________________
२९
मीमांसा ]
सूत्र १-१-२२ सानाम् । स्पर्शन-रसन-प्राणानि पिपीलका-रोहिणिका-पोचकाकुंथु-तुंबुरक-त्रिपुस-बीज-कर्पासास्थिका-शतपदी-अयेनकतृणपत्र-काष्ठहारकादीनाम् । स्पर्शन-रसन-घ्राण-चढूंषि भ्रमरवठर-सारङ्ग–माक्षका-पुस्तिका-दंश—मशक-वृश्चिकनन्द्यावर्त्त-कीटक-पतगादीनाम् । सह श्रोत्रेण तानि । मत्स्य-उरग भुजग-पक्षि-चतुष्पदानां तिर्यग्योनिजानां सर्वेषां च नारकमनुष्यदेवानामिति । ननु वचनादानविहरणोत्सर्गानन्दहेतूनि वाक्पाणिपादपायूपस्थलक्षणान्यपीन्द्रियाणीति साङ्ख्यास्तत्कथं पञ्चैवेन्द्रियाणि । न । ज्ञानविशेषहेतूनामेवेहेन्द्रियत्वेनाधिकृतत्वात् चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्वकल्पनायामिन्द्रियानन्त्यप्रसङ्गश्चेष्टाविशेषाणामनन्तत्वात् । तस्माद्व्यक्तिनिर्देशात् पञ्चेन्द्रियाणि । तेषां च परस्परं स्यादभेदो द्रव्यार्थाभेदात् । स्याद्भदः पर्यायार्थादेशात् । अभेदैकान्ते हि स्पर्शनेन स्पर्शस्येव:रसादेरपि ग्रहणप्रसङ्गः। तथाचेन्द्रियान्तरकल्पनावैयर्थ्यम् । कस्यचित् साकल्ये वैकल्ये वान्येषां साकल्यवैकल्यप्रसङ्गश्च । भेदैकान्तेऽपि तेषामेकत्र सकलज्ञानजनकत्वाभावप्रसङ्गः सन्तानान्तरेन्द्रियवत् । मनस्तस्य जनकमिति चेत् । न । तस्येन्द्रियनिरपेक्षस्य तज्जनकत्वाभावात् । इन्द्रियापेक्षं मनोऽनुसन्धानस्य जनकमिति चेत्। सन्तानान्तरेन्द्रियापेक्षस्य कुतो न जनकत्वामिति वाच्यम् । प्रत्यासतेरभावादिति चेत् । अत्र का प्रत्यासत्तिरन्यत्रैकद्रव्यतादात्म्यात् । प्रत्यासत्त्यन्तरस्य च व्यभिचारादिति । एतेन तेषामात्मना भेदाभेदैकान्तौ प्रतिव्यूढौ । आत्मना करणानामभेदैकान्ते कर्तृत्वप्रसङ्गः । आत्मनो वा करणत्वप्रसङ्गः । उभयोरुभयात्मकप्रसङ्गो वा विशेषाभावात् । ततस्तेषां भेदैकान्ते चात्मनः करणत्वाभावः सन्तानान्तरकरणवद्विपर्ययो वेति प्रतीतसिद्धत्वाद्धाधकाभावाचानेकान्त एवाश्र
१ त्रसन्ति उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायांद्यासेवनार्थ स्थानान्तरमिति त्रसाः द्वीन्द्रियादयश्च ।