SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र १-१-१९ नुमानं तद्बाधकं ब्रूषे। तदसत् । यतो यदि प्रमाणपरिदृष्टार्थवक्तृत्वमात्रं हेतुस्तदा विरुद्धः। तादृशस्य वक्तृत्वस्य सर्वज्ञ एव भावात् । अथासद्भूतार्थवक्तृत्वं तदा सिद्धसाध्यताः। प्रमाणविरुद्धार्थवादिनामसर्वज्ञत्वेनेष्टत्वात् । वक्तृत्वमात्रं तु सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् । ज्ञानप्रकर्षे वक्तृत्वापकर्षादर्शनात् । प्रत्युत ज्ञानातिशयवतो वक्तृत्वातिशयस्यैवोपलब्धेः । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि यदि रागाद्यदूषितं तदा विरुद्धम् । ज्ञानवैराग्यादिगुणयुक्तपुरुषत्वस्य सर्वज्ञतामन्तरेणानुपपत्तेः । रागादिदूषिते तु पुरुषत्वे सिद्धसाध्यता । पुरुषत्वसामान्यं तु सन्दिग्धविपक्षव्यावृत्तिकमित्यबाधकम् । नाप्यागमस्तद्धाधकः । तस्यापौरुषेयस्यासम्भवात् । सम्भवे वा तद्धाधकस्य तस्यादर्शनात् सर्वज्ञोपज्ञश्चागमः कथं तद्बाधक इत्यलमतिप्रसङ्गेनेति ॥ १७ ॥ न केवलं केवलमेव मुख्यं प्रत्यक्षमपि त्वन्यदपीत्याह॥ तत्तारतम्येऽवधिमनःपर्यायौ च ॥ १-१-१८॥ - सर्वथावरणविलये केवलं तस्यावरणविलयस्य तारतम्ये आवरणक्षयोपशमाविशेषे तन्निमित्तकोऽवधिरवधिज्ञानं मनःपर्यायो मन:पर्यायज्ञानं च मुख्यामन्द्रियानपेक्षं प्रत्यक्षम् । तत्रावधीयत इत्यवधिः मर्यादा सा च "रूपिष्ववधेः" इति वचनात् रूपवद्रव्यविषया अवध्युपलाक्षितं ज्ञानमण्यवधिः ॥ १८ ॥ ॥स द्वधा भवप्रत्ययो गुणप्रत्ययश्च ॥ १-१-१९॥ तत्राद्यो देवनारकाणां पक्षिणामिव वियद्गमनम् । गुणप्रत्ययो १ " उपज्ञाते ” इति हेमसूत्रम् ६-३-१९१ । बृहद्वृत्तिः-तेनेति वर्तते । प्रथमतः उपदेशेन विना वा ज्ञातं उपज्ञातं, प्रथमतः कृतं वोपज्ञातम् । तस्मिन्नर्थे तृतीयाधन्ताद्यथाविहितं प्रत्ययो भवति । पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् । २ तत्त्वार्थाधिगमसूत्रस्य प्रथमाध्याये सूत्रम् २८ ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy