SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सूत्र १-१-३० [प्रमाण चइ धारणा होइ" तत्कथं स्मृतिहेतोरेव धारणात्वमसूत्रयः । सत्यम् । अस्त्यविच्युतिर्नाम धारणा । किन्तु साऽवाय एवान्तर्भूतेति न पृथगुक्ता । अवाय एव हि दीर्घदीर्घोऽविच्युतिर्धारणेत्युच्यत इति । स्मृतिहेतुत्वाद्वाऽविच्युतिर्धारणयैव सङ्ग्रहीता। न ह्यवायमात्रादविच्युतिविरहितात् स्मृतिर्भवति । गच्छत्तृणस्पर्शप्रायाणामवायानां परिशीलनविकलानां स्मृतिजनकत्वादर्शनात् । तस्मात् स्मृतिहेतू अविच्युतसंस्कारावनेन सङ्ग्रहीतावित्यदोषः । यद्यपि स्मृतिरपि धारणाभेदत्वेन सिद्धान्तेऽभिहिता तथापि परोक्षप्रमाणभेदत्वादिह नोक्तेति सर्वमवदातस् । इह च क्रमभाविनामध्यवग्रहादीनां कथञ्चिदेकत्वमवसेयम् । विरुद्धधर्माध्यासो ह्येकत्वप्रतिपत्तिपरिपन्थी। न चासौ प्रमाणप्रतिपन्नेऽर्थे प्रत्यर्थितां भजते । अनुभूयते हि खलु हर्षविषादादिविरुद्धविवर्ताक्रान्तमेकं चैतन्यं विरुद्धधर्माध्यासाच्च बिभ्यद्भिरपि कथमेकं चित्रपटीयं ज्ञानमेकानेकाकारोल्लेखशेखरमभ्युपगम्यते सौगतैः चित्रं वा रूपं नैयायिकादिभिरिति ।नैयायिकस्तु 'इंन्द्रियार्थसन्निकर्षात्पन्नं ज्ञानमव्यपदेशमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ' इति प्रत्यक्षलक्षणमीक्षन्ते । अत्र च पूर्वाचार्यकृतव्याख्यावैमुख्येन सङ्ख्यावद्भिस्त्रिलोचनवाचस्पतिप्रमुखैरयमर्थः समर्थितो यथेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारि प्रत्यक्षमित्येवं प्रत्यक्षलक्षणं यतः शब्दाध्याहारेण च यत्तदोर्नित्याभिसम्बन्धादुक्तविशेषणविशिष्टं ज्ञानं यतो भवति तत्तथाविधज्ञानसाधनं ज्ञानरूपमज्ञानरूपं वा प्रत्यक्षं प्रमाणामिति । अस्य च फलभूतस्य द्वयी गतिरविकल्पकं सविकल्पकं वा । तयोरुभयोरपि प्रमाणरूपत्वमाभिधातुं विभागवचनमेतदव्यपदेश्यं व्यवसायात्मकमिति । तत्रोभयरूपस्यापि ज्ञानस्य प्रामाण्यमुपेक्ष्य यतः शब्दाध्याहारक्ले१ गौतमसूत्र १-१-४।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy