________________
सूत्र १-१-३० ___३८ ...
[प्रमाण स्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ।” इत्यनुवादभङ्ग्या प्रत्यक्षलक्षणमाचक्षते । यदाहुः " एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत् ।” इति । व्याचक्षते च-इन्द्रियाणां सम्पयोगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति । अत्र संशयविपर्ययबुद्धिजन्मनोऽपीन्द्रियसंयोगे सति प्रत्यक्षत्वप्रसङ्गादतिव्याप्तिः। अथ सत्सम्पयोग इति सता सम्प्रयोग इति व्याख्यायते तर्हि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ सति सम्प्रयोग इति सत्सप्तमी पक्ष एव न त्यज्यते संशयविपर्ययनिरासाय च सम्पयोग इत्यत्र समित्युपसर्गो वर्ण्यते । यदाह संम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात् ॥” इति । तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कार्यतोऽवगतिर्वक्तव्या । कार्य च ज्ञानम् । न च तदविशेषितमेव प्रयोगसम्यक्त्वावगमनायालम् । न च तद्विशेषणपरमपरामिह पदमस्ति सतां सम्पयोग इति च वरं निरालम्बनविज्ञाननिवृत्तये सतीति तु सप्तम्यैव गतार्थत्वादनर्थकम् । 'येऽपि “ तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षं यद्विषयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षं यदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षम् ।” १ श्लोकवार्तिकसूत्र ४ श्लोक ३९ पूर्वार्धम् । २ श्लोकवार्तिकसूत्र ४ श्लोक ३९ उत्तरार्धम् । ३ श्लोकवार्तिकसूत्र ४ श्लोक ३९ उत्तरार्धम् । ४ मीमांसासूत्रवृत्तिकाराः । ५ मीमांसादर्शन पृष्ठ ६ पं. १७ । ६ तेनैव' इति पाठः।