SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] त्रसू १-१-२२ कारणं यस्य स तथा । सामान्यलक्षणानुवृत्तेः । सम्यगर्थनिर्णयस्येदं विशेषणं तेनेन्द्रियमनोनिमित्तः सम्यगर्थनिर्णयः । कारणमुक्त्वा स्वरूपमाह — अवग्रहेहावायधारणात्मा । अवग्रहादयो वक्ष्यमाणलक्षणाः । त आत्मा यस्य सोऽवग्रहेहावायधारणात्मा । आत्मग्रहणं च क्रमेणोत्पद्यमानानामप्यवग्रहादीनां नात्यन्तिको भेदः किन्तु पूर्वपूर्वस्योत्तरोत्तररूपतया परिणामादेकात्मकत्वमिति प्रदर्शनार्थम् । समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारस्तत्प्रयोजनं सांव्यवहारिकम् । प्रत्यक्षम् इन्द्रियमनोनिमित्तं च समस्तं व्यस्तं च बोद्धव्यम् इन्द्रियप्राधान्यान्मनोबलाधानाच्चोत्पद्यमान इन्द्रियजो मनस एव विशुद्धिसव्यपेक्षा दुपजायमानो मनोनिमित्त इति । ननु स्वसंवेदनरूपमन्यदपि प्रत्यक्षमस्ति तत्कस्मान्नोक्तमिति न वाच्यम् । इन्द्रियजज्ञानस्वसंवेदनस्येन्द्रियप्रत्यक्षेऽनिन्द्रियजसुखादिस्वसंवेदनस्य मनःप्रत्यक्षे योगिप्रत्यक्षस्वसंवेदनस्य योगिप्रत्यक्षेऽन्तर्भावात् । स्मृत्यादिस्वसंवेदनं तु मानसमेवेति नापरं स्वसंवेदनं नाम प्रत्यक्षमस्तीति भेदेनोक्तम् ।। २१ ॥ इन्द्रियेत्युक्तमितीन्द्रियाणि लक्षयति॥ स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनप्राणचक्षुः श्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि ।। १-१-२२॥ स्पर्शादिग्रहणं लक्षणं येषां तानि यथासङ्ख्यं स्पर्शनादीनीन्द्रियाणि । तथाहि स्पर्शाद्युपलब्धिः करणपूर्वा क्रियात्वात् छिदित्रियावत् । तत्रेन्द्रेण कर्मणा सृष्टानीन्द्रियाणि । नामकर्मोदयनिमित्तत्वात् इन्द्रस्यात्मनो लिङ्गानि वा । कर्ममलीमसस्य हि स्वयमर्थानुपलब्धुमसमर्थस्यात्मनोऽर्थोपलब्धौ निमित्तानि इन्द्रियाणि । नन्वेवमात्मनोऽर्थज्ञानमिन्द्रियात् लिङ्गादुपजायमानमानुमानिकं स्यात् । I x १-१-२७; १-१-२८; १-१-२९; १-१-३० सूत्रेषु । २७
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy