेतोः फलात्मता । इति जन्मनि दोषः स्याद्व्यवस्था तु न दोषभागू " ॥ १ ॥ इति ॥ ३५ ॥ व्यवस्थामेव दर्शयति— ॥ कर्मस्था क्रिया ॥ १-१-३६॥ कर्मोन्मुखो ज्ञानव्यापारः फलम् ॥ ३६ ॥ प्रमाणं किमित्याह - ॥ कर्तृस्था प्रमाणम् ॥ १-१-३७॥ कर्तृव्यापारमुल्लिखन् बोधः प्रमाणम् ॥ ३७ ॥ १ " कान्दिशीको भयद्रुते " इति ( अभिधानचिन्तामणिः ) ३ - ३० । २ ओमित्यङ्गीकारे । अङ्गीक्रियते चेदित्यर्थः । Page #75 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-१-४० कथमस्य प्रमाणत्वं करणं हि तत् । साधकतमं च करणमुच्यते । अव्यवहितफलं तदित्याह॥ तस्यां सत्यामर्थप्रकाशसिद्धेः ॥ १-१-३८॥ तस्यामिति कर्तृस्थायां प्रमाणरूपायां क्रियायां सत्यामर्थप्रकाशस्य फलस्य सिद्धेर्व्यवस्थापनात् एकज्ञानगतत्वेन प्रमाणफलयोरभेदो व्यवस्थाप्यव्यवस्थापकभावात्तु भेद इति भेदाभेदरूपः स्याद्वादमबाधितमनुपतात प्रमाणफलभाव इतीदमाखिल प्रमाणसाधारणमव्यवहितं फलमुक्तम् ॥ ३८ ॥ अव्यवहितमेव फलान्तरमाह ॥अज्ञाननिवृचिर्वा ॥ १-१-३९ ॥ प्रमाणप्रवृत्तेः पूर्व प्रमातुर्विक्षिते विषये यदज्ञानं तस्य निवृत्तिः फलमित्यन्ये । यदाहुः "प्रेमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः॥" इति ॥ ३९॥ व्यवहितमाह॥ अवग्रहादीनां वा क्रमापेक्षजननधर्माणां पूर्वं पूर्व प्रमाणमुत्तरमुत्तरं फलम् ॥ १-१-४०॥ अवग्रहहावायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां यद्यत् पूर्व तत्तत्प्रमाणं यद्यदुत्तर तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् ह्यात्मा ईहारूपफलतया परिणमति । इतीहाफलापेक्षया अवग्रहः प्रमाणम् । ततोऽपीहा प्रमाणमवायः फलम् । पुनरवायः प्रमाणं धारणा फलम् । ईहाधारणयोोनोपादानत्वात् ज्ञानरूपत्तोनेया । ततो धारणा प्रमाणं स्मृतिः १ न्यायावतारश्लोक २८ । Page #76 -------------------------------------------------------------------------- ________________ सूत्र १-१-४० [प्रमाण फलम् । ततोऽपि स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलम्। ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलम् । ततोऽप्यूहः प्रमाणमनुमानं फलमिति प्रमाणफलविभाग इति ॥ ४० ॥ फलान्तरमाह ॥ हानादिबुद्धयो वा ॥ १-१-४१॥ हानोपादानोपेक्षाबुद्धयो वा प्रमाणस्य फलम् । फलबहुत्वप्रतिपादनं सर्वेषां फलत्वेन न विरोधो वैवक्षिकत्वात् फलस्येति प्रतिपादनार्थम् ॥ ४१॥ एकान्तभिन्नाभिन्नफलवादिमतपरीक्षार्थमाह ॥ प्रमाणाद्भिन्नाभिन्नम् ॥ १-१-४२॥ करणरूपत्वात् क्रियारूपत्वाच्च प्रमाणफलयोर्भेदः । अभेदे प्रमाणफलभेदव्यवहारानुपपत्तेः प्रमाणमेव वा फलमेव वा भवेत् । अप्रमाणायावृत्त्या प्रमाणव्यवहारः, अफलाघ्यावृत्त्या च फलव्यवहारो भाविष्यतीति चेत् । नैवम् । एवं सति प्रमाणान्तराठ्यावृत्त्याऽप्रमाणव्यवहारः, फलान्तराद्व्यावृत्त्याऽफलत्वव्यवहारोऽप्यस्तु विजातीयादिव सजातीयादपि व्यावृत्तत्वाद्वस्तुनः । तथा तस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः । भेदे त्वात्मान्तरवत्तदनुपपत्तिः । अथ यत्रैवात्मान प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणया प्रत्यासत्त्या प्रमाणफलव्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत् । न । समवायस्य नित्यत्वाव्यापकत्वानियतात्मवत्सर्वात्मस्वप्याविशेषान्न ततो नियतप्रमातृसम्बन्धप्रतिनियमः तत्सिद्धमेतत् प्रमाणात्फलं कथञ्चिद्भिन्नमभिन्नं चति ॥ ४२ ॥ प्रमातारं कथयति Page #77 -------------------------------------------------------------------------- ________________ मीमांसा ] ४९ सूत्र १-१-४३ ॥स्वपराभासी परिणाम्यात्मा प्रमाता॥ १-१-४३॥ स्वमात्मानं परं चार्थमाभासयितुं शीलं यस्य स स्वपराभासी स्वोन्मुखतयाऽर्थोन्मुखतया चावभासनात् घटमहं जानामीति कर्मकर्तृक्रियाणां प्रतीतेः । अन्यतरप्रतीत्यपलापे प्रमाणाभावात् । न च परप्रकाशकत्वस्य स्वप्रकाशकत्वेन विरोधः प्रदीपवत् । नहि प्रदीपः स्वप्रकाशे परमपेक्षते । अनेनैकान्तस्वाभासिपराभासिवादिमतनिरासः। स्वपराभास्येवात्मा प्रमाता । तथा परिणाम उक्तलक्षणः स विद्यते यस्य स परिणामी । कूटस्थनित्ये ह्यात्मनि हर्षविषादसुखदुःखभोगादयो विवर्ताः प्रवृत्तिनिवृत्तिधर्माणो न वर्तेरन् । एकान्तनाशिनि च कृतनाशाकृताभ्यागमौ स्याताम् । स्मृतिप्रत्यभिज्ञाननिहितप्रत्युन्मार्गणप्रभृतयश्च प्रतिप्राणि प्रतीताव्यवहारा विशीर्येरन् । परिणामिनि तूत्पादव्ययध्रौव्यधर्मण्यात्मनि सर्वमुपपद्यते । यदाहुः “ यथाहेः कुण्डलावस्था व्यपैति तद्नन्तरम् । सम्भवत्यार्जवावस्था सर्पत्वं त्वनुवर्तते ॥ तथैव नित्यचैतन्यस्वरूपस्यात्मनो हि न । निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥ किं त्वस्य विनिवर्तन्ते सुखदुःखादिलक्षणाः । अवस्थास्ताश्च जायन्ते चैतन्यं त्वनुवतेते ॥ स्यातामत्यन्तनाशे हि कृतनाशाकृतागमौ । सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥ न च कर्तृत्वभोतत्वे पुंसोऽवस्थांसमाश्रिते।ततोऽवस्थावतस्तत्त्वात् कतैवाप्नोति तत्फलम्" इति अनेकान्तनित्यानित्यवादव्युदासः। आत्मेत्यनात्मवादिनो व्युदस्यति । कायप्रमाणता त्वात्मनः प्रकृतानुपयोगानोक्तेति सुस्थितं प्रमातृलक्षणम् ॥ ४३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तवृत्तेश्च प्रथमस्याध्यायस्य प्रथममाह्निकम् ॥ प्रथमस्य प्रथमाह्निकम् ॥ . १ कूटं गिरिशृङ्गं तदिवतिष्ठतीति ।। Page #78 -------------------------------------------------------------------------- ________________ सूत्र १-२-१ ५० [ प्रमाण इहोद्दिष्टे प्रत्यक्ष परोक्षलक्षणे प्रमाणद्वये लाक्षतं प्रत्यक्षम् । इदानीं परोक्षलक्षणमाह ॥ अविशदः परोक्षम् ॥ १-२-१॥ सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सम्यगर्थनिर्णय इत्यनुवर्तते । तेनाविशदः सम्यगर्थनिर्णयः परोक्षप्रमाणमिति ॥१॥ विभागमाह ॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥ १-२-२ ॥ तादति परोक्षस्य परामर्शस्तेन परोक्षस्यैते प्रकारा न तु स्वतन्त्राणि प्रमाणान्तराणि प्रक्रान्तप्रमाणसङ्ख्याविघातप्रसङ्गात् । ननु स्वतन्त्राण्येव स्मृत्यादीनि प्रमाणानि किं नोच्यन्ते किमनेन द्रविडेमण्डकभक्षणन्यायेन । मैवं वोचः । परोक्षलक्षणसङ्ग्रहीतानि परोक्षप्रमाणान्न विभेदवर्तानि । यथैव हि प्रत्यक्षलक्षणसङ्ग्रहीT तानीन्द्रियज्ञानमानसस्वसंवेदनयोगिज्ञानानि सौगतानां न प्रत्यक्षादतिरिच्यन्ते । तथैव हि परोक्षलक्षणाक्षिप्तानि स्मृत्यादीनि न मूलप्रमाणसङ्ख्यापरिपन्थीनी इति स्मृत्यादीनां पञ्चानां द्वन्द्वः ॥ २ ॥ तत्र स्मृतिं लक्षयति— ॥ वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥ १-२-३ ॥ वासना संस्कारस्तस्या उद्बोधः प्रबोधस्तद्धेतुका तन्निबन्धना १ द्रविडदेशस्था हि सर्वमन्नमेकीकृत्य भुञ्जते सुरसान्नं मण्डकमपि तत्रैव मिश्रयन्ति तेन मण्डस् स्वरुचिविघातस्तद्वदित्यर्थः । Page #79 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-२-३ . "कालमसंखं संखं च धारणा होइ नायव्वा” इति वचनाचिरकालस्थायिन्याप वासनाऽनुद्बुद्धा न स्मृतिहेतुः । आवरणक्षयोपशमसदृशदर्शनादिसामग्रीलब्धप्रबोधा तु स्मृतिं जनयतीति वासनोद्बोधहेतुकेत्युक्तम् । अस्या उल्लेखमाह तदित्याकारा सामान्योक्तौ नपुंसकनिर्देशस्तेन स घटः सा पटी तत्कुण्डलमित्युल्लेखवती मतिः स्मृतिः । सा च प्रमाणम् । अविसंवादित्वात् । स्वयं निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । नन्वनुभूयमानस्य विषयस्याभावानिरालम्बना स्मृतिः कथं प्रमाणम् । नैवम् । अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूताविषयत्वादप्रामाण्यं प्रसज्येत । स्वविषयावभासनं स्मृतरप्यविशिष्टम् । विनष्टो विषयः कथं स्मृतेर्जनकस्तथाचार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत् । तत् किं प्रमाणान्तरेऽप्यर्थजन्यत्वमविसंवादहेतुरिति विप्रलब्धोऽसि । मैवं मुहः । यथैव हि प्रदीपः स्वसामग्रीबललब्धजन्मा घटादिभिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्धजन्म संवेदनं विषयमवभासयति । नाननुकृतान्वयव्यतिरेकं कारणं, नाकारणं विषय इति तु प्रलापमात्रम् । योगिज्ञानस्पतीतानागतार्थगोचरस्य तदजन्यस्यापि प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किं च स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः। तया व्याप्तेरविषयीकरणे तदुत्थानायोगात् । लिङ्गग्रहणसम्बन्धस्मर १ अस्याः पूर्वार्धम्-' उग्गहो एक्कं समयं ईहा-वाया मुहुत्तमंतं ( मद्धं ) तु'। विशेषावश्यकगाथा ३३३ । संस्कृतछाया-अवग्रह एकं समयमीहाऽपायौ मुहूर्तान्तस्तु । कालमसंख्यं संख्यं च धारणा भवति ज्ञातव्या ॥ ३३३ ॥ २ तु स्मृतिमित्यत्र- अनुस्मृतिम् ' इति पाठः३ अत्र कुण्डमिति क्वचित्पाठः । ४ क्वचित् ' मतिः ' इति नास्ति । Page #80 -------------------------------------------------------------------------- ________________ सूत्र १-२-३ - ५२ [ प्रमाण णपूर्वकमनुमानमिति हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणमनुमानप्रामाण्यान्यथानुपपत्तोति सिद्धम् ॥ ३॥ अथ प्रत्यभिज्ञानं लक्षयति॥दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥ १-२-४॥ - दर्शनं प्रत्यक्षं, स्मरणं स्मृतिस्ताभ्यां सम्भवो यस्य तत्तथा दर्शनस्मरणकारणकं सङ्कलनाज्ञानं प्रत्यभिज्ञानम् । तस्योल्लेखमाह तदेवेदं सामान्यनिर्देशेन नपुंसकत्वं स एवायं घटः सैवेयं पटी तदेवेदं कुण्डमिति तत्सदृशः गोसदृशो गवयः तद्विलक्षणो गोविलक्षणो महिषः तत्प्रतियोगी इदमस्मादल्पं महत् दूरमासन्नं वेत्यादि । आदिग्रहणात् " रोमशोदन्तुरः श्यामो वामनः पृथुलोचनः । यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयेः॥ पयोम्बुभेदी हंसः स्याषट्पदैर्धमरः स्मृतः । सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥ पञ्चवर्ण भवेद्रत्नं मेचकाख्यं पृथुस्तनी। युवतिश्चैकशृंगोऽपि गण्डकः परिकीर्तितः॥" इत्येवमादिशब्दश्रवणात्तथाविधानेव चैत्रहंसादीनवलोक्य तथा वचनं सत्यापयति यदा तदा तदपि सङ्कलनमुक्तम् । दर्शनस्मरणसम्भवत्वाविशेषात् । यथा वा औदीच्येन क्रमेलकं निन्दतोक्तं धिक्करभमतिदीर्घवऋग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमयमर्थोऽस्य करभशब्दस्यति तदपि दर्शनस्मरणकारणकत्वात् सङ्कलनाज्ञानं प्रत्यभिज्ञानम् । येषां तु सादृश्यविषयमुपमानाख्यं १ - सिद्धम् ' इति क्वचित्पुस्तके नास्ति । २ — वचनं ' क्वचित्पुस्तके नास्ति । .. . Page #81 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-२-३ प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं प्रमाणान्तरमनुषज्येत । यदाहुः "उपमानं प्रसिद्धार्थसाधर्म्यात् साध्यसाधनम् । तद्वैध ात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम्॥इदमल्पं महदरमासन्नं प्रांशु नेति वा । व्यपेक्षातःसमक्षेऽर्थे विकल्पः साधनान्तरम्" । इति । अथ साधर्म्यमुपलक्षणं योगविभागो वा करिष्यत इति चेत् । तद्यकुशलः सूत्रकारः स्यात् । सूत्रस्य लक्षणरहितत्वात् , यदाहुः अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः"। अस्तोभमनधिकम् । ननु तदिति स्मरणमिदमित प्रत्यक्षमिति ज्ञानद्वयमेव न ताभ्यामन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमुत्पश्यामः । नैतद्युक्तम् । स्मरणप्रत्यक्षाभ्यां प्रत्याभज्ञाविषयस्यार्थस्य ग्रहीतुमशक्यत्वात् । पूर्वापराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानस्य विषयः। न च तत्स्मरणस्य गोचरस्तस्यानुभूतविषयत्वात् । यदाहुः " पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः। स एवायमितीयं तु प्रत्यभिज्ञातिरेकिणी ॥१॥" नापि प्रत्यक्षस्य । तस्य विवर्त्तमात्रवृत्तित्वात् । न च दर्शनस्मरणाभ्यामन्यद ज्ञानं नास्ति । दर्शनस्मरणोत्तरकालभाविनो ज्ञानान्तरस्यानुभूतेः । न चानुभूयमानस्यापलापो युक्तः। अतिप्रसङ्गात् । ननु प्रत्यक्षमेवेदं प्रत्यभिज्ञानमित्येके। नैवम् । तस्य सन्निहितवार्तमानिकाविषयत्वात् “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना" इति मा स्म विस्मरः । ततो नातीतवर्तमानयोरेकत्वमध्यक्षज्ञानगोचरः। अथ स्मरणसहकृतमिन्द्रियं तदेक १ प्रवृत्तेति क्वचित्पाठः। २ ' प्रत्यक्षे गोचरस्तस्य । वर्तमानविवर्तमात्रवृत्तित्वात् ' । इति क्वचित्पाठः । ३ मीमांसाश्लोकवार्तिकसूत्र ४ श्लोक ८४ । .. Page #82 -------------------------------------------------------------------------- ________________ सूत्र १-२-४ ५४ [प्रमाण त्वविषयं प्रत्यक्षमुपजनयतीति प्रत्यक्षरूपतास्य गीयत इति चेत् । न । स्वविषयविनियमितमूर्तोरिन्द्रियस्य विषयान्तरेऽसहकारित्वात् समवधानेऽप्यप्रवृत्तेः । नहि परिमलस्मरणसहायमाप चक्षुरिन्द्रियमविषये गन्धादौ प्रवर्त्तते अविषयश्चातीतवर्तमानावस्थाव्याप्येकं द्रव्यमिन्द्रियाणाम् । नाप्यदृष्टसहकारिसहितामिन्द्रियमकत्वाविषयामिति वक्तुं युक्तम् । उक्तादेव हेतोः । किं चादृष्टसव्यपेक्षादेवात्मनस्तद्विज्ञानं भवतीति वरं वक्तुं युक्तम् । दृश्यते हि स्वमविद्यासंस्कृतादात्मनो विषयान्तरेऽपि विशिष्टज्ञानोत्पत्तिः । ननु यथाञ्जनादिसंस्कृतं चक्षुः सातिशयं भवति तथा स्मरणसहकृतमेकत्वविषयं भविष्यति । नैवम् । इन्द्रियस्य स्वविषयानतिलङ्घनेनैवातिशयोपलब्धेर्न विषयान्तरग्रहणरूपेण । यदाह भट्टः " यंत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ स्यात् न रूपे श्रोत्रवृत्तिताः" ॥ इति तत् स्थितमेतत् विषयभेदात्प्रत्यक्षादन्यत्परोक्षान्तर्गतं प्रत्यभिज्ञानमिति । न चैतदप्रमाणम् । विसंवादाभावात् कचिद्विसंवादादप्रामाण्ये प्रत्यक्षस्यापि तथा प्रसङ्गो दुर्निवारः। प्रत्यभिज्ञानपरिच्छिन्नस्य चात्मादीनामेकत्वस्याभावे बन्धमोक्षव्यवस्था नोपपद्यते । एकस्यैव हि बद्धत्वे मुक्तत्वे सैति च बद्धो दुःखितमात्मानं जानन् मुक्तिसुखार्थी प्रयतेत । भेदे त्वन्य एव दुःख्यन्य एव मुखीति कः किमर्थ वा प्रयतेत । तस्मात्सकलस्य दृष्टव्यवहारस्यैक १ ' विषयान्तरेऽसहकारिशतं ' इति क्वचित्पाठः । २ मीमांसाश्लोकवार्त्तिक सूत्र २ श्लोक ११४ । ३ क्वचित् ' सति' इति नास्ति । ४ ' तत् प्रयतते' इति क्वचित्पाठः । . ५ ' दृष्टादृष्ट ' इति क्वचित्पाठः । Page #83 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-२-५ त्वमूलत्वादेकत्वस्य च प्रत्यभिज्ञायत्तजीवनत्वाद्भवति प्रत्याभिज्ञा प्रमाणमिति ॥४॥ अथोहस्य लक्षणमाह॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥१-२-५॥ उपलम्भः प्रमाणमात्रमत्र गृह्यते । न प्रत्यक्षमेव । अनुमेयस्यापि साधनस्य सम्भवात् । प्रत्यक्षवदनुमेयेष्वपि व्याप्तेरविरोधात् । व्याप्तिर्वक्ष्यमाणा तस्या ज्ञानं तद्ग्राही निर्णयविशेष ऊहः। न चायं व्याप्तिग्रहः प्रत्यक्षादेवेति वक्तव्यम् । नहि प्रत्यक्षं यावान् कश्चिद्धमः स देशान्तरे पावकस्यैव कार्य नार्थान्तरस्येतीयतो व्यापारान् कर्तुं समर्थम् । सन्निहितविषयबलोत्पत्तेरविचारकत्वाच । नाप्यनुमानात् । तस्यापि व्याप्तिग्रहणकाले योगीव प्रमाता सम्पद्यत इत्येवंभूतभारासमर्थत्वात् । सामर्थेऽपि प्रकृतमेवानुमानं ब्याप्तिग्राहकमनुमानान्तरं वा । तत्र प्रकृतानुमानात् व्याप्तिप्रतिपत्तावितरेतराश्रयः । व्याप्तौ हि प्रतिपन्नायामनुमानमात्मानमासादयति तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरात्तु व्याप्तिप्रतिपत्तावनवस्था । तस्यापि गृहीतव्याप्तिकस्यैव प्रकृतानुमानव्याप्तिग्राहकत्वात् । तद्व्याप्तिग्रहश्च यदि स्वत एव तदा पूर्वेण किमपराद्धं येनानुमानान्तरं मृग्यते । अनुमानान्तरेण चेत्तर्हि युगसहस्रेष्वपि व्याप्तिग्रहणासम्भवः । ननु याद निर्विकल्पकं प्रत्यक्षमाविचारकम् । तर्हि तत्पृष्ठभावी विकल्पो व्याप्तिं ग्रहीष्यतीत चेत् । नैतत् निर्विकल्पकेन व्याप्तेरग्रहणे विकल्पेन ग्रहीतुमशक्यत्वात् । निर्विकल्पकगृहीतार्थविषयत्वाद्विकल्पस्य । अथ निर्विकल्पविषयनिरपेक्षोऽ १ ' जीवितत्वात् ' इति पाठः । Page #84 -------------------------------------------------------------------------- ________________ सूत्र १-२-५ ५६ [ प्रमाण र्थान्तरगोचरो विकल्पः तर्हि स प्रमाणमप्रमाणं वा । प्रमाणत्वे न प्रत्यक्षानुमानातिरिक्तं प्रमाणान्तरं तितिक्षितव्यम् । अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धा षण्डात्तनयदोहदः। एतेनानुपलम्भाच्च कार्यकारणव्याप्यव्यापकभावावगम इति प्रत्युक्तम् । अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणव्यापकानुपलम्भयोश्च लिङ्गत्वेन तज्जनितस्य तस्यानुमानत्वात् । प्रत्यक्षानुमानाभ्यां च व्याप्तिग्रहणदोषस्याभिहितत्वात् । वैशेषिकास्तु प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्यातिप्रतिपत्तिरित्याहुः। तेषामप्यध्यक्षफलस्य प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणम् । तदन्यत्वे च प्रमाणान्तरत्वप्रसक्तिः। अथ व्याप्तिविकल्पस्य फलत्वान्न प्रमाणत्वमनुयोक्तुं युक्तम् । नैतत् । फलस्यानुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् सन्निकर्षफलस्य विशेषणज्ञानस्येव विशेष्यज्ञानापेक्षयेति । यौगास्तु 'तर्कसहितात्प्रत्याक्षादेव व्याप्तिग्रह' इत्याहुः। तेषामपि यदि न केवलात् प्रत्यक्षाव्याप्तिग्रहः । किं तु तर्कसहकृतात्तर्हि तर्कादेव व्याप्तिग्रहोऽस्तु । किमस्य तपस्विनो यशोमार्जनेन , प्रत्यक्षस्य वा तर्कप्रसादलब्धव्याप्तिग्रहापलापकृतघ्नत्वारोपेणेति । अथ तर्कः प्रमाणं न भवति न ततो व्याप्तिग्रहणमिष्यते । कुतः पुनरस्य न प्रमाणत्वमव्यभिचारस्तावदिहापि प्रमाणान्तरसाधारणोऽस्त्येव । व्याप्तिलक्षणेन विषयेण विषयवत्वमपि न।नास्ति तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरमूहः ॥ ५॥ व्याप्तिं लक्षयात॥ व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः ॥ १-२-६॥ १ ' फलस्याप्यनुमान ' इति क्वचित्पाठः । Page #85 -------------------------------------------------------------------------- ________________ मीमांसा 1 ५७ व्याप्तिरिति यो व्यामोति यश्व व्याप्यते तयोरुभयोर्धर्मः । तत्र यदा व्यापकधर्मतया विवक्ष्यते तदा व्यापकस्य गम्यस्य व्याप्ये धर्मे सति तत्र धर्मिणि व्याप्यमस्ति यत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः । ततश्च व्याप्यभावापेक्षया व्याप्यस्यैव व्याप्यताप्रतीतिः । नन्वेवमवधार्यते व्यापकस्यैव व्याप्ये सति भाव इति हेत्वभावप्रसङ्गात् अव्यापकस्यापि मूर्तत्वादेस्तत्र भावात् । नापि व्याप्ये सत्येवेत्यवधार्यते । प्रयत्नानन्तरीयकत्वादेरहेतुत्वापत्तेः । साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् । यदा तु व्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति यत्र धर्मिणि व्यापकोऽस्ति तत्रैव भावो न तदभावेऽपि व्याप्तिरिति । अत्रापि नैवमवधार्यते व्याप्यस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गादव्याप्यस्यापि तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः साधारणस्य च हेतुत्वं स्यात् प्रमेयत्वस्य नित्येष्ववश्यंभावादिति । व्याप्यव्यापकधर्मतासङ्कीर्तनं तु व्याप्तेरुभयत्र तुल्यधर्मतयैकाकारा प्रतीतिर्मा भूदिति प्रदर्शनार्थम् । तथाहि पूर्वत्रायोगव्यवच्छेदेनावधारणमुत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः । तदुक्तम् “ लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः " । इति ॥ ६ ॥ अथ क्रमप्राप्तमनुमानं लक्षयति ॥ साधनात्साध्य विज्ञानमनुमानम् ॥१-२-७ ॥ साधनं साध्यं च वक्ष्यमाणलक्षणं दृष्टादुपदिष्टाद्वा । साधनाद्यत्साध्यस्य विज्ञानं सम्यगर्थनिर्णयात्मकं तदनुमीयतेऽनेनेत्यनुमानं लिङ्गग्रहणसम्बन्धस्मरणयोः पश्चात्परिच्छेदनम् ॥ ७ ॥ Page #86 -------------------------------------------------------------------------- ________________ सूत्र १-२-८ ५८ [ प्रमाण ॥ तद्विविधा स्वार्थं परार्थं च ॥ १-२-८ ॥ तदनुमानं द्विप्रकारं स्वार्थपरार्थभेदात् । स्वव्यामोहनिवर्तनक्षमं स्वार्थम् | परव्यामोहनिवर्तनक्षमं परार्थम् ॥ ८ ॥ तत्र स्वार्थं लक्षयति ॥ स्वार्थं स्वनिश्चितसाध्याविनाभावैकलक्षणात् साधनात् साध्यज्ञानम् ॥ १-२-९॥ साध्यं विनाऽभवनं साध्याविनाभावः स्वेनात्मना निश्चितं साध्याविनाभाव एवैकं लक्षणं यस्य तत् स्वनिश्चितसाध्याविनाभावैकलक्षणं तस्मात्तथाविधात् साधनालिङ्गात् साध्यस्य लिङ्गिनो ज्ञानं स्वार्थमनुमानम् । इह च न योग्यतया लिङ्गं परोक्षार्थप्रतिपत्तेरङ्गम् । यथा बीजमङ्करस्य । अदृष्टाद्धूमादग्नेरप्रतिपत्तेः । नापि स्वनिश्चयज्ञानापेक्षं यथा प्रदीपो घटादेः । दृष्टादस्य निश्चिताविनाभावादप्रतिपत्तेः । तस्मात्परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य व्यापार इति निश्चितग्रहणम् । ननु चासिद्धविरुद्धानैकान्तिक हेत्वाभासनिराकरणार्थं हेतोः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद् व्यावृत्तिरिति त्रैलक्षण्यमाचक्षते भिक्षवः । तथा ह्यनुमेये धर्मिणि लिङ्गस्य सत्त्वमेव निश्चितमित्येकं रूपम् अत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम् । एवकारेण पक्षैकदेशासिद्धो निरस्तो यथा अनित्यानि पृथिव्यादीनि भूतानि गन्धवत्वात् । अत्र पक्षीकृतेषु पृथिव्यादिषु चतुर्षु भूतेषु पृथिव्यामेव गन्धवत्वं सत्त्ववचनस्य पश्चात्कृतेनैवकारेणासाधारणो धर्मो निरस्तः । यदि ह्यनुमेय एव सत्त्वमित्युच्येत श्रावणमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः सपक्षे एव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । स हि नास्ति सपक्षे एवकारेण साधा Page #87 -------------------------------------------------------------------------- ________________ मीमांसा ] ५९ सूत्र १-२-९ . रणानकान्तिकः । स हि न सपक्षे एव वर्तते । किं तु विपक्षेऽपि सत्त्वग्रहणात् पूर्वमवधारणकरणेन सपक्षाव्यापिनोऽपि प्रयत्नानन्तरीयकत्वादेहेतुत्वमुक्तं पश्चादवधारणे ह्ययमर्थः स्यात् । सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन सन्दिग्धान्वयोऽनैकान्तिको निरस्तः । यथा सर्वज्ञः कश्चिद्वक्तृत्वात् । वक्तृत्वं हि सपक्षे सर्वज्ञे सन्दिग्धम् । विपक्षे त्वसत्त्वमेव निश्चितमिति तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः । विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षैकदेशवृत्तेनिरासः । प्रयत्नानन्तरीयकत्वे हि साध्ये नित्यत्वं विपक्षकदेशे विद्युदादावस्त्याकाशादौ नास्ति । ततो नियमेनास्य निरासोऽसत्त्वशब्दात् । पूर्वस्मिन्नवधारणे ह्ययमर्थः स्यात् । विपक्ष एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि नास्ति ततो न हेतुः स्यात्ततः पूर्व न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यात्रत्तिकोऽनैकान्तिको निरस्तः । तदेवं त्रैरूप्यमेव हेतोरासिद्धादिदोषपरिहारक्षमामिति तदेवाभ्युपगन्तुं युक्तमिति किमेकलक्षणकत्वेनेति । तदयुक्तम् । अविनाभावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः । अविनाभावो ह्यन्यथानुपपन्नत्वम् । तच्चासिद्धस्य विरुद्धस्य व्यभिचारिणो वा न सम्भवति । त्रैरूप्ये तु सत्यप्यविनाभावाभावे हेतोरगमकत्वदर्शनात् । यथा स श्यामो मैत्रतनयत्वादितरमैत्रपुत्रवदित्यत्र । अथ विपक्षान्नियमवती व्यावृत्तिस्तत्र न दृश्यते ततो न गमकत्वम् । तर्हि तस्या एवाविनाभावरूपत्वादितररूपसद्भावेऽपि तदभावे हेतोः स्वसाध्यसिद्धिं प्रति गमकत्वानिष्टौ सैव प्रधानं लक्षणमस्तु । तत्सद्भावेऽपररूपद्वयनिरपेक्षतया गमकत्वोपपत्तेश्च । यथा सन्त्यद्वैतवादिनोऽपि प्रमाणानि इष्टानिष्टसाधनदूषणान्यथानुपपत्तेः । न चात्र पक्षधर्मत्वं सपक्षे सत्त्वं Page #88 -------------------------------------------------------------------------- ________________ सूत्र १-२- ९ ६० [ प्रमाण चास्ति केवलमविनाभावमात्रेण गमकत्वोपपत्तिः । ननु पक्षधर्मताभावे श्वेतः प्रासादः काकस्य कायादित्यादयोऽपि हेतवः प्रसज्येरन् । नैवम् । अविनाभावबलेनैवापक्षधर्माणामपि गमकत्वाभ्युपगमात् । न चेह सोऽस्ति ततोऽविनाभाव एव हेतोः प्रधान लक्षणमभ्युपगन्तव्यम् । सति तस्मिन्नसत्यपि त्रैलक्षण्ये हेतोर्गमकत्वदर्शनात् न तु त्रैरूप्यं हेतुलक्षणमव्यापकत्वात् । तथा च सर्व क्षणिक सत्वादित्यत्र मूभिषिक्त साधने सौगतैः सपक्षे सतोऽपि हेतोः सत्त्वस्य गमकत्वमिष्यत एव । तदुक्तम् “ अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्" इति । एतेन पश्चलक्षणकत्वमपि नैयायिकोक्तं प्रत्युक्तम् तस्याप्यविनाभावप्रपञ्चत्वात् । तथाहि त्रैरूप्यं पूर्वोक्तमबाधितविषयत्वमसप्रतिपक्षत्वं चेति पञ्च रूपाणि । तत्र प्रत्यक्षागमबाधितधर्मनिर्देशानन्तरप्रयुक्तत्वं बाधितविषयत्वं यथाऽनुष्णस्तेजोवयवी कृतकत्वात् घटवत् । ब्राह्मणेन सुरा पेया द्रव्यत्वात् क्षीरवत् । इति तनिषेधात् बाधितविषयत्वं प्रतिपक्षहेतुबाधितत्वम् । सत्प्रतिपक्षत्वं यथाऽनित्यः शब्दो नित्यधर्मानुपलब्धेः अत्र प्रतिपक्षहेतुर्नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । तनिषेधादसत्पतिपक्षत्वम् । तत्र बाधितविषयस्य तत्प्रतिपक्षस्य चाविनाभावाभावादविनाभावेनैव रूपद्वयमाप सङ्ग्रहीतम् । यदाह " बाधाविनाभावयोर्विरोधाद्" इति अपि च स्वलक्षणलाक्षतपक्षविषयत्वाभावात्तदोषेणैव दोषद्वयमिदं चरितार्थ किं पुनर्वचनेन । तत्स्थितमेतत् साध्याविनाभावैकलक्षणादिति॥९॥ तत्राविनाभावं लक्षयति१ ‘गमकत्वोपपत्तेः ' इति क्वचित्पाठः । २ — सत्प्रतिपक्षस्य ' इति क्वचित्पाठः । Page #89 -------------------------------------------------------------------------- ________________ मीमांसा ] ६१ सूत्र १-२-१२ ॥ सहक्रमभाविनोः सहक्रमभावनियमो ऽविनाभावः ॥ १-२- १० ॥ सहभाविनोरेकसामग्र्यधीनयोः फलादिगतयो रूपरसयोर्व्याप्यव्यापकयोश्च शिंशपात्ववृक्षत्वयोः क्रमभाविनोः कृत्तिकोदयशकटोदययोः कार्यकारणयोर्धूमधूमध्वजयोर्यथासंख्यं य: सहक्रमभावनियमः सहभाविनोः सहभावनियमः क्रमभाविनोः क्रमभावनियमः साध्यसाधनयोरिति प्रकरणाल्लभ्यते सोऽविनाभावः ।। १०॥ अथैवंविधोऽविनाभावो निश्चितः साध्यप्रतिपत्त्यङ्गमित्युक्तम् । तनिश्चयश्च कुतः प्रमाणात् । न तावत् प्रत्यक्षात् तस्यैन्द्रियकस्य सनिहितविषयविनियमितव्यापारत्वात् । मनस्तु यद्यपि सर्वविषयं तथापीन्द्रियगृहीतार्थगोचरत्वेनैव तस्य प्रवृत्तिः । अन्यथान्धवधिराद्यभावप्रसङ्गः । सर्वविषयता तु सकलेन्द्रियगोचरार्थविषयत्वेनैवोच्यते न स्वातन्त्र्येण । योगिप्रत्यक्षेण त्वविनाभावग्रहणेऽनुमेयार्थप्रतिपत्तिरेपि ततोsस्तु । किं तपस्विनाऽनुमानेन । अनुमानात्त्वविनाभावनिश्चयेऽनवस्थेतरेतराश्रयदोषप्रसङ्ग उक्त एव । न च प्रमाणान्तरमेवंविधविषयग्रहणप्रवणमस्तीत्याह ॥ ऊहात्तन्निश्वयः ॥ १-२-११ ॥ ऊहात्तर्कादुक्तलक्षणात्तस्याविनाभावस्य निश्चयः ॥ ११ ॥ लक्षितं परीक्षितं च साधनमिदानीं तद्विभजति — ॥ स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् ॥ १-२-१२ ॥ स्वभावादीनि चत्वारि विधेः साधनानि । विशोध तु निषेधस्येति पञ्चविधं साधनम् । स्वभावो यथा शब्दानित्यत्वे साध्ये १ रेवेति पाठः । Page #90 -------------------------------------------------------------------------- ________________ सूत्र १-२-३ ६२ . प्रमाण कृतकत्वं श्रावणत्वं वा । ननु श्रावणत्वस्यासाधारणत्वात् कथं व्याप्तिसिद्धिः। विपर्यये बाधकप्रमाणबलात् सत्त्वस्येवेति ब्रूमः । न चैवं सत्त्वमेव हेतुः । तद्विशेषस्योत्पत्तिमत्त्वकृतकत्वप्रयत्नानन्तरीयकत्वप्रत्ययभेदभेदित्वादेरहेतुत्वापत्तेः। किं च किमिदमसाधारणत्वं नाम । यदि पक्ष एव वर्तमानत्वं तत्सर्वस्मिन् क्षाणके साध्ये सत्त्वस्यापि समानम् । साध्यधर्मवतः पक्षस्यापि सपक्षता चेत् । इह कः प्रद्वेषः । पक्षादन्यस्यैव सपक्षत्वे लोहलेख्यं वज्रं पार्थिवत्वाकाष्ठवदित्यत्र पार्थिवत्वमाप लोहलेख्यता वने गमयेत् । अन्यथानुपपत्तेरभावान्नोत चेत् । इदमेव तर्हि हेतुलक्षणमस्तु । अपक्षधर्मस्यापि साधनत्वापत्तिरिति चेत् । अस्तु यद्यविनाभावोऽस्ति शकटोदये कृत्तिकोदयस्य सर्वज्ञसद्भावे संवादिनं उपदेशस्य गमकत्वदर्शनात् । काकस्य कायं न प्रासादे धावल्यं विनानुपपद्यमानमित्यनेकान्तादगमकम् । तथा घटे चाक्षुषत्वं शब्देऽनित्यतां विनाप्युपपद्यमानमिति । तत्र श्रावणत्वादिरसाधारणोऽप्यनित्यतां व्यभिचरत । ननु कृतकत्वाच्छब्दस्यानित्यवे साध्ये पर्यायवद्रव्येऽप्यानत्यता प्राप्नोति । नेयम् । पर्यायाणामेवानित्यतायाःसाध्यत्वात् । अनुक्तमपीच्छाविषयीकृतं साध्यं भवतीति किं स्म विस्मरति भवान् । ननु कृतकत्वानित्यत्वयोस्तादात्म्ये साधनवत्साध्यस्य सिद्धत्वं, साध्यवच्च साधनस्य साध्यत्वं प्रसज्जति । सत्यमेतत् । किं तु मोहनिवर्तनार्थः प्रयोगः । यदाह "सादेरपि न सान्तत्वं व्यामोहाद्योऽ धिगच्छति । साध्यसाधनतैकस्य तंप्रति स्यान्नदोषभाक् ॥ कारणं यथा, वाष्पभावेन मशवर्तिरूपतया वा सन्दिह्यमाने धृमेऽग्निविशिष्टमेघोन्नतिर्वा ,ष्टौ कथमयमाबालगोपालाविपालाङ्गनादिप्रासि १ 'नतु ' इति क्वचित्पाठः । २ 'करणं ' इति क्वचित्पाठः । ३ ' वृष्टयै' इति क्वचित्पाठः । Page #91 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-२-५ द्धोऽपि नोपलब्धः सूक्ष्मदर्शिनापि न्यायवादिना । कारणविशेषदर्शनाद्धि सर्वः कार्यार्थी प्रवर्तते । स तु विशेषो ज्ञातव्यो योऽव्यभिचारी । कारणत्वनिश्चयादेव प्रवृत्तिरिति चेत् । अस्त्वसौ लिङ्गविशेपनिश्चयः प्रत्यक्षकृतः । फले तु भाविनि नानुमानादन्यन्निबन्धनमुत्पश्यामः ॥ कश्चिद् व्यभिचारात् सर्वस्य हेतोरहेतुत्वे कार्यस्यापि तथा प्रसङ्गः । बाष्पदेरकार्यत्वान्नेति चेत् । अत्रापि यद्यतो न भवति न तत्तस्य कारणमित्यदोषः । यथैव हि किंचित् कारणमुद्दिश्य किंचित्कार्य, तथैव किंचित् कार्यमुद्दिश्य किंचित् कारणम् । यददेवाजनक प्रति न कार्यत्वं, तद्वदेवाजन्यं प्रति न कारणत्वमिति नानयोः कश्चिद्विशेषः । अपि च रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छता न्यायवादिनेष्टमेव कारणस्य हेतुत्वम् । यदाह " एकसामयधीनस्य रूपादेरसतो गतिः। हेतुधर्मानुमानेन धूमेन्धनविकारवत्" इति । न च वयमपि यस्य कस्यचित् कारणस्य हेतुत्वं ब्रूमः । आप तु यस्य न मन्त्रादिना शक्तिपतिबन्धो न वा कारणान्तरवैकल्यम् । तत्कुतो विज्ञायत इति चेत् । अस्ति तावद्विगुणितादितरस्य विशेषः। तत्परिज्ञानं तु प्रायः पांशुरंपादानामप्यस्ति। यदाहुः-" गम्भीरगर्जितारम्भनिभिन्नगिरिगहराः। त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ॥१॥ रोलम्बगवलव्यालतमालमलिनत्विषः। वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२॥” इति । कार्य यथा । वृष्टौ विशिष्टनदीपूरः, कृशानौ धूमश्चैतन्य प्राणादिः । पूरस्य वैशिष्टयं कथं ज्ञायत इति चेत् । उक्तमत्र नैयायिकैः । यदाहुः १ ' प्रत्यक्षतः ' इति क्वचित्पाठः । २ पांशुरपादाः-धूलिधूसरपादाः । अनुपदमेवागताः प्रकरणानभिज्ञा इत्यर्थः । ३ हरिभद्रसूरिकृतस्य षड्दर्शनसमुच्चयस्य द्वितीयाधिकारे श्लोक २० । Page #92 -------------------------------------------------------------------------- ________________ सूत्र १-२-५ ६४ - [प्रमाण " आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटः फेनछटाङ्कितः ॥१॥ वहद्बहलशेवालफलशाद्वलसकुलः।नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ॥२॥” इति, धूमप्राणादीनामपि कार्यत्वनिश्चयो न दुष्करः। यदाहुः-" कार्य धूमो हुतभुजः कार्यों धर्मानुवृत्तितः। स भवंस्तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥१॥" कारणाभावेऽपि कार्यस्य भावेऽहेतुत्वमन्यहेतुत्वं वा भवेत् । अहेतुत्वे सदा सत्त्वमसत्त्वं वाँ । अन्यहेतुत्वे दृष्टादन्यतोऽपि भवतो न दृष्टजन्यताऽन्याभावेऽपि दृष्टाद्भवतो नान्यहेतुकत्वमित्यहेतुकतैव स्यात् । तत्र चोक्तम्, “यस्त्वन्यतोऽपि भवन्नुपलब्धो न तस्य धूमत्वं हेतुभेदात् कारणं च वह्निधूमस्य" इत्ययुक्तम्, आप च, अग्निस्वभावः शक्रस्य मूर्दा यद्यग्निरेव सः। अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥१॥" इति । तथा चेतनां विनानुपपद्यमानः कार्य प्राणादिरनुमापयति तां श्रावणत्वमिवानित्यताविपर्यये बाधकवशात्सत्त्वस्येवास्यापि व्याप्तिसिद्धरित्युक्तप्रायम् । तन्न प्राणादिरसाधारणोऽपि चेतनां व्यभिचरति । किं च नान्वयो हेतो रूपं तदभावे हेत्वाभासाभावात् । विपक्ष एव सन् विरुद्धो विपक्षेऽप्यनैकान्तिकः सर्वज्ञत्वे साध्ये वक्तृत्वस्यापि व्यतिरेकाभाव एव हेत्वाभासत्वे निमित्तं नान्वयसन्देह इति न्यायवादिनापि व्यतिरेकाभावादेव हेत्वाभासावुक्तौ । असाधारणोऽपि यदि साध्याभावेऽसन्निति निश्चीयेत तदा प्रकारान्तराभावात्साध्यमुपस्थापयन्नानकान्तिकः स्यात् । अपि च यद्यन्वयो रूपं स्यात्तदा यथा विपक्षैकदेशकृत्तेः १ ' शक्यते तेन ' इत्यपि । २ 'भावयेत् ' इति क्वचित्पाठः। ३ ' भावयेत् ' इति क्वचित्पाठः। Page #93 -------------------------------------------------------------------------- ________________ मीमांसा 1 सूत्र १-२-१२ कथञ्चिदव्यतिरेकादगमकत्वमेवं सपक्षैकदेशवृत्तेरपि स्यात् कथञ्चिदनन्वयात् । यदाह “ रूपं यद्यन्वयो हेतोर्व्यतिरेकवदिष्यते । स सपक्षोभयो न स्यादसपक्षोभयो यथा ॥ १ ॥ " सपक्ष एव सत्त्वमन्वयो न सपक्षे सत्त्वमेवेति चेत् । अस्तु । स तु व्यतिरेक एवेत्यस्मन्मतमेवाङ्गीकृतं स्यात् । वयमपि हि प्रत्यपीपदाम । अन्यथानुपपत्त्येकलक्षणो हेतुरिति । तथैकस्मिन्नर्थे दृष्टेऽदृष्टे वा समवाय्याश्रितं साधनं साध्येन । तच्चैकार्थसमवायित्वमेकफलादिगतरूपरसयोः शकटोदयकृत्तिकोदययोश्चन्द्रोदयसमुद्रवृध्द्योर्दृष्टिसाण्डपि - पीलिकाक्षोभयोर्नागवैल्लीदाहपत्रकोचयोः । तत्रैकार्थसमवायी रसो रूपस्य, रूपं वा रसस्य । नहि समानकालभाविनोः कार्यकारणभावः सम्भवति । ननु समानकालकार्यजनकं कारणमनुमास्यते इति चेत् । न तर्हि कार्यमनुमितं स्यात् । कारणानुमानेऽसामर्थ्यात् । कार्यमनुमितमेव जन्याभावे जनकत्वाभावादिति चेत् । हन्तैवं कारणं कार्यस्यानुमापकमित्यनिष्टमापद्येत । शकटोदयकृत्तिकोदयादीनां तु यथाविनाभावं साध्यसाधनभावः । यदाह – “ एकार्थसमवायस्तु यथा येषां तथैव ते । गमकाः गमकस्तत्र शकटः कृत्ति - कोदितेः ॥ १ ॥ " एवमन्येष्वपि साधनेषु वाच्यम् । ननु कृतक1 त्वानित्यत्वयोरेकार्थसमवायः कस्मान्नेष्यते । न । तयोरेकत्वात् । यदाह आद्यन्तापेक्षिणी सत्ता कृतकत्वमनित्यता । एकैव हेतुः साध्यं च द्वयं नैकाश्रयं ततः ॥ १ ॥ " इति । स्वभावादीनां चतुर्णां साधनानां विधिसाधनता । निषेधसाधनत्वं तु विरोधिनः । स हि स्वसन्निधानेनेतरस्य प्रतिषेधं साधयति । 46 ६५ १ ' चेत्' इति क्वचित्पाठः । २ ' तथाचैकाभिन्नार्थदृष्ट्या ' इति कचित्पाठः । ३ ' भागवल्लीदाहपत्रकोथयो: ' इति क्वचित्पाठः । Page #94 -------------------------------------------------------------------------- ________________ सूत्र १-२-१२ [ प्रमाण अन्यथा विरोधासिद्धः । चशब्दो यत एते स्वभावकारणकार्यव्यापका अन्यथानुपपन्नाः स्वसाध्यमुपस्थापयन्ति तत एव तदभावे स्वयं न भवन्ति । तेषामनुपलब्धिरप्यभावसाधनानीत्याह । तत्र स्वभावानुपलब्धिर्यथा । नात्र घटो, द्रष्टुं योग्यस्यानुपलब्धेः । कारणानुपलब्धिर्यथा नात्र धुमोऽग्न्यभावात् । कार्यानुपलब्धिर्यथा । नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावात्, व्यापकानुपलाब्धर्यथा । नात्र शिंशपा, वृक्षाभावात् । विराोध तु प्रतिषेध्यं । तत्तत्कार्यकारणाव्यापकानां च विरुद्धं विरुद्धकार्यम् । यथा न शीतस्पर्शो, नाप्रतिबद्धसामर्थ्यानि शीतकारणानि, न रोमहर्षविशेषाः, न तुषारस्पर्शोऽग्नेधूमावति प्रयोगनानात्वमिति ॥१२॥ साधनं लक्षयित्वा विभज्य च साध्यस्य लक्षणमाह॥ सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥ १-२-१३॥ साधयितुमिष्टं सिषाधयिषितम् । अनेन साधयितुमनिष्टस्य साध्यत्वव्यवच्छेदः । यथा वैशेषिकस्य नित्यः शब्द इति शास्त्रोक्तत्वाद्वैशेषिकेणाभ्युपगतस्याप्याकाशगुणत्वादेर्न साध्यत्वं तदा साधयितुमानिष्टत्वात् । इष्टः पुनरनुक्तोऽपि पक्षो भवति । यथा पराश्चक्षुरादयः सङ्घातत्वाच्छयनाशनाद्यङ्गवदित्यत्र परार्थाः । बुद्धिमत्कारणपूर्वकं क्षित्यादि कार्यत्वादित्यत्राऽशरीरसर्वज्ञपूर्वकत्वमिति । असिद्धमित्यनेनानध्यवसायसंशयविपर्ययविषयस्य वस्तुनः साध्यत्वम् । न सिद्धस्य । यथा श्रावणः शब्द इति नानुपलब्धे न निर्णीते न्यायः प्रवर्तत इति हि सर्वपार्षदम् । अबाध्यमित्यनेन . १ — प्रतिषेध्यस्य तत्कार्यव्यापकानां ' इति क्वचित्पाठः । २ ' पूर्वकं ' इति क्वचित्पाठः । ३ सर्वसंमतम् । Page #95 -------------------------------------------------------------------------- ________________ मीमांसा] सूत्र १-२-१५ प्रत्यक्षादिबाधितस्य साध्यत्वं मा भूदित्याह-एतत्साध्यस्य लक्षणं पक्ष इति साध्यस्यैव नामान्तरमेतत् ॥१३॥ अबाध्यग्रहणव्यवच्छेद्यां बाधां दर्शयति॥ प्रत्यक्षानुमानागमलोकस्ववचन प्रतीतयो बाधाः ॥१-२-१४॥ प्रत्यक्षादीनि ताद्वरुद्धार्थोपस्थापनेन बाधकत्वात् बाधाः । तत्र प्रत्यक्षबाधा । यथा अनुष्णोऽग्निः, न मधु मधुरं, न सुगन्धि विदलन्मालतीमुकुलम्, अचाक्षुषो घटः, अश्रावणः शब्दः, नास्ति बहिरर्थ इत्यादि । अनुमानबाधा यथा । सरोम हस्ततलं, नित्यः शब्द इति वा । अत्रानुपलम्भेन कृतकत्वेन चानुमानबाधा, । आगमबाधा यथा । प्रेत्यासुखप्रदो धर्म इति परलोके सुखप्रदत्वं धर्मस्य सर्वागमसिद्धम् । लोकबाधा यथा । शुचि नरशिरःकपालमिति । लोके हि नरशिरःकपालादीनामशुचित्वं सुप्रसिद्धम् । स्ववचनवाधा यथा । माता मे वन्ध्येति । प्रतीतिबाधा यथा । अचन्द्रः शशीति । अत्र शशिनश्चन्द्रशब्दवाच्यत्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥१४॥ अत्र साध्यं धर्मो, धर्मधार्मिसमुदायो वेति संशयव्यवच्छेदायाह॥ साध्यं साध्यधर्मविशिष्ये धर्मी क्वचित्तु धर्मः ॥१-२-१५॥ साध्यं साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह । साध्यधर्मेणानित्यत्वादिना विशिष्टो धर्मी शब्दादिः । एतत्प्रयोगकालापेक्षं साध्यशब्दवाच्यत्वम् । कचित्तु व्याप्तिग्रहणकाले धर्मः साध्यशब्देनोच्यते । अन्यथा व्याप्तेरघटनात् । नहि धूमदर्शनात् सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति ॥१५॥ Page #96 -------------------------------------------------------------------------- ________________ सूत्र १-२- १६ ६ ८ [प्रमाण धर्मिस्वरूपनिरूपणायाह॥ धर्मी प्रमाणसिद्धः ॥ १-२-१६॥ प्रमाणैः प्रत्यक्षादिभिः प्रसिद्धो धर्मी भवति । यथाग्निमानयं देशः इत्यत्र हि देशः प्रत्यक्षेण सिद्धः । एतेन सर्व एवानुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधामन्यायेन न बहिःसदसत्त्वमपेक्षत इति सौगतं मतं प्रतिक्षिपति । नहीयं विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति । तदवास्तवत्वे तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः । तदबुद्धेः पारम्पर्येणापि वस्तुव्यवस्थापकत्वायोगात् । ततो विकल्पेनानेन वा व्यवस्थापितः पर्वतादिर्विषयभावं भजन्नेव धर्मिता प्रतिपद्यते । तथा च सति प्रमाणसिद्धस्य धर्मिता युक्तैव ॥१६॥ अपवादमाह ॥ बुद्धिसिद्धोऽपि ॥ १-२-१७॥ नैकान्तेन प्रमाणसिद्ध एव धर्मी भवति किं तु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी भवति । अपि शब्देन प्रमाणबुद्धिभ्यामुभाभ्यायामपि सिद्धोधर्मी भवतीति दर्शयति । तत्र बुद्धिसिद्ध धर्मिणि साध्यधर्मः सत्त्वमसत्त्वं च प्रमाणवलेन साध्यते । यथाऽस्ति सर्वज्ञो नास्ति षष्ठं भूतमिति । ननु धर्मिणि साक्षादसाति भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वेनानुमानविषयत्वायोगात् कथं सत्त्वासत्त्वयोः साध्यत्वम् । तदाह-" नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः। विरुद्धधर्मो भावस्य सा सत्ता साध्यते कथम् ॥” इति । मैवम् । मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्ध्यर्थमनुमानम् तदभ्युपेतमपि वैयात्यायो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात् । न Page #97 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र १-२-१९ च मानसज्ञानात् खरविषाणादेरपि सद्भावसम्भावनातोऽतिप्रसङ्गः । तज्ज्ञानस्य बाधकप्रत्ययविप्लावितसत्ताकवस्तुविषयतया मानसप्रत्यक्षाभासत्वात् । कथं तर्हि षष्ठभूतार्धर्मित्वमिति चेत् । धर्मिप्रयोगकाले बाधकप्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्त्वसंशीतिः सुनिश्चिता । असम्भवद्भाधकप्रमाणत्वेन सुखादाविव सत्त्वनिश्चयात्तत्र संशयायोगात् । उभयसिद्धो धर्मी यथा । अनित्यः शद्ध इति । नहि प्रत्यक्षेणार्वाग्दशिभिरनियतदिग्दर्शिभिर्नियतदिग्देशकालावच्छिन्नाः सर्वे शद्धाः शक्या निश्चेतुमिति शदस्य प्रमाणबुद्धयुभयसिद्धता तेनानित्यत्वादिधर्मः प्रसाध्यत इति ॥ १७॥ ननु दृष्टान्तोऽप्यनुमानाङ्गतया प्रतीतः । तत्कथं साध्यसाधने एवानुमानाङ्गमुक्त न दृष्टान्त इत्याह ॥ न दृष्टान्तोऽनुमानाङ्गम् ॥ १-२-१८॥ दृष्टान्तो वक्ष्यमाणलक्षणो नानुमानस्याङ्गं कारणम् ॥ १८ ॥ कुत इत्याह ॥ साधनमात्रात्तत्सिद्धेः ॥ १-२-१९॥ दृष्टान्तरहितात्साध्यान्यथानुपपत्तिलक्षणात् साधनादनुमानस्य साध्यप्रतिपत्तिलक्षणस्य भावान दृष्टान्तोऽनुमानाङ्गामति । स हि साध्यप्रतिपत्तौ, वाऽविनाभावग्रहणे, वा व्याप्तिस्मरणे वोपयुज्येत । न तावत् प्रथमः पक्षः । यथोक्तादेव हेतोः साध्यप्रतिपत्तेरुपपत्तेः । १ 'सत्ताकावस्तु' इति क्वचित्पाठः । २ संशीतिः-संशयः । ३ 'सुखादिवच्च' इति क्वचित्पाठः । ४ प्रमाणाधुभयासद्धता । Page #98 -------------------------------------------------------------------------- ________________ सूत्र १-२-१९ ७० [प्रमाण नापि द्वितीयः । विपक्षे बाधकाविनाभावादेवार्थिनाभावग्रहणात् । किं च व्यक्तिरूपो दृष्टान्तः । स कथं साकल्येन व्याप्तिं गमयेत् । व्यक्तयन्तरेषु व्याप्त्यर्थ दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन । साकल्येन व्यारवंधारयितुमशक्यत्वादपरापरदृष्टान्तापेक्षायामनवस्था स्यात् । नापि तृतीयः । गृहीतसम्बन्धस्य साधनदर्शनादेव व्याप्तिस्मृतेः । अगृहीतसम्बन्धस्य दृष्टान्तेऽप्यस्मरणात् । उपलब्धिपूर्वकत्वात् स्मरणस्येति ॥ १९ ॥ दृष्टान्तस्य लक्षणमाह ॥स व्याप्तिदर्शनभूमिः ॥ १-२-२०॥ स इति दृष्टान्तो लक्ष्यं व्याप्तिर्लक्षितरूपा दर्शनं परस्मै प्रतिपादनं तस्य भूमिराश्रय इति लक्षणम् । ननु यदि दृष्टान्तोऽनुमानाङ्गं न भवति तर्हि किमर्थं लक्ष्यते । उच्यते । परार्थानुमाने बोध्यानुरोधादादादिकस्योदाहरणस्यानुज्ञास्यमानत्वात् । तस्य च दृष्टान्ताभिधान-. रूपत्वादुपपन्नं दृष्टान्तस्य लक्षणम् । प्रमातुरपि कस्यचित् दृष्टान्तदृष्टबहि ाप्तिबलेनान्ताप्तिपातपत्तिर्भवताति स्वार्थानुमानपर्वण्याप दृष्टान्तलक्षणं नानुपपन्नम् ॥ २०॥ तद्विभागमाह॥ स साधर्म्यवैधाभ्यां बेधा ॥ १-२-२१॥ स दृष्टान्तः साधर्म्यणान्वयेन वैधपेण च व्यतिरेकेण भवतीति द्विप्रकारः ॥ २१ ॥ साधर्म्यदृष्टान्तं विभजते । ॥ साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥१-२-२२॥ १ 'बाधकाविनाभावग्रहणात् ' इति क्वचित्पाठः । २ ' अवयवादिकस्य ' इति क्वचित्पाठः । Page #99 -------------------------------------------------------------------------- ________________ मीमांसा सूत्र २-१-२ साधनधर्मेण प्रयुक्तो न तु काकतालीयो यः साध्यो धर्मस्तद्वान् साधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शद्धे साध्ये घटादिः॥२२॥ वैधर्म्यदृष्टान्तं व्याचष्टे । ॥ साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्चियोगी वैधर्म्यदृष्टान्तः ॥ १-२-२३॥ साध्यधर्मनिवृत्त्या प्रयुक्ता न यथाकथंचिद्या साधनधर्मनिवृत्तिस्तद्वान् वैधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये आकाशादिरिति ॥ २३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ॥ ॥प्रथमोऽध्यायः समाप्तः ॥ लक्षितं स्वार्थमनुमानमिदानी क्रमप्राप्तं परार्थमनुमानं लक्षयति॥ यथोक्तसाधनाभिधानजः परार्थम् २-१-१॥ ...यथोक्तं सुनिश्चितसाध्याविनाभावैकलक्षणं यत्साधनं तस्याभिधानम् । अभिधीयते परस्मै प्रतिपाद्यते अनेनेत्यभिधानं वचनं तस्माजातः सम्यगर्थनिर्णयः परार्थमनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः॥१॥ ननु वचनं परार्थमनुमानमित्याहुस्तत्कथमित्याह ॥वचनमुपचारात् ॥२-१-२॥ अचेतनं हि वचनं न साक्षात्ममितिफलहेतुरिति न निरुपचरित१ काकागमनमिव तालीपतनमिवेति काकतालीयः । अयमर्थः । यथा तालवृक्षस्याधस्तात् यदृच्छया काकस्यागमनं तत्पुरस्तात् तालफलस्य पतनमयत्नतस्तस्य फलस्य विभेदी दूरपतितत्वात् । ततश्च काकेन तत्फलभक्षणम् । एताः सर्वाः क्रिया अयत्नत एव समभूवंस्तद्वदिति । Page #100 -------------------------------------------------------------------------- ________________ सूत्र २-१- २ २ प्रमाण प्रमाणभावभाजनं मुख्यानुमानहेतुत्वेन तूपचरितानुमानाभिधानपात्रता प्रतिपद्यते उपचारश्चात्र कारणे कार्यस्य यथोक्तसाधनाभिधानात् तद्विषया स्मृतिरुत्पद्यते स्मृतेश्चानुमानं तस्मादनुमानस्य परम्परया यथोक्तसाधनाभिधानं कारणं तस्मिन् कारणे वचने कार्यस्यानुमानस्योपचारः समारोपः क्रियते ततः समारोपात् कारणं वचनमनुमानशद्धेनोच्यते कार्ये वा प्रतिपादकानुमानजन्ये वचने कारणस्यानुमानस्योपचारः वचनमौपचारिकमनुमानं न मुख्यमित्यर्थः । इह च मुख्यार्थबाधे प्रयोजने निमित्ते चोपचारः प्रवर्तते तत्र मुख्योऽर्थः साक्षात्ममितिफलः सम्यगर्थनिर्णयः प्रमाणशब्दः सामानाधिकरणस्य परार्थानुमानशब्दस्य तस्य बाधो वचनस्य निर्णयत्वानुपपत्तेः । प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव निर्णयात्मन्यनशे तद्व्यवहारानुपपत्तेः । निमित्तं तु निर्णयात्मकानुमानहेतुत्वं वचनस्येति ॥२॥ ॥ तद् द्वेधा ॥२-१-३॥ तद्वचनात्मकं परार्थानुमानं द्वधा द्विप्रकारम् ॥ ३॥ प्रकारभेदमाह ॥ तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥२-१-४॥ तथा साध्ये सत्येवोपपत्तिः साधनस्येत्येकः प्रकारः । अन्यथा साध्याभावेऽनुपपत्तिश्चति द्वितीयः प्रकारः । थयाऽग्निमानयं पर्वतस्तथैव धूमवत्वोपपत्तेः । अन्यथा धूमवत्वानुपपत्तेर्वा । एतावन्मात्रकृतः परार्थानुमानस्य भेदोन पारमार्थिक इति भेदपदन दर्शयति॥४॥ एतदेवाह । ॥ नानयोस्तात्पर्ये भेदः ॥ २-१-५॥ अनयोस्तथोपपत्त्यन्यथानुपपत्तिरूपयोः प्रयोगप्रकारयोस्तात्पर्य 'यत्परः शब्दः स शब्दार्थः' इत्येवं लक्षणे तत्परत्वे भेदो Page #101 -------------------------------------------------------------------------- ________________ मीमांसा ] ७३ सूत्र २-१-७ विशेषः । एतदुक्तं भवत्यन्यदभिधेयं शब्दस्यान्यत्प्रकाश्यं प्रयोजनं तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नमन्वये कथिते व्यतिरेकगतिर्व्यतिरेके चान्वयगतिरित्युभयत्रापि साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्यभेदोऽपि । नहि पनिो देवदत्तो दिवा न भुङ्क्ते पीनो देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोरभिधेयभेदोऽस्तीति तात्पर्येणापि भेत्तव्यमिति भावः ॥५॥ तात्पर्याभेदस्यैव फलमाह ॥ अत एव नोभयोः प्रयोगः ॥ २-१-६ ॥ यत एव नानयोस्तात्पर्ये भेदोऽत एव नोभयोर्यथोपपत्त्यन्यथानुपपत्त्योर्युगपत्प्रयोगो युक्तः । व्याप्युपदर्शनाय हि तथोपपत्त्यन्यथानुपपत्तिभ्यां हेतोः प्रयोगः क्रियते व्याप्युपदर्शनं चैकयैव सिद्धमिति विफलो द्वयोः प्रयोगः यदाह, "हेतोस्तथोपपत्त्या वा स्यात्मयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धि - र्भवेदिति " ॥ ६ ॥ ननु यद्येकेनैव प्रयोगेण हेतोर्व्याप्त्युपदर्शनं कृतमिति कृतं विफलेन द्वितीयप्रयोगेण तर्हि प्रतिज्ञाया अपि माभूत् प्रयोगो विफलत्वात् । नहि प्रतिज्ञामात्रात् कश्चिदर्थं प्रतिपद्यते । तथा सति हि विप्रतिपत्तिरेव न स्यादित्याह ॥ विषयोपदर्शनार्थं तु प्रतिज्ञा ॥ २-१-७ ॥ विषयो यत्र तथोपपत्त्यान्यथानुपपत्त्या वा हेतु: स्वसाधनाय प्रार्थ्यते तस्योपदर्शनं परप्रतीतावारोपणं तदर्थं पुनः प्रतिज्ञा प्रयोक्तव्योति शेषः । अयमर्थः । परप्रत्यायनाय वचनमुच्चारयता प्रेक्षावता तदेव परे बोधयितव्या यद्भुभुत्सन्ते । तथा सत्यनेन बुभुत्सिताभि १ न्यायावतार श्लोक १७ । C स्वसाध्यसाधनाय ' इति क्वचित्पाठः । १० Page #102 -------------------------------------------------------------------------- ________________ -- ७४ सूत्र २-१-७ [प्रमाण धायिना परे बोधिता भवन्ति । न खल्वश्वान पृष्टो गवयान् ब्रुवाणः प्रष्टुरवधेयवचनो भवति । अनवधेयवचनश्च कथं प्रतिपादको नाम । यथा च शैक्षो भिक्षुणाचचक्षे । भोः शैक्ष पिण्डपानमाहरेति स एवमाचरामीत्यनाभधाय यदा तदर्थ प्रयतते तदाऽस्मै क्रुध्यति भिक्षुराः शिष्याभास भिक्षुखेटास्मानवधीरयसीति विब्रुवाणः । एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द इति विषयमनुपदर्य यदेव किंचिदुच्यते कृतकत्वादिति वा । यत्कृतकं तदनित्यमिति वा । कृतकत्वस्य तथैवोपपत्तेरिति वा । कृतकत्वस्यान्यथानुपपत्तिरिति वा । तत्सर्वमस्यानपेक्षितमापाततोऽसम्बधाभिधानबुध्या । तथा चानवहितो न बोद्धमहतीति । यत्कृतकं तत्सर्वमनित्यं यथा घटः । कृतश्च शब्द इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वानिश्चायकमित्यवधानमत्रति चेत् । न । परस्पराश्रयात् । अवधाने हि सत्यतोऽर्थे निश्चयः तस्माच्चावधानामति । न च पर्षत्पतिवादिनौ प्रमाणीकृतवादिनौ यदेतद्वचनसम्बन्धाय प्रयतिष्येते तथा सति न हेत्वाद्यपेक्षया तां तदवचनादेव तदर्थनिश्चयात् । अनित्यः शब्द इति त्वपेक्षित उक्ते कुत इत्याशङ्कायां कृतकत्वस्य तथैवोपपत्तेः कृतकत्वस्यान्यथानुपपत्तेर्वेत्युपतिष्ठते तदिदं विषयोपदर्शनार्थत्वं प्रतिज्ञाया इति॥७॥ ननु यत्कृतकं तदनित्यं यथा घटः। कृतकश्च शद्धः इत्युक्ते गम्यत एतदनित्यः शब्दः इति तस्य सामर्थ्यलब्धत्वात् तथापि तद्वचने पुनरुक्तत्वप्रसङ्गात् , अर्थादापन्नस्य स्वशद्धेन पुनर्वचनं पुनरुक्तम् । आह च डिंडिकरांगं परित्यज्याक्षिणी निर्माल्य चिन्तय तावत् किमियता मदुक्तेन प्रतीतिः स्यान्नवेति भावे किं प्रपञ्चमालयेत्याह१ तद्वचनादेव' इति क्वचित्पाठः। २ डिंडिको नाम रक्तवर्णो मूषकविशेषः । तद्वत् रागं रक्तिमां नेत्रगतां परित्यज्य नेत्रे विमलीकृत्येत्यर्थः। ३ " अनित्यत्वस्य ' इति क्वचित्पाठः । Page #103 -------------------------------------------------------------------------- ________________ ७५ मीमांसा] सूत्र २-१-९ ॥ गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवतदुपपत्तिः ॥२-१-८॥ साध्यमेव धर्मस्तस्याधारस्तस्य सन्देहस्तदपनोदाय कृतकः सोऽनित्य इत्युक्तेपि धर्मिविषयसन्देह एव किमानत्यः शब्दो घटो वेति तन्निराकरणाय गम्यमानस्यापि साध्यस्य निर्देशो युक्तः। साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवचनवत् । तथाहि साध्यव्याप्तसाधनदर्शनेन तदाधारावगतावपि नियतधार्मिसम्बन्धिताप्रदर्शनार्थ कृतकश्च शब्द इति पक्षधर्मोपसहारवचनं तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय प्रतिज्ञावचनमप्युपपद्यत एवेति ॥८॥ ननु प्रयोग प्रति विप्रतिपद्यते वादिनः। तथाहि, प्रतिज्ञाहेतूदाहरणानाति व्यवयर्वमनुमानमिति साङ्ख्याः । सहोपनयेन चतुरवयवमिति मीमांसकाः।सहनिगमनेन पञ्चावयवमिति नैयायिकाः । तदेवं प्रतिपत्तौ कीदृशोऽनुमानप्रयोग इत्याह ॥ एतावान् प्रेक्षप्रयोगः ॥२-१-९॥ एतावानेव यदुत तथोपपत्त्यान्यथानुपपत्त्या वा युक्तं साधनं प्रतिज्ञा च प्रेक्षाय प्रेक्षावते प्रतिपाद्याय तदवबोधनार्थः प्रयोगो न त्वधिक यथाहुः सांख्यादयः । नापि हीनो यथाहुः सौगताः। विदुषां वाच्यो हेतुरेव हि केवल इति ॥९॥ ननु परार्थप्रवृत्तैः कारुणिकैर्यथाकथञ्चित् परे बोधयितव्या नास १ 'यथाहि ' इति क्वचित्पाठः। २ ५ सांख्यकारिकायां माठरवृत्तौ चोक्तोऽर्थः । ३ गौ. सू. १११।३२ इत्यत्रोक्तोर्थः । .. Page #104 -------------------------------------------------------------------------- ________________ प्रमाण प्रतिज्ञाहन एतानि चाव नवाः " इति सूत्र २-१-१० [ प्रमाण व्यवस्थोपन्यासैरमीषां प्रतीतिभंड: करणीयस्तत्किमुच्यते एतावान् प्रेक्षप्रयोग इत्याशक्य द्वितीयमपि प्रयोगक्रममुपदर्शयति॥ बोध्यानुरोधात्प्रतिज्ञाहेतृदाहरणोपनयननिगमनानि पञ्चापि ॥२-१-१०॥ बोध्यः शिष्यस्तस्यानुरोधस्तदवबोधनप्रतिज्ञापारतन्त्र्यं तस्मात् प्रतिज्ञादीनि पश्चापि प्रयोक्तव्यानि । एतानि चावयवसंज्ञया प्रोच्यन्ते । यदक्षपादः "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इति । अपिशब्दात् प्रतिज्ञादीनां शुद्धयश्च पञ्च बोध्यानुरोधात् प्रयोक्तव्याः । यतश्रीभद्रबाहुस्वामिपूज्यपादाः " कत्थइ पञ्चावयवं देसहा वा सव्व हा ण पडिकुटुंति" ॥१०॥ तत्र प्रतिज्ञाया लक्षणमाह ॥साध्यनिर्देशः प्रतिज्ञा ॥२-१-११॥ साध्यं सिपाधयिषितधर्मविशिष्टो धर्मी, निर्दिश्यते अनेनेति "निर्देशो वचनं, साध्यस्य निर्देशः साध्यनिर्देशः प्रतिज्ञा प्रतिज्ञायतेऽनयति कृत्वा यथायं प्रदेशोऽग्निमानिति॥ ११ ॥ हेतुं लक्षयति॥ साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥२-१-१२॥ साधनत्वाभिव्यञ्जिका विभक्तिः पञ्चमी तृतीया वा तदन्तसाधनस्योक्तलक्षणस्य वचनं हेतुः । धूम इत्यादिरूपस्य हेतुत्वनिराकर १ प्रतिभाभङ्गः १ । इति क्वचित्पाठः । २ गौतमसूत्र १-१-३२। ३ दशवैकालिकसूत्रोपरि हरिभद्रीय बृहद्धत्तिः अध्ययन १ गाथा १। ४ ' तदन्तं ' इति क्वचित्पाठः । Page #105 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र २-१-१५ णाय प्रथमं पदम् । अव्याप्तवचने हेतुत्वनिराकरणाय द्वितीयमिति । स द्विविधस्तथोपपत्त्यन्यथानुपपत्तिभ्याम्, तद्यथा धूमस्य तथैवोपपत्तेर्धूमस्यान्यथानुपपत्तेर्वेति ॥ १२ ॥ ७७ उदाहरणं लक्षयति ॥ दृष्टान्तवचनमुदाहरणम् ॥२- १ - १३ ॥ दृष्टान्त उक्तलक्षणस्तत्प्रतिपादकं वचनमुदाहरणं तदपि द्विविधं दृष्टान्तभेदात् साधनधर्मप्रत्युक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तस्तस्य वचनं साधम्र्योदाहरणम्, यथा यो धूमवान् सोऽग्निमान् यथा महानसप्रदेशः साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्य - दृष्टान्तस्तस्य वचनं वैधम्र्योदाहरणम्, यथा योऽग्निनिवृत्तिमान् स धूमनिवृत्तिमान् यथा जलाशयप्रदेश इति ॥ १३ ॥ उपनयलक्षणमाह ॥ धर्मिणि साधनस्योपसंहार उपनयः ॥२- १ - १४॥ दृष्टान्तधर्मिणि विप्रसृतस्य साधनधर्मस्य साध्यधामणे य उपसंहारः स उपनयः उपसंह्रियतेऽनेनोपनीयतेऽनेनेतिवचनरूपः, यथा धूमवांश्चायमिति ॥ १४ ॥ निगमनं लक्षयति ॥ साध्यस्य निगमनम् ||२-१-१५॥ साध्यधर्मस्य धर्मिण्युपसंहारो निगम्यते पूर्वेषामवयवानामर्थोऽनेनेति निगमनम्, यथा तस्मादग्निमानिति । एते नान्तरीयकत्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः । एतेषामेव शुद्धयः पञ्च । यतो न शङ्कितसमारोपितदोषाः पञ्चाप्यवयवाः स्वां स्वामनादिनवा - मर्थविषयां धियमाधातुमलमिति प्रतिज्ञादीनां तं तं दोषमाशङ्कय तत्तत्परिहाररूपाः पञ्चैव शुद्धयः प्रयोक्तव्या इति दशावयवमिदमनुमानवाक्यं बोध्यानुरोधात् प्रयोक्तव्यमिति ॥ १५ ॥ Page #106 -------------------------------------------------------------------------- ________________ सूत्र २-१-१६ ७८ [ प्रमाण इह शास्त्रे येषां लक्षणमुक्तं तल्लक्षणाभावे तदाभासाः सुप्रसिद्धा एव । यथा प्रमाणसामान्यलक्षणाभावे संशयविपर्ययानध्यवसायाः प्रमाणाभासाः, संशयादिलक्षणाभावे संशयाद्याभासाः , प्रत्यक्षलक्षणाभावे प्रत्यक्षाभासः, परोक्षान्तर्गतानां स्मृत्यादीनां स्वस्वलक्षणाभावे तत्तदाभासतेत्यादि । एवं हेतूनामपि स्वलक्षणाभावे हेत्वाभासता सुज्ञानव । केवलं हेत्वाभासानां सङ्ख्यानियमः प्रतिव्यक्तिनियतं लक्षणं च नेषत्करप्रतिपत्तीति तल्लक्षणार्थमाह॥ असिद्धविरुद्धानेकान्तिकास्त्रयो हेत्वाभासाः ॥२-१-१६॥ · अहेतवो हेतुवदाभासमाना हेत्वाभासा असिद्धादयः । यद्यपि साधनदोषा एवैते दुष्टे साधने तदभावात् तथापि साधनाभिधायके हेतावुपचारात् पूर्वाचार्यैरभिहितास्ततस्तत्प्रसिद्धिवाधामनाश्रयद्भिरस्माभिरपि हेतुदोषत्वेनैवोच्यन्त इति । त्रय इति संख्यान्तरव्यवच्छेदार्थम् । तेन कालातीतप्रकरणसमयोर्व्यवच्छेदः । तत्र कालातीतस्य पक्षदोषेष्वन्तर्भावः।"प्रत्यक्षागमबाधितधर्मिनिर्देशानन्तरप्रयुक्तः कालात्ययापदिष्ट" इति हि तस्य लक्षणमिति । यथाऽनुष्णस्तेजोऽवयवी कृतकत्वाद् घटवदिति । प्रकरणसमस्तु न सम्भवत्येव । नास्ति सम्भवो यथोक्तलक्षणेऽनुमाने प्रयुक्तेऽदृषिते वाऽनुमानान्तरस्य । यत्तूदाहरणमनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादित्येकेनोक्ते द्वितीय आह नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादिति । तदती वासाम्प्रतम् । को हि चतुरङ्गसभायां वादी प्रतिवादी चैवंविधमस १ न किंचिदुपयोगि । अपित्वत्यन्तोपयोगीत्यर्थः । २ 'चानुमानान्तरस्य' इति पाठः । ३ वादी १ प्रतिवादी २ तटस्थाः ३ मध्यस्थः ४ इतिचतुरवयवविशिष्टा सभा । साधु १ साध्वी २ श्रावक ३ श्राविका ४ इत्यपि परिभाषिकः चतुरङ्गसभाया अर्थः । परं सोऽत्र वादसभायामनुपयुक्तः । Page #107 -------------------------------------------------------------------------- ________________ मीमांसा ] ७९ सूत्र २-१-१८ म्बद्धमनुन्मत्तोऽभिदधीतेति ॥१६॥ तत्रासिद्धस्य लक्षणमाह॥ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वासिद्धः॥२-१-१७॥ असन्नविद्यमानो नान्यथानुपपन्नः इति सत्त्वस्यासिद्धौ असिद्धो हेत्वाभासः स्वरूपासिद्ध इत्यर्थः । यथा नित्यः शब्दश्चाक्षुषत्वादिति। अपक्षधर्मत्वादयमसिद्ध इति न मन्तव्यमित्याह नान्यथानुपपन्न इति अन्यथानुपपत्तिरूपहेतुत्वलक्षणविरहादयमासद्धो नापक्षधर्मत्वात्। नहि पक्षधर्मत्वं हेतोर्लक्षणं तदभावेप्यन्यथानुपपत्तिबलाद्धेतुत्वोपपत्तरित्युक्तप्रायम् ॥ भट्टोप्याह " पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा। सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते॥” इति । तथाऽनिश्चितसत्त्वः सन्दिग्धसत्त्वो नान्यथानुपपन्न इति सत्वस्य सन्देहेप्यसिद्धो हेत्वाभासः सन्दिग्धासिद्ध इत्यर्थः। यथा बाष्पादिभावेन सन्दिह्यमाना धूमलताग्निसिद्धावुपदिश्यमाना यथा वात्मनः सिद्धावपि सर्वगतत्वे साध्ये सर्वत्रोत्पलभ्यमानगुणत्वं प्रमाणाभावादिति ॥१७॥ असिद्धप्रभेदानाह॥वादिप्रतिवाद्युभयभेदाचैतद्भेदाः ॥२-१-१८॥ वादी पूर्वपक्षस्थितः प्रतिवाद्युत्तरपक्षस्थितः उभयं द्वावेव वादिप्रतिवादिनौ । तद्भेदादसिद्धस्य भेदस्तत्र वाद्यसिद्धो यथा परिणामी शब्द उत्पत्तिमत्त्वात् अयं साङ्ख्यस्य स्वयं वादिनोऽसिद्धः । तन्मते उत्पतिमत्त्वस्यानभ्युपेतत्वात् नासदुत्पद्यते नापि सद्विनश्यत्युत्पादविनाशयोराविर्भावतिरोभावरूपत्वादिति तत्सिद्धान्ताच्च । १ 'भेदः' इत्यपि क्वचित्पठाः । Page #108 -------------------------------------------------------------------------- ________________ सूत्र २-१-१८ ८० [ प्रमाण चेतनास्तरवः सर्वत्वगपहरणे मरणात् । अत्र मरणं विज्ञानेन्द्रियायुनिरोधलक्षणं तरुषु बौद्धस्य प्रतिवादिनोऽसिद्धम् । उभयासिद्धस्तु चाक्षुषत्वमुक्तमेव । एवं सन्दिग्धासिद्धोऽपि वादिप्रतिवाद्युभयभेदात् त्रिविधो बोद्धव्यः ॥ १८ ॥ नन्वन्येऽपि विशेष्यासिद्धादयो हेत्वाभासाः कैश्विदिष्यन्ते ते कस्मान्नोक्ता इत्याह ॥ विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥ २-१ -१९ ॥ एष्वेव वादिप्रतिवाद्युभयासिद्धेष्वेव । तत्र विशेष्यासिद्धादय उदाहियन्ते । विशेष्यासिद्धो यथाऽनित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वात् । विशेषणासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वे सति सामान्यविशेषवत्त्वात् । भागासिद्धो यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । आश्रयासिद्धो यथाऽस्ति प्रधानं विश्व परिणामित्वात् । आश्रयैकदेशासिद्धो यथा नित्याः प्रधानपुरुषेश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो यथा नित्यः शब्दः कृतकत्वे सति सामान्यवत्त्वात् । व्यर्थविशेषणासिद्धे यथाऽनित्यः शब्दः सामान्यवत्त्वे सति कृतकत्वात् । सन्दिग्धविशेष्यासिद्धो यथा अद्यापि रागादियुक्तः कपिल: पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । सन्दिग्धविशेषणासिद्धो यथा अद्यापि रागादियुक्तः कपिल: सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वादित्यादि । एतेऽसिद्धभेदा यदान्यतरवाद्यसिद्धत्वेन विवक्ष्यन्ते तदा वाद्यसिद्धाः प्रतिवाद्यसिद्धावाद्य वा भवन्ति, यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते तदोभयासिद्धा भवन्ति ॥ १९॥ 1 विरुद्धस्य लक्षणमाह । विपरीतनियमाऽन्यथैवोपपद्यमानो विरुद्धः । २-१-२०। विपरीतो यथोक्ताद्विपर्यस्तो नियमोऽविनाभावो यस्य स तथा Page #109 -------------------------------------------------------------------------- ________________ मीमांसा ] ८१ सूत्र २-१-२१ तस्यैवोपदर्शनमन्यथैवोपपद्यमान इति । यथा नित्यः शब्दः कार्यत्वात् परार्थाश्चक्षुरादयः सङ्घातत्वाच्छ्यनासनाद्यङ्गवदित्यत्रासंहतपारायें साध्ये चक्षुरादीनां संहतत्वं विरुद्धम् । बुद्धिमत्पूर्वकं क्षित्यादि कार्यत्वादित्यत्राशरीरसर्वज्ञकर्तृपूर्वकत्वे साध्ये कार्यत्वं विरुद्धसाधनाद्विरुद्धम् । अनेन येऽन्यैरन्ये विरुद्धा उदाहृतास्तेऽपि सङ्ग्रहीताः । यथाः सति सपक्षे चत्वारो भेदाः । पक्षविपक्षव्यापको यथा नित्यः शब्दः कार्यत्वात् । पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा नित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिवाह्येन्द्रियग्राह्यत्वात् । पक्ष1 कदेशवृत्तिर्विपक्षव्यापको यथाऽनित्या पृथ्वी कृतकत्वात् । पक्षवि - पक्षैकदेशवृत्तिर्यथा नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । असति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा आकाशविशेषगुणः शब्दः प्रमेयत्वात् । पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा आकाशविशेषगुणः शब्दो बाह्येन्द्रियग्राह्यत्वात् । पक्षैकदेशवृत्तिर्विपक्षव्यापको यथा आकाशविशेषगुणः शब्दोऽपदात्मकत्वात् । पक्षविपक्षैकदेशवृत्तिर्यथा आकाशविशेषगुणः शब्दः प्रयत्नानन्तरीयकत्वात् । एषु च चतुर्षु विरुद्धता पक्षैकदेशवृत्तिषु चतुर्षु पुनरसिद्धता विरुद्धता चेत्युभयसमावेश इति ।। २० ।। अनैकान्तिकस्य लक्षणमाह|| नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः ॥ २-१-२१॥ नियमोऽविनाभावस्तस्यासिद्धावनैकान्तिको यथाऽनित्यः शब्दः प्रमेयत्वात् प्रमेयत्वं नित्येऽप्याकाशादावस्तीति । सन्देहे यथा सर्वज्ञः कश्चिद्रागादिमान् वा वक्तृत्वात् । स्वभावविप्रकृष्टाभ्यां हि सर्वज्ञत्ववीतरागत्वाभ्यां हि न वक्तृत्वस्य विरोधः सिद्धः । न च रागादिकार्य वचनमिति सन्दिग्धोऽन्वयः । ये चान्येऽन्यैरनैकान्तिकभेदा ११ Page #110 -------------------------------------------------------------------------- ________________ सूत्र २-१-२१ [ प्रमाण उदाहृतास्त उक्तलक्षण एवान्तर्भवन्ति । पक्षत्रयव्यापको यथाऽनित्यः शब्दः प्रमेयत्वात् । पक्षसपक्षव्यापको विपक्षकदेशवृत्तिर्यथा गौरयं विषाणित्वात्, पक्षविपक्षव्यापकः सपक्षकदेशत्तिर्यथा नायं गौरविषाणित्वात् । पक्षव्यापकः सपक्षविपक्षैकदेशत्तिर्यथाऽनित्यः शब्दः प्रत्यक्षत्वात् । पक्षकदेशत्तिः सपक्षविपक्षब्यापको यथा न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् । पक्षविपक्षैकदेशवृत्तिः सपशव्यापी यथा न द्रव्याणि दिकालमनांस्यमूर्तत्वात् । पक्षसपकदेशत्तिर्विपक्षव्यापी। यथा द्रव्याणि दिक्कालमनांस्यमूर्तत्वात् । पक्षत्रयैकदेशत्तिर्यथाऽनित्या पृथ्वी प्रत्यक्षत्वा दिति ॥ २१॥ उदाहरणदोषानाह॥ साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥२-१-२२॥ परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात्तु दृष्टान्तदोषा इत्युच्यन्ते । दृष्टान्तस्य च साधर्म्यवैधर्म्यभेदेन द्विविधत्वात् प्रत्येकमष्टावष्टौ दृष्टान्तवदाभासमाना दृष्टान्ताभासा भवन्ति ॥ २२ ॥ तानेवोदाहरति विभजात च॥ अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटाः साध्यसाधनोभयविकलाः ॥ २-१-२३॥ नित्यः शब्दोऽमूर्तत्वादित्यस्मिन् प्रयोगे कर्मादयो यथासङ्घयं साध्यादिविकलाः । तत्र कर्मवदिति साध्यविकलः अनित्यत्वात् कर्मणः । परमाणुवदिति साधनविकलः मूर्तत्वात् परमाणूनाम् । घटवादिति साध्यसाधनोभयविकलः अनित्यत्वान्मूर्तत्वाच्च घटस्यति । इति त्रयः साधर्म्यदृष्टान्ताभासाः ॥ २३ ॥ १ 'त्रयोंऽपि ' इति क्वचित्पाठः । Page #111 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र २-१-२५ ॥ वैधर्म्येण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ।। २-१-२४ ॥ नित्यः शब्दोऽमूर्त्तत्वादित्यस्मिन्नेव प्रयोगे परमाणुकर्माकाशाः साध्यसाधनोभयाव्यतिरेकिणो दृष्टान्ताभासा भवन्ति यन्नित्यं न भवति तदमूर्तमपि न भवति यथा परमाणुरिति साध्याव्यतिरेकी नित्यत्वात् परमाणूनाम् । यथा कर्मेति साधनाव्यावृत्तः अमूर्तत्वात् कर्मणः । यथाकाशमित्युभयाव्यावृत्तः नित्यत्वादमूर्त्तत्वाच्चाकाशस्येति य एव वैधर्म्यदृष्टान्ताभासाः || २४ ॥ ८३ तथा ॥ वचनाद्रागे रागान्मरणधर्मत्व किंचिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्या पुरुषादयः ||२-१-२५॥ -- सन्दिग्धसाध्यसाधनोभयान्वयाः सन्दिग्धसाध्यसाधनोभयव्यतिरेकाr araat दृष्टान्ताभासा भवन्ति । क इत्याह, रथ्यापुरुषादयः कस्मिन् साध्ये रागे मरणधर्मकिंचिज्ज्ञत्वयोश्च । कस्मादित्याह वचनाद्रागाच्च । तत्र सन्दिग्धसाध्यधर्मान्वयो यथा विवक्षितः पुरुषविशेषो रागी वचनाद्रध्यापुरुषवत् । सन्दिग्धसाधनधर्मान्वयो यथा मरणधर्मायं रागाद्रथ्यापुरुषवत् । सन्दिग्धोभयधर्मान्वयो यथा किंचिज्ज्ञोऽयं रागाद्रध्यापुरुषवदिति । एषु परचेतोवृत्तीनां दुरधिगमत्वेन साधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिंचिज्ज्ञत्वयोः सत्त्वं सन्दिग्धम् । तथा सन्दिग्धसाध्यव्यतिरेको यथा रागी वचनाद्रध्यापुरुषवत् । सन्दिग्धसाधनव्यतिरेको यथा मरणधर्मायं रागाद्रथ्यापुरुषवत् । सन्दिग्धोभयव्यतिरेको यथा किंचिज्जोऽयं रागाद्रथ्यापुरुषवत् । एषु पूर्ववत् परचेतोवृत्तेर्दुरन्वयत्वाद्वैधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिंचिज्ज्ञत्वयोरसत्त्वं सन्दिग्धमिति ॥ २५ ॥ Page #112 -------------------------------------------------------------------------- ________________ सूत्र २-१-२६ B ८४ तथा ॥ विपरीतान्वयव्यतिरेकौ ॥ २-१-२६ ॥ विपरीतान्वयो विपरीतव्यतिरेकश्च दृष्टान्ताभासौ भवतः । तत्र विपरीतान्वयो यथा यत्कृतकं तदनित्यमिति वक्तव्ये यदनित्यं तत्कृतकं यथा घट इत्याह । विपरीतव्यतिरेको यथा अनित्यत्वाभावे न भवत्येव कृतकत्वमिति वक्तव्ये कृतकत्वाभावे न भवत्येवानित्यत्वं यथाकाश इत्याह । साधनधर्मानुवादेन साध्यधर्मस्य विधानमित्यन्वयः । साध्यधर्मव्यावृत्यनुवादेन साधनधर्मव्यावृत्तिविधानमिति व्यतिरेकः । तयोरन्यथाभावो विपरीतत्वम्, यदाह “साध्यानुवादाल्लिङ्गस्य विपरीतान्वेयो विधिः । हेत्वभावे त्वसत्साध्यं व्यतिरेकविपर्ययं " इति ॥ २६ ॥ [ प्रमाण ――――― तथा - ॥ अप्रदर्शितान्वयव्यतिरेकौ ॥ २-१-२७ ॥ अप्रदर्शितान्वयोऽप्रदर्शितव्यतिरेकञ्च दृष्टान्ताभासौ । एतौ च प्रमाणस्यानुपदर्शनाद्भवतो न तु धीप्सा सर्वावधारणपदानामप्रयोगात् । सत्स्वपि तेष्वसति प्रमाणे तयोरसिद्धेरिति साध्यविकलः १ साधनविकलः २ उभयविकलः ३ सन्दिग्धसाध्यान्वय: ४ सन्दिग्धसाधनान्वयः ५ सन्दिग्धोभयान्वयः ६ विपरीतान्वयः ७ अप्रदर्शितान्वयः ८ चेत्यष्टौ साधर्म्यदृष्टान्ताभासाः । साध्याव्यावृत्तसाधनाव्यावृत्तोभयव्यावृत्ताः सन्दिग्धसाध्यव्यावृत्तिसन्दिग्धसाधनव्यावृत्तिसन्दिग्धोभयव्यावृत्तयो विपरीतव्यतिरेकोऽप्रदर्शितव्यतिरेकश्चेत्यष्टावेव वैधर्म्यदृष्टान्ताभासा भवन्ति । नन्वनव्ययाव्यतिरेकावपि कैश्चिदृष्टान्ताभासावुक्तौ । यथा रागादिमानयं वचनात् । अत्र साधर्म्यदृष्टान्ते आत्मनि रागवचनयोः सत्यपि साहित्ये वैध१ ' विपरीतान्वये ' इति पाठः । Page #113 -------------------------------------------------------------------------- ________________ मीमांसा ]. सूत्र २-१-२९ Hदृष्टान्ते चोपलखण्डे सत्यामाप सह निवृत्तौ प्रतिबन्धाभावेनान्वयव्यतिरेकयोरभाव इत्यनन्वयाव्यतिरेको तौ कस्मादिह नोक्तौ । उच्यते । ताभ्यां पूर्वे न भिद्यन्त इति साधर्म्यवैधाभ्यां प्रत्येकमष्टावेव दृष्टान्ताभासा भवन्ति । यदाहुः, " लिङ्गास्यानन्वया अष्टावष्टावव्यतिरेकिणः । नान्यथानुपपन्नत्वं कथंचित् ख्यापयन्त्यमी ॥१॥" इति ॥ २७ ॥ अवसितं परार्थानुमानमिदानीं तन्नान्तरीयकं दृषणं लक्षयति ॥ साधनदोषोद्भावनं दूषणम् ॥२-१-२८ ॥ साधनस्य परार्थानुमानस्य येऽसिद्धविरुद्धादयो दोषाः पूर्वमुक्तास्तेपामुद्भासते प्रकाश्यतेऽनेनेत्युद्भावनं साधनदोषोद्भावकं वचनं दूषणम् । उत्तरत्राभूतग्रहणादिह भूता दोषोद्भावनादृषणेति सिद्धम् ॥ २८ ॥ दूषणलक्षणे दूषणाभासलक्षणं सुज्ञानमेव भेदप्रतिपादनार्थ तु तल्लक्षणमाह ॥ अभूतदोषोद्भावनानि दूषणाभासा जात्यु त्तराणि ॥२-१-२९॥ अविद्यमानानां साधनदोषाणां प्रतिपादनान्यदृषणान्याप दूषणवदाभासमानानि दूषणाभासाः । तानि च जात्युत्तरााण । जातिशब्दः सादृश्यवचनः उत्तरसदृशानि जात्युत्तराणि उत्तरस्थानप्रयुक्तत्वात् । उत्तरसदृशानि जात्युत्तराणि जात्या सादृश्यनोत्तराणि जात्युत्तराणि । तानि च सम्यग्घेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तदोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायाणि प्रत्यवस्थानान्यनन्तत्वात्परिसङ्ख्यातुं न शक्यन्ते । तथाप्यक्षपाददर्शितदिशा साधादिप्रत्यवस्थानभेदेन साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था १ गौतमसूत्र ५-१-१। Page #114 -------------------------------------------------------------------------- ________________ सूत्र २-१-२९ [प्रमाण पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमरूपतया चतुविंशतिः , उपदर्श्यन्ते । तत्र साधयेण प्रत्यवस्थानं साधर्म्यसमा जातिः । यथा नित्यः शब्दः कृतकत्वात् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानं नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दो न पुनराकाशसाधान्निरवयवत्वान्नित्य इति १। वैधर्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः । यथाऽनित्यः शब्दः कृतकत्वादित्यत्रैव प्रयोगे स एव हेतु(धर्येण प्रयुज्यते । नित्यः शब्दो निरवयवत्वात् । अनित्यं हि सावयवं दृष्टं घटादीति । न चास्ति विशेषहेतुर्घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न पुनस्तद्वैधान्निरवयवत्वान्नित्य इति २ उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती । तत्रैव प्रयोगे दृष्टान्तधर्म कांचित् साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते । यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवतु न चेन्मूर्तो घटवदनित्योऽपि माभूदिति शब्दे धर्मान्तरोत्कर्षमापादयति ३ अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोप्यस्तु नो चेद् घटवदनित्योपि माभूदिति शब्दे श्रावणत्वधर्ममपकर्पतीति ४ वर्ष्यावर्ष्याभ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती । ख्यापनीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यः तावेतौ वावण्यौँ साध्यदृष्टान्तधौं विपर्यस्यन्वावर्ण्यसमे जाती प्रयुङ्क्ते। यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग्घटधर्मो यादग्घटधर्मो न तादृक् शब्दधर्म इति ५-६ धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किंचिन्मृदु दृष्टं राङ्कवशय्यादि किंचिकठिनं कुठारादि एवं कृतकं किंचिदनित्यं भविष्यति घटादि किंचि१ ' प्रतिहेतुः' इति पाठः । २ ' यादृक् च ' इति क्वचित्पाठः । Page #115 -------------------------------------------------------------------------- ________________ मीमांसा ] ८७ सूत्र २-१-२९ नित्यं शब्दादीति ७ साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः । यथा यदि यथा घटस्तथा शब्दः प्राप्तं तर्हि यथा शब्दस्तथा घट इति घटोऽपि साध्यो भवतु । ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात्सुतरामदृष्टान्त इति ८ प्राप्त्यप्राप्तिीर्विकल्पाभ्यां प्रत्यवस्थानं प्रीत्यप्राप्तिसमे जाती । यथा यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत्किं प्राप्य साधयत्यप्राप्य वा । प्राप्य चेत् द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति द्वयोश्च सत्त्वात् किं कस्य साध्यं साधनं वा ९ अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति १० अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः । यथा यद्यनित्यत्वे कृतकत्वं साधनं कृतकत्व इदानीं किं साधनं तत्साधनेऽपि किं साधनमिति ११ प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः । यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदित्युक्ते जातिवाद्याह यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोद्भावनं भङ्गयन्तरेण प्रत्यवस्थानात् १२ अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः । यथानुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति १३ साधर्म्यसमा वैधर्म्यसमा वा या जातिः पूर्वमुदाहृता सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति । यथा किं घटसाधर्म्यात् कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाशसाधर्म्याद्वा निरवयवत्वाद्वा नित्य इति १४ द्वितीयपक्षोत्थापनबुद्ध्या प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति तथैवानित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वाच्छ १ ' प्रतिदृष्टान्त ' इत्यधिकं क्वचित्पुस्तके । Page #116 -------------------------------------------------------------------------- ________________ सूत्र २-१-२९ ८८ [ प्रमाण ब्दत्ववदिति उद्भावनप्रकारभेदमात्रे सात नानात्वं द्रष्टव्यम्, १५ त्रैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थानमहेतुसमा जातिः । यथा हेतुः साधनं तत्साध्यात्पूर्व पश्चात्सह वा भवेत् । यदि पूर्वमसति साध्ये तत्कस्य साधनम् अथ पश्चात्साधनम् पूर्व तर्हि साध्यं तस्मिन् पूर्व सिद्धे किं साधनेन अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति १६ अर्थापत्त्या प्रत्यवस्थानमापत्तिसमा जातिः। यद्यनित्यसाधास्कृतकत्वादनित्यः शब्दोऽर्थादापद्यते नित्यसाधान्नित्य इति अस्ति चास्य नित्येनाकाशादिना साधम्र्ये निरवयवत्वमित्युद्भावनं प्रकारभेद एवायामिति १७ अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः । यथा याद कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवति पक्षद्वयोपपत्त्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९ उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः। यथाऽनित्यः शब्दःप्रयनानन्तरीयकत्वादिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम् । साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वं शब्देऽपि कचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी न प्रयत्नकार्यः शब्दः प्रागुच्चारणादस्त्येव आवरणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेत्, Page #117 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र २-१-२९ आवरणानुपलम्भेप्यनुपलम्भसद्भावात् आवरणानुपलम्भादभावः । तदभावे चावरणोपलब्धर्भावो भवति । ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्यत्वाभावान्नित्यः शब्द इति २१ साध्यधर्मनित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्यसमा जातिः । यथाऽनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति येयमनित्यता शब्दस्योच्यतेसा किमानत्या नित्या वेति । यद्यनित्या तदियमवश्यमपायिनीत्यनित्यताया अपायानित्यः शब्दः । अथानित्यता नित्यैव तथापि धर्मस्य नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रयभूतः शब्दोऽपि नित्यो भवेत् तदनित्यत्वे तद्धनित्यत्वायोगादित्युभयथापि नित्यः शब्द इति २२ सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः । यथा घटेन साधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते तद् घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथाभावेऽपि नित्यत्वं तर्हि शब्दस्यापि तन्माभूदिति अनित्यत्वमात्रापादनपूर्वकविशेषोद्भावनाच्चाविशेषसमातो भिन्नेयं जातिः २३ प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः । यथाऽनित्य शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह प्रयत्नस्य द्वैरूप्यं दृष्टं किंचिदसदेव तेन जन्यते यथा घटादि । किंचित्सदेवावरणव्युदासादिनाभिव्यज्यते यथा मृदन्तरितमूलकीलादि । एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन शब्दो व्यज्यते जन्यते वति संशयति संशयापादनप्रकारभेदाच संशयसमातः कार्यसमा जातिर्भिद्यते २४ तदेवमुद्भावनविषयविकल्पभेदेन जातीनामान्त्येऽप्यसङ्कीर्णोदाहरणविवक्षया चतुर्विशतिर्जातिभेदा एते दर्शिताः । प्रतिसमाधानं तु सर्वजाती१ नावरणानुपलम्भसद्भावात् आवरणानुपलब्धेश्चानुपलम्भात् ' इति क्वचित्पाठः । १२ Page #118 -------------------------------------------------------------------------- ________________ [ प्रमाण नामन्यथानुपपत्तिलक्षणानुमानलक्षणहेतुपरीक्षणमेव । नह्यविप्लुतलक्षणे तावेवं प्रायाः पांशुपाताः प्रभवन्ति । कृतकत्वप्रयत्नानन्तरीयकत्वयोश्च दृढप्रतिबन्धत्वान्नावरणादिकृतं शब्दानुपलम्भनमपि त्वनित्यत्वकृतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्तव्यं न प्रतीपं जात्युत्तरैरेव प्रत्यवस्थेयमासमञ्जस्यप्रसङ्गादिति ॥ छलमपि च सम्यगुत्तरत्वाभावाज्जात्युत्तरमेव । उक्तं ह्येतदुद्भावनप्रकारभेदेनानन्तानि जात्युत्तराणीति । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातश्छलम्। तत्रिधा वाक्छलं सामान्यछलमुपचारछलं चेति । तत्र साधारणशब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थान्तरकल्पनया तन्निषेधो वाकुछलं यथा नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते परः सङ्ख्यामारोप्य निषेधति कुतोऽस्य नव कम्बला इति । सम्भावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यछलं यथाsहो न खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इति ब्राह्मस्तुतिप्रसङ्गे कचिद्वदति । सम्भवति ब्राह्मणे विद्याचरणसम्पदिति तच्छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नभियुङ्क्ते यदि ब्राह्मणे विद्याचरणसम्पद् भवति । व्रात्येऽपि सा भवेत्त्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यव - स्थानमुपचारछलं यथा मञ्चाः क्रोशन्तीति उक्ते परः प्रत्यवतिष्ठते कथमचेतनाः मञ्चाः क्रोशन्ति मञ्च स्थास्तु पुरुषाः क्रोशन्तीति । तदत्र छलत्रयेऽपि वृद्धव्यवहारप्रसिद्धशब्द सामर्थ्यपरीक्षणमेव समाधानं वेदितव्यमिति ॥ २९ ॥ साधनदूषणाभिधानं च प्रायो वादे भवतीति वादस्य लक्षण सूत्र २-१-२९ माह १ नेत्रेषु धूलिप्रक्षेपा इत्यर्थः । ९० Page #119 -------------------------------------------------------------------------- ________________ मीमांसा] ९१ सूत्र २-१-३० ॥तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः ॥२-१-३०॥ स्वपक्षसिद्धये वादिनः साधनं तत्प्रतिषेधाय प्रतिवादिनो दृषणम्। प्रतिवादिनोऽपि स्वपक्षसिद्धये साधनं तत्प्रतिषेधाय वादिनो दूषणम् । तदेवं वादिनः साधनदूषणे प्रतिवादिनोऽपि साधनदृषणे तयोर्वादिप्रतिवादिभ्यां वदनमाभिधानं वादः । कथामित्याह प्राश्निकादिसमक्षं प्राश्निकाः सभ्याः " स्वसमयपरसमयज्ञाः, कुलजाः पक्षद्वयेप्सिताः क्षमिणः । वादपथेष्वाभयुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः” इत्येवंलक्षणाः । आदिग्रहणेन सभापतिवादिप्रतिवादिपरिग्रहः । सेयं चतुरङ्गा कथा । एकस्याप्यगास्य वैकल्ये कथात्वानुपपत्तेः । नहि वर्णाश्रमापालनक्षम न्यायान्यायव्यवस्थापकं पक्षपातरहितत्वेन समदृष्टिं सभापतिं यथोक्तलक्षणांश्च प्राश्निकान् विना वादिप्रतिवादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ । नापि दुःशिक्षितकुतर्कलेशवाचालबालिशजनविप्लावितो गतानुगतिको जनः सन्मार्ग प्रतिपद्यतेति । तस्य फलमाह तत्त्वसंरक्षणार्थ तत्त्वशब्देन तत्त्वनिश्चयः साधुजनहृदयविपरिवर्ती गृह्यते तस्य रक्षणं दुर्विदग्धजनजनितविकल्पकल्पनात् इति । ननु तत्त्वरक्षणं जल्पस्य वितण्डाया वा प्रयोजन यदाह " तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखापरिचरणवत्" । इति न, वादस्यापि निग्रहस्थानवत्त्वेन तत्त्वसंरक्षणार्थत्वात् न चास्य निग्रहस्थानवत्त्वमासद्धम् । “प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति । वादल१ गौतमसूत्र १-२-१। २ गौतमसूत्र ४-२-४८ Page #120 -------------------------------------------------------------------------- ________________ सूत्र २-१-३० [ प्रमाण क्षणे सिद्धान्ताविरुद्ध इत्यनेनापसिद्धान्तस्य पञ्चावयवोपपपन्न इत्यनेन न्यूनाधिकयोर्हेत्वाभासपञ्चकस्य चेत्यष्टानां निग्रहस्थानानामनुज्ञानात् तेषां च निग्रहस्थानान्तरोपलक्षणत्वात् । अत एव न जल्पवितण्डे कथे वादस्यैव तत्त्वसंरक्षणार्थत्वात् । ननु " येथोक्तोपपन्नछलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः । से प्रतिपक्षस्थापनाहीना वितण्डा " इति लक्षणे भेदाज्जल्पवितण्डे अपि कथे विद्येते एव । न । प्रतिपक्षस्थापनाहीनाया वितण्डायाः कथात्वायोगात् । Aarushi हि स्वपक्षमभ्युपगम्यास्थापयन् यत्किंचिद्वादेन परपक्षमेव दूषयन् कथमवधेयवचनः । जल्पस्तु यद्यपि द्वयोरपि वादिप्रतिवादिनोः साधनोपालम्भसम्भावनया कथात्वं लभते तथापि न वादादर्थान्तरम् | वादेनैव चरितार्थत्वात् । छलजातिनिग्रहस्थानभूयस्त्वयोगादचरितार्थ इति चेत् । न । छलजातिप्रयोगस्य दूषणाभासत्वेनाप्रयोज्यत्वात् निग्रहस्थानानां च वादेप्यविरुद्धत्वात् । न खलु खटचपेटामुखबन्धादयोऽनुचिता निग्रहा जल्पेऽप्युपयुज्यन्ते । उचितानां च निग्रहस्थानानां वादेऽपि न विरोधोऽस्ति । तन्न वादात् जल्पस्य कश्चिद् विशेषोऽस्ति । लाभपूजाख्यातिकामितादीनि तु प्रयोजनानि तत्त्वाध्यवसायसंरक्षणलक्षणप्रधानफलानुबन्धीनि पुरुषधर्मत्वाद्वादेऽपि न निवारयितुं पार्यन्ते । ननु छलजातिप्रयोगोऽसदुत्तरत्वाद्वादे न भवति । जल्पे तु तस्यानुज्ञानादस्ति वादजल्पयोविंशेषः । यदाह “ दुःशिक्षितकुतर्कांशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः॥१॥ गतानुगतिको लोकः कुमार्गं तत्प्रतारितः । मा गादिति छलादीनि प्राह कारुणिको मुनिः " ॥ २ ॥ इति, नैवम् । । 1 १ गौतमसूत्र १-२-२ २ गौतमसूत्र १-२-३ | ९२ Page #121 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र २-१-३३ असदुत्तरैः परप्रतिक्षेपस्य कर्तुमयुक्तत्वात् । न ह्यन्यायेन जयं यशो धनं वा महात्मानः समीहन्ते । अथ प्रबलमातवादिदर्शनात् तज्जये धर्मध्वंससम्भावनातः प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासादसदुत्तरैपि पांशुभिरिवावकिरन्नेकान्तपराजयादरं सन्देह इति धिया न दोषमावहतीति चेत् । न । अस्यापवादिकस्य जात्युत्तरमयोगस्य कथान्तरसमर्थनसामर्थ्याभावात् वाद एव । द्रव्यक्षेत्रकालभावानुसारेण यद्यसदुत्तरं कथंचन प्रयुञ्जीत किमेतावता कथान्तरं प्रसज्येत । तस्माज्जल्पवितण्डा निराकरणेन वाद एवैकः कथाप्रथां लभत इति स्थितम् ॥ ३०॥ वादश्च जयपराजयावसानो भवतीति जयपराजययोर्लक्षणमाह ॥ स्वपक्षस्य सिद्धिर्जयः॥२-१-३१॥ वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा जयः। सा च स्वपक्षसाधनदोषपरिहारेण परपक्षसाधनदोषोद्भावनेन च भवति। स्वपक्षे साधनमब्रुवन्नपि प्रतिवादी वादिसाधनस्य विरुद्धतामुद्भावयन् वादिन जयति । विरुद्धृतोद्भावनेनैव स्वपक्षे साधनस्योक्तत्वात् । यदाह “विरुद्धहेतुमुद्भाव्य वादिनं जयतीतरः" इति ॥३१॥ ॥ असिद्धिः पराजयः ॥२-१-३२॥ वादिनः प्रतिवादिनो वा या स्वपक्षस्यासिद्धिः सा पराजयः । सा च साधनाभासाभिधानात् सम्यक्साधनेऽपि वा परोक्तदूषणानुद्धरणाद्भवति ॥३२॥ ननु यद्यसिद्धिः पराजयः स तर्हि कीदृशो निग्रहो निग्रहान्ता हि कथा भवतीत्याह - ॥ सनिग्रहो वादिप्रतिवादिनोः ॥२-१-३३॥ १ श्रीपदकलङ्कः ( ग्रन्थकृत् ) Page #122 -------------------------------------------------------------------------- ________________ सूत्र २-१-३३ ९४ [ प्रमाण स पराजय एव वादिप्रतिवादिनोर्निग्रहो न बधबन्धादि । अथवा स एव स्वपक्षासिद्धिरूपपराजयो निग्रहहेतुत्वान्निग्रहो नान्यो यथाहुः परे " विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति " ॥ ३३ ॥ तत्राह ॥ न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥ २-१-३४ ॥ विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिर्विप्रतिपत्तिः । साधना - भासे साधनबुद्धिर्दूषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्त्वारम्भविषयेऽनारम्भः । स च साधने दूषणे दूषणं चोद्धरणं तयोरकरणमप्रतिपत्तिः । द्विधा हि वादी पराजयिते यथा कर्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपद्यमान इति । विप्रतिपत्त्यप्रतिपत्ती एव विप्रतिपत्त्यप्रतिपत्तिमात्रं न पराजयहेतुः किं तु स्वपक्षस्यासिद्धिरेवेति विप्रतिपत्त्यप्रतिपत्त्योश्च निग्रहस्थानत्वनिरासात्तद्भेदानामपि निग्रहस्थानत्वं निरस्तम् । ते च द्वाविंशतिर्भवन्ति । तद्यथा १ प्रतिज्ञाहानिः २ प्रति - ज्ञान्तरं ३ प्रतिज्ञाविरोधः ४ प्रतिज्ञासंन्यासो ५ हेत्वन्तरं ६ अर्थान्तरं ७ निरर्थकं ८ अविज्ञातार्थ ९ अपार्थकं १० अप्राप्तकालं ११ न्यूनं १२ अधिकं १३ पुनरुक्तं १४ अननुभाषणं १५ अज्ञानं १६ अप्रतिभा १७ विक्षेपः १८ मतानुज्ञा १९ पर्यनुयोज्योपेक्षणं २० निरनुयोज्यानुयोगः २१ अपसिद्धान्तो २२ हेत्वाभासश्चेति । अत्राननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिप्रकाराः । शेषा विप्रतिपत्तिभेदा । तत्र प्रतिज्ञाहानेलक्षणं “प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः" इति - १ गौतमसूत्र १ - २ - १९ । २ गौतमसूत्र ५ - २ - १ । ३ गौतमसूत्र ५-२-२ । Page #123 -------------------------------------------------------------------------- ________________ मीमांसा ] ९५ सूत्र २-१-३४ सूत्रम् । अस्य भाष्यकारीयं व्यारव्यानं " साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः। यथाऽनित्यः शब्दःऐन्द्रियकत्वाद्घटवदित्युक्ते परःप्रत्यवतिष्ठते सामान्यमैन्द्रियकं नित्यं दृष्टं कस्मान्न तथा शब्दोऽपीत्येवं स्वप्रयुक्तस्य हेतोराभासतामवस्यन्नपि कथावसानमकृत्वा प्रतिज्ञात्यागं करोति यद्यन्द्रिकं सामान्यं नित्यं कामं घटोऽपि नित्योऽस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नियत्वं प्रसजयन् निगमनान्तमेव पक्षं जहाति । पक्षं च परित्यजन् प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात् पक्षस्येति"। तदेतदसङ्गतमेव । साक्षाद् दृष्टान्तहानिरूपत्वात् तस्यास्तत्रैव धर्मपरित्यागात् । परम्परया तु हेतूपनयनिगमनानामपि त्यागो, दृष्टान्तासाधुत्वे तेषामप्यसाधुत्वात् । तथा च प्रतिज्ञाहानेरेवेत्यसङ्गतमेव । वार्तिककारस्तु व्याचष्टे " दृष्टश्चासावन्ते स्थितत्वादन्तश्चेति दृष्टान्तः स्वपक्षः । प्रतिदृष्टान्तः प्रतिपक्षः । प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानन् प्रतिज्ञां जहाति यदि सामान्यमन्द्रि__ १ वात्स्यायन भाष्ये तु-" साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्यनुजानन्प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । निदर्शनम्-ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृतेऽपर आह दृष्टमैन्द्रिकत्वं सामान्ये नित्ये कस्मान्न तथा शब्द इति प्रत्यवस्थिते, इदमाह यद्यन्द्रियक सामान्यं नित्यं कामं घटो नित्योस्त्विति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं जहाति । पक्षं जहत्पतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति । गौतमसूत्र ५-२-२ ॥ २ न्यायवार्तिके तु " दृष्टश्चासावन्ते व्यवस्थित इति दृष्टान्तः स्वश्चासौ दृष्टान्तश्चेति स्वदृष्टान्तशब्देन पक्ष एवाभिधीयते प्रतिदृष्टान्तशब्देन च प्रतिपक्षः प्रतिपक्षश्चासौ दृष्टान्तश्चेति । एतदुक्तं भवति । परपक्षस्य यो धर्मस्तं स्वपक्ष एवानुजानातीति यथाऽनित्यः शब्दः ऐन्द्रियकवादिति द्वितीयपक्षवादिनि सामान्येन प्रत्यवस्थिते इदमाह यदि सामान्यमन्द्रियकं नित्यं दृष्टमिति शब्दोऽप्येवं भवत्विति" । न्यायवार्तिक पृ.५५२ ५.८ Page #124 -------------------------------------------------------------------------- ________________ सूत्र २-१-३४ [ प्रमाण यकं नित्यं शब्दोऽप्येवमस्त्विति” तदेतदापि व्याख्यानमसगन्तम् । इत्थमेव प्रतिज्ञाहानेरवधारयितुमशक्यत्वात् न खलुप्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानत एव प्रतिज्ञात्यागो येनायमेक एव प्रकारः प्रतिज्ञाहानौ स्यात् । अधिक्षेपादिभिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा निमित्तत्वात् किंचित् साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रतिजानानस्याप्युपलम्भात् पुरुषभ्रान्तेरनेककारणत्वोपपत्तिरित १ । प्रतिज्ञानार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमाभदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्याभिचारे नोदिते । यदि ब्रूयाद्युक्तं सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति सोऽयमनित्यः शब्द इति पूर्व प्रतिज्ञातः प्रतिज्ञान्तरमसर्वगतः शब्द इति कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति । एतदपि प्रतिज्ञाहानिवन्न युक्तम् । तस्याप्यनेकनिमित्ततोपपत्तेः प्रतिज्ञाहानितश्चास्य कथं भेदः पक्षत्यागस्योभयत्राविशेषात् । यथैव हि प्रतिदृष्टान्तधर्मस्य स्वदृष्टातेऽभ्यनुज्ञानात् पक्षत्यागस्तथा प्रतिज्ञान्तरादपि । यथा च स्वपक्षसिध्यर्थ प्रतिज्ञान्तरं विधीयते तथा शब्दानित्यत्वसिध्द्यर्थ भ्रान्तिवशात्तच्छब्दोऽपि नित्योऽस्त्वित्यनुज्ञानं यथा चाभ्रान्तस्येदं विरुध्यते तथा प्रतिज्ञान्तरमाप । निमित्तभेदाच्च तद्भेदेऽनिष्टनिग्रहस्थानान्तराणामप्यनुष्वङ्गः स्यात् । तेषां च तत्रान्तर्भावे प्रतिज्ञान्तरस्यापि प्रतिज्ञाहानावन्तर्भावः स्यादिति २ । प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तर १ "प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम्'।गौतमसूत्र ५-२-३। २ ' नित्यत्वोपपत्तेः ' इति क्वचित्पाठः । ३ गौतमसूत्र ५-२-४ । Page #125 -------------------------------------------------------------------------- ________________ मीमांसा ] सूत्र २-१-३४ स्यानुपलाब्धः । अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति सोऽयं प्रतिज्ञाहत्वोर्विरोधो यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः । अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति तदयं प्रतिज्ञाविरुद्धाभिधानात् पराजीयते। तदेतदसङ्गतम् । यतो हेतुना प्रतिज्ञायाः प्रतिज्ञात्वे निरस्ते प्रकारान्तरतः प्रतिज्ञाहानिरवेयमुक्ता स्यात् । हेतुदोषो वा विरुद्धालक्षणो न प्रतिज्ञादोष इति ३ । पक्षसाधने परेण दृषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निलवानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानं भवति । यथाजनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां याद ब्रूयात्क एवमाहानित्यः शब्द इति प्रतिज्ञासंन्यासात् पराजितो भवतीति । एतदपि प्रतिज्ञाहानितो न भिद्यते हेतोरनैकान्तिकत्वोपलम्भेनात्रापि प्रतिज्ञायाः परित्यागा. विशेषात् ४ । अविशेषाभिहिते हेतो प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्यस्य व्यभिचारेण दृषिते जातिमत्वे सतीत्यादिविशेषणमुपाददानो हेत्वन्तरेण निगृहीतो भवति । इदमप्यतिप्रसृतं यतोऽविशेषोक्ते दृष्टान्ते उपनये निगमने वा प्रतिषिद्धे विशेषामिच्छतो दृष्टान्ताद्यन्तरमपि निग्रहस्थानान्तरमनुषज्येत तत्तत्राप्याक्षेपसमाधानानां समानत्वादिति ५ कृतार्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं भवति । यथाऽनित्यः शब्द कृतकत्वादिति हेतुः। हेतुरिति हिनोतेर्धातोस्तुप्रत्यये कदन्तं पदम् पदं च नामाख्यातनिपातोपसर्गा इति प्रत्ययनामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यते । १ ‘पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यास :' इति गौतमसूत्र ५-२-५॥ २ 'अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्' । गौतमसूत्र ५-२-६ । ३ 'प्रकृतादादप्रतिसंबंधार्थमर्थान्तरम्' । गौतमसूत्र ५-२-७। Page #126 -------------------------------------------------------------------------- ________________ सूत्र २-१-३४ ९८ - [प्रमाण एतदप्यर्थान्तरं निग्रहस्थानं समर्थे साधने दूषणे वा प्रोक्त निग्रहाय कल्पेतासमर्थे वा । न तावत्समर्थे स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत् । असमर्थेऽपि प्रतिवादिनः पक्षासिद्धौ तन्निग्रहाय स्यादसिद्धौ वा । प्रथमपक्षे तत्पक्षसिद्धिरेवास्य निग्रहो न त्वतो निग्रहस्थानात् । दितीयपक्षेऽप्यतो न निग्रहः पक्षसिद्धरुभयोरप्यभावादिति ६ । अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं वाम निग्रहस्थानं भवति । यथा नित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदित्येतदपि सर्वथार्थशून्यत्वानिग्रहाय कल्पेत साध्यानुपयोगाद्वा । तत्राद्यविकल्पोऽयुक्तः। सर्वथार्थशून्यशब्दस्गवासम्भवात् । वर्णक्रमानिर्देशस्याप्यनुकार्येणार्थेनार्थवत्त्वोपपत्तेः । द्वितीयविकल्पे तु सर्वमेव निग्रहस्थानं निरर्थकं स्यात् । साध्यसिदावनुपयोगित्वाविशेषात् । किंचिद्विशेषमात्रण भेदेनं वात्कृतहस्तास्फालनकक्षापिट्टनादेरापि साध्यानुपयोगिनो निग्रहस्थानान्तरत्वानुषङ्ग इति ७ । यत्साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितमपि परिषत्पतिवादिभ्यां बोद्धं न शक्यते तदविज्ञातार्थ नाम निग्रहस्थानं भवति । अत्रेदमुच्यते । वादिना त्रिरभिहितमपि वाक्यं परिषत्प्रतिवादिभ्यां मन्दमतित्वादविज्ञातं गूढाभिधानतो वा द्रुतोच्चाराद्वा । प्रथमपक्षे सत्साधनवादिनोऽप्येतन्निग्रहस्थानं स्यात् । तत्राप्यनयोर्मन्दमतित्वेनाविज्ञातत्वसम्भवात् । द्वितीयपक्षे तु यत्र वाक्यप्रयोगेऽपि तत्प्रसङ्गो गूढाभिधानतया परिषत्प्रतिवादिनोर्महामाज्ञयोरग्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येतद्वादी व्याचष्टे गूढोपन्यासमप्यात्मनः स एव व्याचष्टामव्याख्याने तु जयाभाव एवास्य । न १ " वर्णक्रमनिर्देशवन्निरर्थकम् "। गौतमसूत्र ५-२-८ । २ 'भेदे वा षट् कृत ' इति क्वचित्पाठः । ३ "परिषत्प्रतिवादिभ्यां त्रिराभिहितमप्यविज्ञातमविज्ञातार्थम्" । गौतमसूत्र ५-२-९। Page #127 -------------------------------------------------------------------------- ________________ मीमांसा ] ९९ सूत्र २-१-३४ पुनर्निग्रहः । परस्य पक्षसिद्धेरभावात् । द्रुतोच्चारेप्यनयोः कथंचित् ज्ञानं सम्भवत्येव । सिद्धान्तवेदित्वात् । साध्यानुपयोगिनि तु वादिनः प्रलापमात्रे तयोरविज्ञानं नाविज्ञातार्थं वर्णक्रमनिर्देशवत् । . ततो नेदमविज्ञातार्थं निरर्थकाद्भिद्यत इति ८ । पूर्वापरासङ्गतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति यथा दशै दाडिमानि षडपूपा इत्यादि, एतदपि निरर्थकान्न भिद्यते । यथैव fe aasaarat वर्णानां नैरर्थक्यं तथात्र पदानामिति । यदि पुनः पदनैरर्थक्यं वर्णनैरर्थक्यादन्यत्वान्निग्रहस्थानान्तरं तर्हि वाक्यनैरर्थक्यस्याप्याभ्यामन्यत्वान्निग्रहस्थानान्तरत्वं स्यात् । पदवत्पौर्वापयेणाप्रयुज्यमानानां वाक्यानामप्यनेकधोपलभ्यात् “शङ्खः कदल्यां कदली च भेर्यां तस्यां च भेर्यां सुमहद्विमानम् । तच्छभेरीकदलीविमानमुन्मत्तगंगप्रतिमं बभूव ॥ " इत्यादिवत् । यदि पुनः पदनैरर्थक्यमेव वाक्यनैरर्थक्यं पदसमुदायात्मकत्वात् तस्य । तर्हि वर्णनैरर्थक्यमेव पदनैरर्थक्यं स्याद्वर्णसमुदायात्मकत्वात् तस्य । वर्णानां सर्वत्र निरर्थकत्वात् पदस्यापि तत्प्रसङ्गश्वेतर्हि पदस्यापि निरर्थकत्वात् तत्समुदायात्मनो वाक्यस्यापि नैरर्थ - क्यानुषङ्गः । पदस्यार्थवत्त्वेन पदार्थापेक्षया तस्यापि तदस्तु प्रकृतिप्रत्ययादिवत् न खलु प्रकृतिः केवला पदं प्रत्ययो वा । नाप्यनयोरनर्थकत्वम् अभिव्यक्तार्थाभावादनर्थकत्वे पदस्या पितत्स्यात् ॥ यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या । तयोः केवलयोरप्रयोगात्तथा देवदत्तस्तिष्ठतीत्यादिप्रयोगे स्याद्यन्त १ ' पौर्वापर्यांयोगादप्रतिसंबद्धार्थकम् ' । गौतमसूत्र ५ - २ - १० । २ पातञ्जलमहाभाष्ये १-१-१ । ३ ' वर्णस्यापि ' इति क्वचित्पाठः । ४ नामपदस्य । Page #128 -------------------------------------------------------------------------- ________________ सूत्र २-१-३४ १०० - [प्रमाण पदार्थस्य त्याद्यन्तपदार्थस्य च। स्त्यायन्तपदेनाभिव्यक्तेः केवलस्याप्रयोगः पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवर्णस्य सागानमिति ९। प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लङ्यावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं भवति स्वप्रातिपत्तिवत् परप्रतिपत्तेजनने परार्थानुमाने क्रमस्याप्यङ्गत्वात् एतदप्यपेशलम् । प्रेक्षावतां प्रतिपतृणामवयवक्रमनियम विनाप्यर्थप्रतिपत्त्युपलम्भात् । ननु यथापि शब्दाच्छ्रताच्छब्दस्मरणं ततोऽर्थप्रत्यय इति शब्दादेवार्थप्रत्ययः परम्परया तथा प्रतिज्ञाद्यवयवव्युत्क्रमात् तत्क्रमस्मरणं ततो वाक्यार्थप्रत्ययो न पुनस्तव्युत्क्रमात् । इत्यप्यसारम् । एवंविधप्रतीत्यभावात् यस्माद्धि शब्दादुच्चरिताद्यत्रार्थे प्रतीतिः स एव तस्य वाचको नान्योऽन्यथा शब्दात्तत्क्रमाचापशब्दे तद्व्यतिक्रमे च स्मरणं ततोऽर्थप्रतीतिरित्यपि वक्तुं शक्येत । एवं शब्दान्वाख्यानवैयमिति चेत् । नैवम् । वादिनोऽनिष्टगात्रापादनात् । अपशब्देऽपि चान्वाख्यानस्योपंलम्भात् । संस्कृताच्छब्दात्सत्यात् धर्मोऽन्यस्मादधर्म इति नियमे चान्यधर्माधर्मोपायानुष्ठानवैयर्थ्य धर्माधर्मयोश्चाप्रतिनियमप्रसङ्गोऽधार्मिके धार्मिके च तच्छब्दोपलम्भात् भवतु वा तत्क्रमादर्थप्रतीतिस्तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्येन व्युत्क्रम्यते तन्निरर्थकं न त्वप्राप्तकालमिति १० । पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन हीनं न्यूनं नाम निग्रहस्थानं भवति साधनाभावे साध्यसिद्धेरभावात् प्रतिज्ञादीनां च पश्चानामाप साधनत्वादित्यप्यसमीचीनम् । पञ्चावयवप्रयोगमन्तरेणापि साध्यसिद्धरभिधानात् । प्रतिज्ञा हेतुप्रयोगमन्तरेणैव तत्सिद्धे१ क्रियापदस्य । २ " अवयवविपर्यासवचनमप्राप्तकालम् ” । गौतमसूत्र ५-२-११ । ३ " हनिमन्यतमेनाप्यवयवेन न्यूनम् "। गौतमसूत्र ५-२-१२ । Page #129 -------------------------------------------------------------------------- ________________ १०१ मीमांसा ] सूत्र २-१-३४ रभावात् अतस्तद्धीनमेव न्यूनं निग्रहस्थानमिति ११ । एकेनैव हेतुनोदाहरणेन वोऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकं नाम निग्रहस्थानं भवति निष्पयोजनाभिधानात् । एतदप्ययुक्तम् । तथाविधाद्वाक्यात् पक्षसिद्धौ पराजयायोगात् । कथं चैवं प्रमाणसंप्लवोऽभ्युपगम्येताभ्युपगमे वाधिकान्निग्रहाय जायेत । प्रतिपत्तिदाढर्यसंवादसिद्धिप्रयोजनसद्भावान्न निग्रह इत्यन्यत्रापि समानम् । हेतुनोदाहरणेन चैकेन प्रसाधितेऽप्यर्थे द्वितीयस्य हेतोरुदाहरणस्य वा नानर्थक्यम् । तत्प्रयोजनसद्भावात् । न चैवमनवस्था कस्यचित् कचिनिराकाङ्क्षतापपत्तेः प्रमाणान्तरवत् । कथं चास्य कृतकत्वादौ स्वार्थिकप्रत्ययस्य वचनं यत्कृतकं तदनित्यमिति व्याप्तौ यत्तद्वचनवृत्तिपदप्रयोगादेव चार्थप्रतिपत्तौ वाक्यप्रयोगोऽधिकत्वान्निग्रहस्थानं न स्यात् । तथाविधस्याप्यस्य प्रतिपत्तिविशेषोपायत्वात्तवेति चेत् । कथमनेकस्य हेतोरुदाहरणस्य वा तदुपायभूतस्य वचनं निग्रहाधिकरणम् । निरर्थकस्य तु वचनं निरर्थकत्वादेव निग्रहस्थानं नाधिकत्वादिति १२ । शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानं भवत्यन्यत्रानुवादात् । शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते । यथाऽनित्यः शब्दोऽनित्यः शब्द इति । अर्थपुनरुक्तं यत्र सोऽर्थः प्रथममन्येन शब्देनोक्तः पुनः पर्यायान्तरेणाच्यते । यथा नित्यः शब्दोऽविनाशी ध्वनिरिति । अनुवादे तु पौनरुक्तमदोषो यथा “ हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्" इति । अत्रार्थपुनरुक्तमेवानुपपन्नं न शब्दपुनरुक्तमर्थभेदेन शब्दसाम्येऽप्यस्य सम्भवात् । यथा “ हसति हसति स्वामि १ " हेतूदाहरणाधिकमधिकम् ” । गौतमसूत्र ५-२-१३ । २ 'प्रतिपादितार्थे ' इति क्वचित्पाठः । ३ " शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ” । गौतमसूत्र ५-२-१४ । ४ गौतमसूत्र १-१-३९। । Page #130 -------------------------------------------------------------------------- ________________ सूत्र २-१-३४ [प्रमाण न्युच्चै रुदत्यतिरोदिति कृतपरिकरं स्वेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति "॥१॥ इत्यादि । ततः स्पष्टार्थवाचकैस्तैरवान्यैर्वा शब्दैः सभ्याः प्रतिपादनीयाः । तदप्रतिपादकशब्दानां तु सकृत् पुनः पुनर्वाभिधानं निरर्थकं न तु पुनरुक्तमिति । यदप्यादापन्नस्य स्वशब्देन पूनर्वचनं पुनरुक्तमुक्तं । यथाऽसत्सु मेघेषु वृष्टिर्न भवतीत्युक्तेऽर्थादापद्यते सत्सु भवतीति तत्कण्ठेन कथ्यमानं पुनरुक्तं भवति । अर्थगत्यर्थे हि शब्दप्रयोगे प्रतीतेऽर्थे किं तेनेति । एतदपि प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्यानिग्रहस्थानं नान्यथा। तथा चेदं निरर्थकान विशेष्यतोत १३ । पर्षदा विदितस्य वादिना त्रिरभिहितस्यापि यदप्रत्युच्चारणं तदननुभाषणं नामनिग्रहस्थानं भवति अप्रत्युच्चारयत् किमाश्रयं दूषणमाभिदधतीत्यत्रापि किं सर्वस्य वादिनाक्तस्याननुभाषणमुत प्रयत्नानान्तरीयिका साध्यसिद्धिस्तस्येति । तत्रायः पक्षोऽयुक्तः परोक्तमशेषमप्रत्युच्चास्यतोऽपि दूषणवचनाव्याघातात्। यथा सर्वमानत्यं सत्त्वादित्युक्ते सत्त्वादित्ययं हेतुर्विरुद्ध इति हेतुमेवाचार्य। विरुद्धतोद्भाव्यते क्षणक्षयायेकान्ते सर्वथार्थक्रियाविरोधात्सत्त्वानुपपत्तेरिति समर्थ्यते च । तावतापरोक्तहेतोर्दूषणात्किमन्योच्चारणेन । अतो यन्नांतरीयिका साध्यासद्धिस्तस्यैवाप्रत्युच्चारणमननुभाषणं प्रतिपत्तव्यम् । अथैवं दूषयितुम। समर्थः शास्त्रार्थपरिज्ञानविशेषविकलत्त्वात्तदायमुत्तराप्रतिपत्तेरेव तिरस्क्रियते न पुनरननुभाषणादिति १४ । पैर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं तदज्ञानं नाम निग्रहस्थानं भवति। १ " विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रेत्यु (नु) चारणमननुभाषणम्” । गौतमसूत्र ५-२-१६ । २ " अविज्ञानं चाज्ञानम् ” । गौतमसूत्र ५-२-१७ । Page #131 -------------------------------------------------------------------------- ________________ १०३ मीमांसा ] अविदितोत्तरविषयो हि कोत्तरं ब्रूयात् । न चाननुभाषणमेवेदं ज्ञातेऽपि वस्तुन्यननुभाषणासामर्थ्यदर्शनात् । एतदप्यसाम्प्रतम् । प्रतिज्ञाहान्यादिनिग्रहस्थानानां भेदभावानुषङ्गात् । तत्राप्यज्ञानस्यैव सम्भवात् तेषां तत्प्रभेदत्वे वा निग्रहस्थानप्रतिनियमाभावप्रसङ्गः परोक्तस्यार्धाज्ञानादिभेदेन निग्रहस्थानानेकत्वप्रसङ्गात् १५ । परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभा नाम निग्रहस्थानं भवति एषाप्यज्ञानान्न भिद्यते १६ । “ कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपो " नाम निग्रहस्थानं भवति सिषाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्तीदं मे करणीयं परिहीयते पीनसेन कण्ड उपरुद्ध इत्याद्यभिधाय कथां विच्छिन्दन् विक्षेपेण पराजीयते । एतदप्यज्ञानतो नार्थान्तरमिति १७ । स्वपक्षे परापादितदोषमनुद्धृत्य तमेव परपक्षे प्रतीपमापादयतो मतानुज्ञा नाम निग्रहस्थानं भवति । चौरो भवान् पुरुषत्वात्प्रसिद्धचौरवादित्युक्ते भवानपि चोरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितं चौरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निगृह्यते । इदमप्यज्ञानान्न भिद्यते । अनैकान्तिकता चात्र हेतोः स ह्यात्मीयहेतोरात्मीयेनैवानैकान्तिकतां दृष्ट्वा माह भवत्पक्षेऽप्ययं दोषः समानस्त्वमपि पुरुषो भवसीत्यनैकान्तिकत्वमेवोद्भावयतीति १८ । निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं भवति । पर्यनुयोज्यो नाम १ “ उत्तरस्याप्रतिपत्तिरप्रतिभा " । गौतमसूत्र ५ - २ - १८ । २ गौतमसूत्र ५ - २ - १९ । ३ पीनसो रोगविशेषः । C ४ न भिद्यते ' इति कचित्पाठः । सूत्र २-१-३४ face ५ “ स्वपक्षदोषाभ्युपगमात्परप ( " क्षदो " ) क्षे दोषप्रसङ्गो मतानुज्ञा गौतमसूत्र ५-२-२० । ६ " निग्रहस्थानप्रात्पस्यानिग्रहः पर्यनुयोज्योपेक्षणम्" । गौतमसूत्र ५-२-२१ । 53 1 Page #132 -------------------------------------------------------------------------- ________________ सूत्र २-१-३४ १०४ - [ प्रमाण निग्रहोपपत्त्यावश्यं नोदनीय इदं ते निग्रहस्थानमुपनतमतो निगृहीतोऽसीत्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणे निगृह्यते । एतच्च कस्य निग्रह इति अनुयुक्तया परिषदोद्भावनीयं न त्वसावात्मनो दोषं विवृणुयादहं निग्रा ह्यस्त्वयोपेक्षित इति । एतदप्यज्ञानान्न भिद्यते १९ । “ अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगो” नाम निग्रहस्थानं भवति । उपपन्नवादिनमप्रमादिनमनिप्रहाहमापि निगृहीतोऽसीति यो ब्रूयात्स एवाभूतदोषोद्भावनान्निगृह्यते । एतदपि नाज्ञानाद्यतिरिच्यते २० । “ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गाऽपसिद्धान्तो" नाम निग्रहस्थानं भवति । यः प्रथमं कश्चित् सिद्धान्तमभ्युपगम्य कथामुपक्रमते । तत्र च सिषाधयिषितार्थसाधनाय परोपालम्भाय वा सिद्धान्तविरुद्धमाभिधत्ते सोऽपसिद्धान्तेन निगृह्यते । एतदपि प्रतिवादिनः प्रतिपक्षसाधने सत्येव निग्रहस्थान नान्यथेति २१ । “ हेत्वाभासाश्च यथोक्ताः” असिद्धविरुद्धादयो निग्रहस्थानम् । अत्रापि विरुद्धहेतूद्भावनेन प्रतिपक्षसिद्धेनिग्रहाधिकरणत्वं युक्तमासिद्धायुद्भावने तुप्रतिवादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति २२ ॥ तदेवमक्षपादोपदिष्टं पराजयाधिकरणं परीक्ष्य सौगतागामितं तत्परीक्ष्यते ॥ नाप्यसाधनाङ्गवचनादोषोद्भावने स्वपक्षस्यासिद्धिरेव पराजयो नासाधनाङ्गवचनमदोषोद्भावनं च । यथाह धर्मकीर्तिः, " असाध नाङ्गवचनमदोषोद्भावनं द्वयोः निग्रहस्थानमन्यत्तु न युक्त १ गौतमसूत्र ५-२-२२। २ “ नाभियो” इति पाठः । गौतमसूत्र ५-२-२२ । ३ गौतमसूत्र ५-२-२३ । ४ गौतमसूत्र ५-२-२४ । Page #133 -------------------------------------------------------------------------- ________________ मीमांसा ] १०५ सूत्र २-१-३४ मिति नेष्यते" अत्र हि स्वपक्षं साधयन् वादिप्रतिवादिनोरन्यतरोऽसाधनाङ्गवचनाददोषोद्भावनाद्वा परं निगृह्णाति । प्रथमपक्षे स्वपक्षसिध्द्यैवास्य पराजयादन्योद्भावनं व्यर्थम् । द्वितीयपक्षे साधनाङ्गवचनाद्युद्भावनोपि न कस्यचिज्जयः । पक्षसिद्धरुभयोरभावात् । यच्चास्य व्याख्यानं साधनं सिद्धिस्तदङ्ग त्रिरूपं लिङ्गं तस्यावचनं तुष्णीम्भावो यत्किंचिद्भाषणं वा साधनस्य वा त्रिरूपलिङ्गस्याङ्गं समर्थनम् । विपक्षे बाधकप्रमाणोपदर्शनरूपं तस्यावचनं वादिनो निग्रहस्थानमिति तत्पञ्चावयवप्रयोगवादिनोऽपि समानम् । शक्यं हि तेनाप्येवं वक्तुं सिध्यङ्गस्य पञ्चावयवप्रयोगस्यावचनात् सौगतस्य वादिनो निग्रहः । ननु चास्य तदवचनेऽपि निग्रहः प्रतिज्ञानिगमनयोः पक्षधर्मापक्षधर्मोपसंहारसामर्थेन गम्यमानत्वाद्गम्यमानयोश्च वचने पुनरुक्तत्वानुषङ्गात् । तत्प्रयोगेऽपि हेतुप्रयोगमन्तरेण साध्यार्थाप्रसिद्धरित्यप्यसत् । पक्षधर्मोपसंहारस्याप्येवं वचनानुषगात् । अथ सामर्थ्याद्गम्यमानस्यापि यत्त्सत्तत्सर्व क्षाणिकं यथा घटः संश्च शब्द इति पक्षधर्मोपसंहारस्य वचनहेतोरपक्षधर्मत्वे त्वसिद्धत्वव्यवच्छेदार्थम्, तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानाया अपि प्रतिज्ञायाः प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थप्रतिप्रदर्शनार्थ निगमनस्य वचनं किं न स्यात् । नहि प्रतिज्ञादीनामकार्थत्वोपदर्शनमन्तरेण सङ्गतत्वं घटते भिन्ननिषयप्रतिज्ञादिवत् । ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात् अन्यथा नास्याः साधनाङ्गतेति चेत् । तर्हि भवतोऽपि हेतुतः साध्यसिद्धौ दृष्टान्तोऽनर्थकः स्यात् । अन्यथा नास्य साधनाङ्गतेति समानमू । ननु साध्यसाधनयोर्व्याप्तिपदर्शनार्थत्वात नानर्थको दृष्टान्तस्तत्र । तदप्रदर्शने हेतोरगमकत्वादित्यप्ययुक्तम् । . १ 'एकार्थत्व' इति क्वचित्पाठः । Page #134 -------------------------------------------------------------------------- ________________ सूत्र २-१-३४ १०६ [प्रमाण सर्वानित्यत्वसाधने सत्त्वादेदृष्टान्तासम्भवतोऽगमकत्वानुषङ्गात्। विपक्षव्यावृत्त्या सत्त्वादेर्गमकत्वे वा सर्वत्रापि हेतोस्तथैव गमकत्वप्रसङ्गात् दृष्टान्तोऽनर्थक एव स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिज्ञा प्रतिक्षिपेत् । तस्याश्वानभिधाने क हेतुः साध्यं वा वर्तते। गम्यमाने प्रतिज्ञाविषय एवेति चेत् । तर्हि गम्यमानस्यैव हेतोरपि समर्थनं स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनम् । तथा प्रतिज्ञावचने कोऽपरितोषः। यच्चेदमसाधनागमित्यस्य व्याख्यानान्तरं साधर्म्यण वचने वैधर्म्यवचनं वैधम्र्येण च प्रयोगे साधर्म्यवचनं गम्यमानत्वात् पुनरुक्तमतो न साधनाङ्गमित्यप्यसाम्पतम् । यतः सम्यक्साधनसामर्थेन स्वपक्षं साधयतो वादिनो निग्रहः स्यादसाधयतो वा प्रथमप्रत्यक्षेण साध्यसिद्धप्रतिबन्धिवचनाधिक्योपालम्भमात्रेणास्य निग्रहोऽविरोधात् । नन्वेवं नाटकादिघोषणतोऽप्यस्य निग्रहो न स्यात् । सत्यमेतत् । स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत् । अन्यथा ताम्बूलभक्षणभ्रूक्षेपखाट्कृतहस्तास्फालनादिभ्योऽपि सत्यसाधनवादिनोऽपि निग्रहः स्यात् । अथ स्वपक्षं प्रसाधयतोऽस्य ततो निग्रहः। नन्वत्रापि किं प्रतिवादिना स्वपक्षे साधिते वादिनो वचनाधिक्योपालम्भो निग्रहो लक्ष्येतासाधिते वा । प्रथमपक्षे स्वपक्षसिध्द्यैवास्य निग्रहाद्वचनाधिक्योद्भावनमनर्थकम् । तस्मिन् सत्यपि पक्षसिद्धिमन्तरेण जयायोगात्। द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो वा स्यात्। स्वपक्षसिद्धेरभावाविशेषात् । ननुन स्वपक्षसिध्यसिध्धिनिबन्धनौ जयपराजयौ । तयोर्जानाज्ञाननिबन्धनत्वात् । साधनवादिना हि साधुसाधनं ज्ञात्वा वक्तव्यं दूषणवादिना च दूषणं तत्र साधर्म्यवचनाद्वाऽर्थस्य प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभायामसाधनाङ्गवचन१ 'वैधर्म्यवचनात् ' इत्यधिकं क्वचित् । Page #135 -------------------------------------------------------------------------- ________________ मीमांसा ] १०७ सूत्र २-१-३४ स्योद्भावनात्साधुसाधनाज्ञानसिद्धेः पराजयः । प्रतिवादिनस्तु तद्दूषणज्ञाननिर्णयाजयः स्यात् । इत्यप्यविचारितरमणीयम् । यतः स प्रतिवादी सत्साधनवादिनः साधनाभासवादिनो वा वचनाधिक्यदोषमुद्भावयेत् । तत्राद्यपक्षे वादिनः कथं साधुसाधनाज्ञानं तद्वचनेयत्ताज्ञानस्यैवाभावात् । द्वितीयपक्षे तु न प्रतिवादिनो दूषणज्ञानमवतिष्ठते साधनाभासस्यानुद्भावनात्तद्वचनाधिक्यदोषस्य ज्ञानात् । दूषणज्ञोऽसाविति चेत् । साधनाभासाज्ञानाददूषणज्ञोऽपीति नैकान्ततो जयेत् । तददोषोद्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः। अथ वचनाधिक्यदोषो, दोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम् । नन्वेवं साधनाभासानुद्भावनात्तस्य पराजयासिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्पेत। अथ वचनाधिक्यं साधनाभासं चोद्भावयतः प्रतिवादिनो जयति कथमेवं साधर्म्यवचने वैधर्म्यवचनं वैधर्म्यवचने वा साधर्म्यवचनं पराजयाय प्रभवेत् । कथं चैवं वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैयर्थ्य न स्यात् । कचिदेकत्रापि पक्षे साधनसामर्थ्यज्ञानाज्ञानयोः सम्भवात् । न खलु शब्दादौ नित्यत्वस्यानित्यत्वस्य वा परीक्षायामकस्य साधनसामर्थे ज्ञानमन्यस्य चाज्ञानं जयस्य पराजयस्य वा निबन्धनं न भवति । युगपत्साधनासामर्थ्यज्ञाने च वादिप्रतिवादिनोः कस्य जयः पराजयो वा स्यादविशेषात् । न कस्यचिदिति चेत् तर्हि साधनवादिनो वचनाधिक्यकारिणः साधनसामर्थ्या: ज्ञानसिद्धेः प्रतिवादिनश्च वचनाधिक्यदोषोद्भावनात्तदोषमात्रज्ञानसिहेर्न कस्यचिन्जयः पराजयो वा स्यात् । नहि यो यदोषं वेत्ति स तद्गुणमपि कुतश्चिन्मारणशक्तौ वेदनेऽपि विषद्रव्यस्य कुष्ठापनयनशक्तौ संवेदनानुदयात् तन्न तत्सामर्थ्यज्ञानाज्ञाननिबन्धनौ जयपराजयो व्यवस्थापयितुं शक्यौ । यथोक्तदोषानुषङ्गात् । स्वपक्षसि Page #136 -------------------------------------------------------------------------- ________________ सूत्र 2-1-34 108 [प्रमाण द्वयसिद्धिनिबन्धनौ तु तौ निरवद्यौ पक्षप्रतिपक्षपरिग्रहवैयर्थ्याभावात् / कस्यचित् कुतश्चित् स्वपक्षसिद्धौ निश्चितायां परस्य तत्सिद्धयभावतः सकृज्जयपराजयप्रसङ्गात् / यच्चेदमदोषोद्भावनमित्यस्य व्याख्यानं प्रसज्यप्रतिषेधे दोषोद्भावनाभावमात्रमदोषोद्भावनम् / पर्युदासे तु दोषाभासानामन्यदोषाणां चोद्भावनं प्रतिवादिनो निग्रहस्थानमिति तद्वादिना दोषवति साधने प्रयुक्ते सत्यनुमतमेव / यदि वादी स्वपक्षं साधयेन्नान्यथा / वचनाधिक्यं तु दोषः प्रागेव प्रतिविहितो यथैव हि पञ्चावयवप्रयोगे वचनाधिक्यं यथा निग्रहस्थानं तथा व्यवयवप्रयोगे न्यूनतापि स्याद्विशेषाभावात् / प्रतिज्ञादीनि हि पञ्चाप्यनुमानं " प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इत्यभिधानात् तेषां मध्येऽन्यतमस्याप्यभिधाने न्यूनताख्यो दोषोऽनुषज्यत एव / हीनमन्यतमेनापि न्यूनमिति वचनात् ततो.ज़येतरव्यवस्थायां नान्यनिमित्तमुक्तानिमित्तादित्यलं प्रसङ्गेन / अयं च प्रागुक्तश्चतुरङ्गो वेदः - कदाचित्पत्रालम्बनमप्यपेक्षतेऽतस्तल्लक्षणमत्रावश्याभिधातव्यं यतो नाविज्ञातस्वरूपस्यावलम्बनं जयाय प्रभवति न चाविज्ञातस्वरूपं परपत्रं भेत्तुं शक्यमित्याहुः॥ इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाण- मीमांसायास्तवृत्तेश्च द्वितीयस्याध्या यस्य प्रथममाहिकं समाप्तम्॥ 1 गौतमसूत्र 1-1-32 // 2 " हीनमन्यतमेनाप्यवयवेन न्यूनम्” इति गौतमसूत्र 5-2-12 / 3 अवशिष्टो ग्रन्थो न लभ्यते /