________________
सूत्र १-१-१९
.. [प्रमाण मनुष्याणां तिरश्वां च । मनसो द्रव्यरूपस्य पर्यायाश्चिन्तनानुगुणाः परिणामभेदास्तद्विषयं ज्ञानं मनःपर्यायः । तथाविधमनःपर्यायान्यथानुपपत्त्या तु यद्बाह्यचिन्तनीयार्थज्ञानं तदानुमानिकमेव न मनःपर्यायप्रत्यक्षम् । यदाहुः 'जाणइ बज्झे णुमाणा उत्ति' ॥१९॥
ननु रूपिद्रव्यविषयत्वे क्षायोपशमिकत्वे च तुल्ये को विशेषोऽवधिमनःपर्याययोरित्याह॥ विशुद्धिक्षेत्रस्वामिविषयभेदात्तद्भेदः ॥ १-१-२०॥ __ सत्याप कथञ्चित्साधर्म्य विशुद्धादिभेदादवधिमनःपर्यायज्ञानयोभेंदः । तत्रावधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यानि हि मनोद्रव्याणि अवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि जानीते । क्षेत्रकृतश्चानयोर्भेदः । अवधिज्ञानमङ्गलस्यासङ्ख्यभागादिषु भवत्यासर्वलोकात् । मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति । स्वामिकृतोऽपि, अवधिज्ञानं संयतस्यासंयतस्य संयतासंयतस्य च सर्वगतिषु भवति ।मनःपर्यायज्ञानं तु मनुष्यसंयतस्य प्रकृष्टचारित्रस्य प्रमत्तादिषु क्षीणकषायान्तेषु गुणस्थानकेषु भवति । तत्रापि वर्धमानपरिणामस्य नेतरस्य । वर्धमानपरिमाणस्यापि ऋद्धिमाप्तस्य नेतरस्य । ऋद्धिप्राप्तस्यापि कस्याचिन्न सर्वस्योत । विषयकृतश्च रूपवद्रव्येष्वसर्वपर्यायेष्ववधर्विषयनिबन्धस्तदनन्तभागे मनःपर्यायस्यति ॥२०॥ अवसितं मुख्यं प्रत्यक्षम् । अथ सांव्यवहारिकमाह॥ इन्द्रियमनोनिमित्तोऽवग्रहहावायधारणात्मा
सांव्यवहारिकम् ॥ १-१-२१॥ इन्द्रियाणि स्पर्शनादीनि वक्ष्यमाणलक्षणानि । मनश्च निमित्तं
१ अत्र ' जाणई बज्झेणुमाणेणम् ' इति पाठः । छाया-जानाति बाह्यानुमानेन । विशेषावश्यके गाथा ८१४ ।
* १-१-२२ सूत्रे ।