SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र १-१-३१ इत्येवं तत्सर्वतो व्यत्ययेन लक्षणमनवद्यमित्याहुः । तेषामाप क्लिष्टकल्पनैव संशयज्ञानेन व्यभिचारानिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्पयोग इन्द्रियाणामस्त्येव । यद्याप चोभयविषयं ज्ञानं संशयज्ञानं तथापि तयोरन्यतरेणेन्द्रियं संयुक्तमेव । उभयावमार्शत्वाच्च संशयस्य । येन संयुक्तं चक्षुस्तद्विषयमापि तज्ज्ञानं भवत्येवेति नातिव्याप्तिपरिहारः। अव्याप्तिश्च चाक्षुषज्ञानस्येन्द्रियसम्प्रयोगजत्वाभावात् । अप्राप्यकारि च चक्षुरित्युक्तप्रायम् । श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षमिति वृद्धसाङ्ख्याः । अत्र श्रोत्रादीनामचेतनत्वात्तवृत्तेः सुतरामचैतन्यमिति कथं प्रमाणत्वम् । चेतनसंसर्गात्तच्चैतन्याभ्युपगमे वरं चित्त एव प्रामाण्यमभ्युपगन्तुं युक्तम् । न चाविकल्पत्वे प्रामाण्यमस्तीति यत्किश्चिदेतत् । 'प्रतिविषयाध्यवसायो दृष्ट इति प्रत्यक्षलक्षणमितीश्वरकृष्णः। तदप्यनुमानेन व्यभिचरितत्वादलक्षणम् । अथ प्रतिराभिमुख्ये वर्तते तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षमित्युच्यते तदप्यनुमानेन तुल्यम् । घटोऽयमितिवदयं पर्वतोऽग्निमानित्याभिमुख्येन प्रतीतेः । अथ 'अनुमानादिविलक्षणो अभिमुखोऽध्यवसायः प्रत्यक्षम् । तर्हि प्रत्यक्षलक्षणमकरणीयमेव शब्दानुमानलक्षणविलक्षणतयैव तत्सिद्धेः। ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव विशेदः प्रत्यक्षम् इति प्रत्यक्षलक्षणमनवद्यम् ॥ ३०॥ प्रमाणविषयफलप्रमातृरूपेषु चतुर्पु विधिषु तत्त्वं परिसमाप्यते विषयादिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयातिप्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥१-१-३१॥ प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये प्रमाणस्येति १ सांस्यकारिका ५। २ १-१-१३।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy