SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सूत्र १-१- २२ २ ८ ..... . [प्रमाण तथा च लिङ्गापरिज्ञानेऽनुमानानुदयात् तस्यानुमानात्परिज्ञानेऽनवस्थाप्रसङ्गः । नैवम् । भावेन्द्रियस्वसंविदितत्वेनानवस्थानवकाशात् । यद्वेन्द्रस्यात्मनो लिङ्गान्यात्मगमकानीन्द्रियाणि करणस्य वास्यादिवकधिष्ठितत्वदर्शनात् । तानि च द्रव्यभावरूपेण भिद्यन्ते । तत्र द्रव्येन्द्रियाणि नामकर्मोदयनिमित्तानि । भावेन्द्रियाणि पुनस्तदावरणवीर्यान्तरायक्षयोपशमनिमित्तानि । सैषा पञ्चसूत्री स्पर्शग्रहणलक्षणं स्पर्शनेन्द्रियं, रसग्रहणलक्षणं रसनेन्द्रियमित्यादि । सकलसंसारिषु भावाच्छरीरव्यापकत्वाच स्पर्शनस्य पूर्व निर्देशः। ततः क्रमेणाल्पाल्पजीवविषयत्वासनघ्राणचक्षुःश्रोत्राणाम् । तत्र स्पर्शनेन्द्रियं तदावरणक्षयोपशमसम्भवं पृथिव्यप्तेजोवायुवनस्पतीनां शेषेन्द्रियावरणवतां स्थावराणां जीवानाम् । तेषां च " पुंढवि चित्तमन्तमरवाया” इत्यादेराप्तागमात्सिद्धिः । अनुमानाच ज्ञानं कचिदात्मनि परमापकर्षवत् अपकृष्यमाणाविशेषत्वात् परिमाणवत् । यत्र तदपकर्षपर्यन्तस्त एकेन्द्रियाः स्थावराः । न च स्पर्शनेन्द्रियस्याप्यभावे भस्मादिषु ज्ञानस्यापकों युक्तः। तत्र हि ज्ञानस्याभाव एव न पुनरपकर्षस्ततो यथा गगनपरिमाणादारभ्यापकृष्यमाणविशेष परिमाणं परमाणौ परमापकर्षवत् । तथा ज्ञानमपि केवलज्ञानादारभ्यापकृष्यमाणविशेषमेकेन्द्रियेष्वत्यन्तमपकृष्यते । पृथिव्यादीनां च प्रत्येकं जीवत्वसिद्धिरग्रे वक्ष्यते । स्पर्शनरसनेन्द्रिये कृमि-अपादिकानूपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-जलौकाप्रभृतीनां १ दशवैकालिकस्य चतुर्थाध्ययने प्रथमसूत्रम् । व्याख्या-पृथिवी। चित्तं जीवलक्षणं तदस्यास्तीति चित्तवती सजीवेत्यर्थः । पाठान्तरं वा "पुढवि चित्तमत्तमक्खाया"। अत्र मात्रशब्दः स्तोकवाची । यथा सर्षपविभागमात्रमिति । ततश्चित्तमात्रा स्तोकचित्तेत्यर्थः । आख्याता सर्वज्ञेन कथिता । २ इयं जीवत्वसिद्धिरत्राध्यायद्वये नास्ति तदने स्यात् ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy