________________
सूत्र १-१-२२
३०
[ प्रमाण
यणीयः । द्रव्येन्द्रियाणामपि परस्परं स्वारम्भकपुद्गलद्रव्येभ्यश्च भेदाभेदद्वारानेकान्त एव युक्तः । पुद्गलद्रव्यार्थादेशादभेदस्य पर्यायार्थादेशाच्च भेदस्योपपद्यमानत्वात् । एवमिन्द्रियविषयाणां स्पर्शादीनामपि द्रव्यपर्यायरूपतया भेदाभेदात्मकत्वमवसेयम् । तथैव निर्वाधमुपलब्धेः । तथा च द्रव्यमात्रं पर्यायमात्रं चेन्द्रियविषय इति स्पर्शादीनां कर्मसाधनत्वं भावसाधनत्वं च द्रष्टव्यम् ।। २२ ॥
द्रव्यभावभेदानीत्युक्तं तानि क्रमेण लक्षयति|| द्रव्येन्द्रियं नियताकाराः पुलाः ॥ १-१-२३॥ द्रव्येन्द्रियमित्येकवचनं जात्याश्रयणात् । नियतो विशिष्टो बाह्य आभ्यन्तरश्चाकारः संस्थानविशेषो येषां ते नियताकाराः पूरणगलनधर्माण: स्पर्शरसगन्धवर्णर्वन्तः पुद्गलाः । तथाहि श्रोत्रा - दिषु यः कर्णशष्कुलीप्रभृतिर्बाह्य: पुद्गलानां प्रचयो यश्चाभ्यन्तरः कदम्बगोल काद्याकारः स सर्वो द्रव्येन्द्रियम् । पुद्गलद्रव्यरूपत्वात् । अप्राधान्ये वा द्रव्यशब्दो यथाङ्गारमर्दको द्रव्याचार्य इति । अप्रधानामेन्द्रियं द्रव्येन्द्रियं व्यापारवत्यपि तस्मिन् सन्निहितेऽपि चालोक - प्रभृतीनि सहकारिपटले भावेन्द्रियं विना स्पर्शाद्युपलब्ध्यसिद्धेः॥२३॥
॥ भावेन्द्रियं लब्ध्युपयोगौ ॥ १-१-२४ ॥
लम्भनं लब्धिर्ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधानाध्यात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्त आत्मनः परिणामविशेष उपयोगः । अत्रापि भावेन्द्रियमित्येकवचनं जात्याश्रयणात् । भावशब्दोऽनुसपर्जनार्थः । यथैवेन्दनधर्मयोगित्वेनानुपचरितेन्द्रत्वो भावेन्द्र उच्यते । तथैवेन्द्रलिङ्गत्वादिधर्मयोगेनानुपचरितेन्द्रलिङ्गत्वादिधर्मयोग भावेन्द्रियम् । तत्र लब्धिस्वभावं तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावेन्द्रियतां प्रतिपद्यते ।
१ प्रधानार्थः ।