________________
मीमांसा ]
सूत्र १-१-३३ भावस्तत्त्वं परमार्थसतो रूपस्य । अयमर्थः । अर्थक्रियार्थी हि सर्वः प्रमाणमन्वेषते अपि नामतः प्रमेयमर्थक्रियाक्षमं विनिश्चित्य कृतार्थो भवेयमिति । न व्यसनितया । तद्यदि प्रमाणविषयोर्थोऽर्थक्रियाक्षमो न भवेत्तदा नासौ प्रमाणपरीक्षणमाद्रियेत । यदाह-"अर्थक्रियासमर्थस्य विचारैः किं तदर्थनाम् । षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया" इति । तत्र न द्रव्यैकरूपोऽ र्थोऽर्थक्रियाकारी । स ह्यप्रच्युतानुत्पन्नस्थिरैकरूपः कथमर्थक्रियां कुर्वीत क्रमेणाक्रमेण वा । अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र न क्रमेण । स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् । समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तः। समर्थोऽपि तत्तसहकारिसमवधाने तं तमर्थ करोतीति चेत् । न तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात् । सापेक्षमसममिति हि किं नाश्रौषीः । न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तानपेक्षत इति चेत् । तत्कि स भावोऽसमर्थः । समर्थश्चेत् किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते न पुनर्झटिति घटयति । ननु समर्थमपि बीजमिलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथा । तत् किं तस्य सहकारिभिः किश्चिदुपक्रियत न वा । नो चेत् । स किं पूर्ववन्नोदास्ते । उपक्रियेत चेत् । स तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियेत इति निर्वचनियम् । अभेदे स एव क्रियते इति लाभामिच्छतो मूलक्षतिरायाता। भेदे स कथं तस्योपकारः । किं न सह्यविन्ध्यादेरापि, तत्सम्बन्धात्तस्यायमिति चेत् । उपकार्योपकारयोः कः सम्बन्धः । न संयोगो द्रव्ययोरेव तस्य भावात् । नापि समवायत्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतसम्बन्धिसम्बन्धत्वं युक्तम् । तत्त्वे
१ इला-पृथिवी । उत्तमा मृदित्यर्थः । ---