________________
सूत्र १-१-१६ २४
- [प्रमाण विप्रतिपद्यामहे । अवोचाम हि " यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते" ॥ इति । केवलं ब्रह्मादिदेवताविषयाणां श्रुतिस्मृतिपुराणेतिहासकथानां वैतथ्यमासज्येत ॥ १६॥
तदेवं साधकेभ्यः प्रमाणेभ्योऽतीन्द्रियज्ञानसिद्विरुक्ता बाधकाभावाच्च सुनिश्चिता
॥ असम्भवद्वाधकत्वात् सुखादिवत् ॥ १-१-१७॥ __ तत्सिद्धिरिति सम्बध्यते । तथाहि केवलज्ञानबाधकं भवत् प्रत्यक्षं वा भवेत् प्रमाणान्तरं वा । न तावत् प्रत्यक्षम् । तस्य विधाने एवाधिकारात् । “संबंद्धं वर्तमानं च गृह्यते चक्षुरादिना।" इति स्वयमेव भाषणात् । अथ न प्रवर्तमानं प्रत्यक्षं तद्वाधकं किन्तु निवर्तमानम् । तद्धि यदि नियतदेशकालविषयत्वेन बाधकं तर्हि सम्पतिपद्यामहे । अथ सकलदेशकालविषयत्वेन, तर्हि न तत् सकलदेशकालपुरुषपरिषत्साक्षात्करणमन्तरेण सम्भवतीति सिद्धं नः समीहितम् । न च जमिनिरन्यो वा सकलदेशादिसाक्षात्कारी सम्भवति । सत्त्वपुरुषत्वादेः रथ्यापुरुषवत् । अथ प्रज्ञायाः सातिशयत्वात्तत्प्रकर्षोऽप्यनुमीयते । तर्हि तत एव सकलार्थदर्शी किं नानुमीयते । स्वपक्षे चानुपलम्भमप्रमाणयन् सर्वज्ञाभावे कुतः प्रमाणयेदविशेषात् । न चानुमानं तद्बाधकं सम्भवति । धर्मिग्रहणमन्तरेणानुमानाप्रवृत्तेः । धर्मिग्रहणे वा तद्ग्राहकप्रमाणबाधितत्वादनुत्थानमेवानुमानस्य । अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् पुरुषत्वाद्वा रथ्यापुरुषवदित्य
१ श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक ३१ । २ श्लोकवार्तिक सूत्र ४ श्लोक ८४ ।