SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र १-१-२२ त्वाभावात् । ननु परोक्षप्रमाणभेदरूपमूहाख्यं प्रमाणं वक्ष्यते तत्कस्तस्मादीहाया भेदः । उच्यते । त्रिकालगोचरः साध्यसाधनयोातिग्रहणपटुरूहः । यमाश्रित्य व्याप्तिग्रहणकाले योगवि सम्पद्यते प्रमातेति न्यायविदो वदन्ति । ईहा तु वार्त्तमानिकार्थविषया प्रत्यक्षप्रभेद इत्यपौनरुक्त्यम् । ईहा च यद्यपि चेष्टोच्यते तथापि चेतनस्य सेति ज्ञानरूपैवेति युक्तं प्रत्यक्षभेदत्वमस्याः । न चानिर्णयरूपत्वादप्रमाणत्वमस्याः शङ्कनीयम् । स्वविषये निर्णयत्वात् निर्णयान्तरासादृश्ये निर्णयान्तराणामप्यनिर्णयत्वप्रसङ्गः ॥२९॥ ॥ ईहितविशेषनिर्णयोऽवायः ॥ १-१-२९॥ ईहाक्रोडीकृते वस्तुनि विशेषस्य शाव एवायं शब्दो न शाई इत्येवंरूपस्यावधारणमवायः ॥२८॥ ॥ स्मृतिहेतुर्धारणा ॥ १-१-३०॥ स्मृतेरतीतानुसन्धानरूपाया हेतुः परिणामिकारणं संस्कार इति यावत् । सङ्ख्ययमसङ्ख्ययं वा कालं ज्ञानस्यावस्थानं धारणा । अवग्रहादयस्तु त्रय आन्तमौहूर्तिकाः। संस्कारस्य च प्रत्यक्षभेदरूपत्वात् ज्ञानत्वमुन्नेयम् । न पुनर्यथाहुः पैरे-' ज्ञानादतिरिक्तो भावनाख्योऽयं संस्कारः' इति । अस्य ह्यज्ञानरूपत्वे ज्ञानरूपस्मृतिजनकत्वं न स्यात् । नाहि सत्ता सत्तान्तरमनुविशति । अज्ञानरूपत्वे चास्यात्मधर्मत्वं न स्यात् । चेतनधर्मस्याचेतनत्वाभावात् । नन्वविच्युतिमाप धारणामन्वशिषन् वृद्धाः। यद्भाष्यकारः "अवि १ मुहूर्तः–घटिकाद्वयप्रमाणः कालविशेषः । मुहूर्त्तस्यान्तः अन्तर्मुहूर्त्तम् । इह " पारे मध्येऽन्तः षष्ठया वा" । इति हैमसूत्र ३-१-३०॥ इति विकल्पेनान्त:शब्दस्य प्राग् निपातो भवति । २ नैयायिकाः । ३ 'अविच्चुई धारणा तस्स' ॥१॥ विशेषावश्यकमूलद्वितीयगाथा । भाष्यगाथा १ ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy