________________
सूत्र १-१-३१
[ प्रमाण
प्रमाणसामान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थम् । जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षादीनां विषयो गोचरो द्रव्यपर्यायात्मकं वस्तु । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं धौव्य1 लक्षणम् । पूर्वोत्तरविवर्त्तवर्त्यन्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत् । परियन्त्युत्पादविनाशधर्माणो भवन्तीति पर्याया विवर्त्ताः । तच्च ते चात्मा स्वरूपं यस्य तद्रव्यपर्यायात्मकं वस्तु परमार्थसदित्यर्थः । यद्वाचकमुख्यः “ उत्पादव्ययधौव्ययुक्तं सद् " इति पारमर्षमपि “ उपणे इवा विगमे इवा धुवे इवा ” इति । तत्र द्रव्यपर्यायग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चान्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः । यच्छ्रीसिद्धसेनः
"
3
46
दोहिं वि नएहिं नीयं, - सत्थमलूण्ण तहवि मिच्छत्तं । जं सविसयप्पहाण, तणेण अन्ननिरविक्खा " ॥ ३१ ॥ कुतः पुनर्द्रव्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमात्रं पर्यायमात्रमुभयं वा स्वतन्त्रमित्याह
४०
॥ अर्थक्रियासामर्थ्यात् ॥ १-१-३२ ॥
अर्थस्य हानोपादानादिलक्षणस्य क्रिया निष्पत्तिस्तत्र सामर्थ्यात् द्रव्यपर्यायात्मकस्यैव वस्तुनोऽर्थक्रियार्थसमर्थत्वादित्यर्थः ॥ ३२ ॥ यदि नामैवं ततः किमित्याह —
॥ तल्लक्षणत्वाद्वस्तुनः ॥ १-१-३३ ॥ तदर्थक्रियासामर्थ्य लक्षणमसाधारणं रूपं यस्य तत्तल्लक्षणं तस्य
१ तत्त्वार्थाधिगमसूत्र ५-२९|
२ छाया - उत्पद्यते वा विगच्छति ( नश्यति) वा ध्रुवयति वा । ३ संमतितर्क तृतीयकाण्डगाथा ४९ ।