________________
सूत्र १-१-२५
[ प्रमाण पुद्गलद्रव्याणि । भावमनस्तु तदावरणीयकर्मक्षयोपशमात्मा लब्धिरात्मनश्वार्थग्रहणोन्मुखो व्यापारविशेष इति ॥ २५ ॥
नन्वत्यल्पमिदमुच्यते 'इन्द्रियमनोनिमित्त' इति । अन्यदपि हि चक्षुर्ज्ञानस्य निमित्तमर्थ आलोकश्वास्ति । यदाहुः " रूपालोकमनस्कारचक्षुर्यः सम्प्रजायते । विज्ञानं मणिसूर्यांशुगोशकृद्भ्य इवानलः ॥" इत्यत्राह॥नार्थालोको ज्ञानस्य निमित्तव्यतिरेकात् ॥१-१-२६॥
बाह्यो विषयः प्रकाशश्च न चक्षुर्ज्ञानस्य साक्षात्कारणम् । देशकालादिवत्तु व्यवहितकारणत्वं न निवार्यते । ज्ञानावरणादिक्षयोपशमसामग्र्यामारादुपकारित्वेनाञ्जनादिवच्चक्षुरुपकारित्वेन चाभ्युपगमात् । कुतः पुनः साक्षान्न कारणत्वमित्याह-अव्यतिरेकात् व्यतिरेकाभावात् । नहि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम् । आप तु तदभावेऽभावलक्षणो व्यतिरेकोऽपि । न चासावलोकयोर्हेतुभावेऽस्ति । मरुमरीचिकादौ जलाभावेऽपि जलज्ञानस्य वृषदंशादीनां चालोकाभावेऽपि सान्द्रतमतमःपटलविलुप्तदशगतवस्तुप्रतिपत्तेश्च दर्शनात् । योगिना चातीतानागतार्थग्रहणे किमर्थस्य निमित्तत्वम् । निमित्तत्वे चार्थक्रियाकारित्वेन सत्त्वादतीतानागतत्वक्षतिः । न च प्रकाश्यादात्मलाभ एव प्रकाशकस्य । प्रकाशकत्वं प्रदीपादेर्घटादिभ्योऽनुत्पन्नस्यापि तत्प्रकाशकत्वदर्शनात् । ईश्वरज्ञानस्य च नित्यत्वेनाभ्युपगतस्य कथमर्थजन्यत्वं नाम । अस्मदादीनामपि जनकस्यैव ग्राह्यत्वाभ्युपगमे स्मृतिप्रत्यभिज्ञानादेः प्रमाणस्याप्रामाण्यप्रसङ्गः। येषां चैकान्तक्षणिकोऽर्थो जनकश्च ग्राह्यत इत्येतद् दर्शनम् । तेषामपि जन्यजनकयोर्जानार्थयोर्भिन्नकालत्वान्न ग्राह्यग्राहकभावः सम्भवति । अथ न जन्यजनकभावातिरिक्तं
१ " विलिस" इति पाठान्तरम् ।