SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र १-१-२६ संन्दंशायोगोलकवत् ज्ञानार्थयोः कश्चिद ग्राह्यग्राहकभाव इति. मतम् । "भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् । इति वचनात् ।तर्हि सर्वज्ञज्ञानस्य वार्तमानिकार्थविषयत्वं न कथंचिदुपपद्यते । वार्तमानिकक्षणस्याजनकत्वात् । अजनकस्य चाग्रहणात् । स्वसंवेदनस्य च स्वरूपाजन्यत्वे कथं ग्राहकत्वं स्वरूपस्य वा कथं ग्राह्यत्वमिति चिन्त्यम् । तस्मात् स्वसामग्रीप्रभवयोः प्रकाशघटयोरिव ज्ञानार्थयोः प्रकाश्यप्रकाशकभावसम्भवान्न ज्ञाननिमित्तत्वमर्थालोकयोरिति स्थितम् । नन्वर्थाजन्यत्वे ज्ञानस्य कथं प्रतिकर्मव्यवस्था । तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वान् प्रत्यविशेषात् । नैवम् । तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणयोग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः । तदुत्पतावपि च योग्यतावश्याश्रयणीया । अन्यथाशेषार्थसान्निध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः। तदाकारता त्वर्थाकारसङ्क्रान्त्या तावदनुपपन्ना । अर्थस्य निराकारत्वप्रसङ्गात् । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यमित्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया । ततः- "अर्थेन घट्यत्येनां नहि मुक्त्वाऽर्थरूपताम् ।” इति यत्किञ्चिदेतत् । अपि च व्यस्ते समस्ते चैते ग्रहणकारणं स्याताम् । यदि व्यस्ते तदा कपालाद्यक्षणो घटान्त्यक्षणस्य जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः पामोति । तदुत्पत्तेस्तदाकारत्वाच्च । अथ समस्ते तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसञ्जात । ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरपूर्वज्ञानग्राहकत्वं प्रसज्येत । तन्न योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्यामः ॥२६॥ १ सन्दंश इति तप्तायोग्राहकः कारस्थोपकरणविशेषः ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy