________________
सूत्र १-१-२७ _____३४ प्रमाण
अवग्रहेहावायधारणात्मेत्युक्तामत्यवग्रहादीलंक्षयति॥अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः॥१-१-२७॥ __ अक्षमिन्द्रियं द्रव्यभावरूपम् अर्थो द्रव्यपर्यायात्मा तयोर्योगः सम्बन्धोऽनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणा योग्यता । नियता हि सा विषयविषयिणोः । यदाह " पुठं सुणेइ सई रूवं पुण पासइ अपुळं तु ।" इत्यादि । तस्मिन्नक्षार्थयोगे सति दर्शनमनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः । तदनन्तरमिति क्रमप्रतिपादनार्थमेतत् । एतेन दर्शनस्यावग्रहं प्रति पारिणामिककारणतोक्ता । नासत एव सर्वथा कस्यचिदुत्पादः, सतो वा सर्वथा विनाश इति दर्शनमेवोत्तरं परिणाम प्रतिपद्यते । अर्थस्य द्रव्यपर्यायात्मनोऽर्थक्रियाक्षमस्य ग्रहणं सम्यगेनिर्णय इति सामान्यलक्षणानुवृत्तेनिर्णयो न पुनरविकल्पकं दर्शनमात्रमवग्रहः । न चायं मानसो विकल्पः । चक्षुरादिसनिधानापेक्षत्वात् । प्रतिसंख्यानेनाप्रत्याख्येयत्वाच्च । मानसो हि विकल्पः प्रतिसङ्ख्यानेन निरुध्यते । न चायं तथेति न विकल्पः ॥ २७॥ ॥ अवगृहीतविशेषकाङ्क्षणमीहा ॥ १-१-२८॥
अवग्रहगृहीतस्य शब्दादेरर्थस्य किमयं शब्दः शाङ्खः शार्दो वेति संशये सति माधुर्यादयः शङ्खधर्मा एवोपलभ्यन्ते न कार्कश्यादयः शार्ङ्गधर्मा इत्यन्वयव्यतिरेकरूपविशेषपालोचनरूपा मतिश्चेष्टेहा । इह चावग्रहहयोरन्तराले अभ्यस्तेऽपि विषये संशयज्ञानमस्त्येव । आशुभावात्तु नोपलक्ष्यते । न तु प्रमाणम् । सम्यगनिर्णयात्मक___ १ अस्या उत्तरार्द्धम्- " गंधं रसं च फासं च बद्धपुटं वियागरे " ॥ विशेषावश्यकगाथा । संस्कृतच्छाया-" स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गंधं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ॥ ३३६॥
२ १-१-२। ३ शाङ्गस्य अयम् शारैः।