SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३७ मीमांसा ] सूत्र १-१-३० शेनाऽज्ञानरूपस्य सत्रिकर्षादेः प्रामाण्यसमर्थनमयुक्तम् । कथं ह्यज्ञानरूपाः सन्निकर्षादयोऽर्थपरिच्छित्तौ साधकतमा भवन्ति । व्यभिचारात् सत्यपीन्द्रियार्थसन्निकर्षेऽर्थोपलब्धेरभावात् ज्ञाने सत्येव भावात् साधकतमं हि करणमव्यवहितफलं च तदिति । सन्निकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तर्हि स चक्षुषोऽर्थेन सह नास्ति । अप्राप्यकारित्वात्तस्य । दृश्यते हि काचाभ्रपटलस्फटिकादिव्यवहितस्यार्थस्य चक्षुषोपलब्धिः। अथ प्राप्यकारि चक्षुः। करणत्वाद्वास्यादिवदिति ब्रूषे । तयस्कान्ताकर्षणोपलेन लोहासनिकृष्टेन व्यभिचारः । न च संयुक्तसंयोगादिसन्निकर्षस्तत्र कल्पयितुं शक्यते । अतिप्रसङ्गादिति । सौगतास्तु प्रत्यक्षंकल्पनापोढमभ्रान्तम्' इति लक्षणमवोचन्। 'अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना तया रहितम्-तयापोढम्' इति । एतच्च व्यवहारानुपयोगित्वात्पमाणस्य लक्षणमनुपपन्नम् । तथा ह्येतस्माद्विनिश्चित्यार्थमर्थक्रियार्थिनस्तत्समर्थेऽर्थे प्रवर्तमाना विसंवादभाजो मा भूवनिति प्रमाणस्य लक्षणपरीक्षायां प्रवर्तन्ते परीक्षकाः । व्यवहारानुपयोगिनश्च तस्य वायससदसैद्दशनपरीक्षायामिव निष्फल: परिश्रमः निर्विकल्पोत्तरकालभाविनः सविकल्पकात्तु व्यवहारोपगमे वरं तस्यैव प्रामाण्यमास्थेयं किमविकल्पकेन र्शिखण्डिनेति । जैमिनीयास्तु धर्म प्रति अनिमित्तत्वव्याजेन “ सत्सम्प्रयोगे पुरुष १ न्यायबिन्दु प्रथम परिच्छेदे सूत्र ४. २ न्यायबिंदु प्रथम परिच्छेदे सूत्र ५. ३ एतत्समानम्-काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । गर्दभे कति रामाणीत्यषा मूर्खविचारणा ॥ १॥ ४ शिखण्डिन्-स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैव शिखण्डीति संज्ञया व्यवजहें । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान । सोऽपि च शिखण्डी पश्वादश्वत्थाम्ना हतः। ५ मीमांसादर्शन १-१-४.
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy