________________
भीमांसा ]
३१
सूत्र १-१-२५
नहि तत्रायोग्यस्य तदुत्पत्तिराकाशवदुपपद्यते स्वार्थसंविद्योग्यतैव च लब्धिरिति । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् । नह्यव्यापृतं स्पर्शनादिसंवेदनं स्पर्शादि प्रकाशयितुं शक्तम् । सुषुप्तादीनामपि तत्प्रकाशकत्वमाप्तेः । स्वार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलत्वादिन्द्रियत्वानुपपत्तिरिति चेत् । न । कारणधर्मस्य कार्येऽनुवृत्तेः । नहि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदीपस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येन्द्रियत्वं तेनैव फलत्वमिष्यते येन विरोधः स्यात् । साधकतमस्वभावेन हि तस्येन्द्रियत्वं क्रियारूपतया च फलत्वम् । यथैव हि प्रदीपः प्रकाशात्मा करणम् । क्रियात्मा फलम् । स्वतन्त्रत्वाच्च कर्त्तेति सर्वमिदमनेकान्तवादे न दुर्लभमित्यलं प्रसङ्गेन ॥ २४ ॥ मनोनिमित्त इत्युक्तमिति मनो लक्षयति
॥ सवार्थग्रहणं मनः ॥ १-१-२५॥
I
सर्वे न तु स्पर्शनादीनां स्पर्शादिवत् प्रतिनियता एवार्था गृह्यन्ते तेनोत सर्वार्थग्रहणं 'मनोऽनिन्द्रियम्' इति ' नो इन्द्रियम्' इति चोच्यते । सर्वार्थ मन इत्युच्यमाने आत्मन्यपि प्रसङ्ग इति करणत्वप्रतिपादनार्थं ग्रहणमित्युक्तम् । आत्मा तु कर्त्तेति नातिव्याप्तिः सर्वार्थग्रहणं च मनसः प्रासिद्धमेव । यद्वाचकमुख्यः " श्रुतमनि। न्द्रियस्य " श्रुतमिति हि विषयिणा विषयस्य निर्देशः । उपलक्षणं च श्रुतं मतेः । तेन मतिश्रुतयोर्यो विषयः । समनसो विषय इत्यर्थः । मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु' इति वाचकवचनान्मतिश्रुतज्ञानयोः सर्वविषयत्वं सिद्धम् । मनोऽपि चेन्द्रियवद् द्रव्यभावभेदात् द्विविधमेव । तत्र द्रव्यमनो मनस्त्वेन परिणतानि
1
6
१ तत्त्वार्थाधिगमसूत्र २ - २२ ।
२ तत्वार्थाधिगमसूत्र १-२७ ।