________________
सूत्र १-१-३३
[ प्रमाण
वा तत्कृत उपकारोऽस्याभ्युपगन्तव्यः तथा च सत्युपकारस्य भेदाभेद कल्पना तदवस्यैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धि सम्बन्धत्वम् । सम्बन्धत्वे समवायस्य विशेषण विशेष्यभावो हेतुरिति चेत् । उपकार्योपकारकभावाभावे तस्यापि प्रतिनियमहेतुत्वाभावात् । उपकारे तु पुनर्भेदाभेदविकल्पद्वारेण तदेवावर्तते । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । नाप्यक्रमेण । न ह्येको भावः सकलकालकलाभाविनीर्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा तथापि द्वितीयक्षणे किं कुर्यात् । करणे वा क्रमपक्षभावी दोषः । अकरणेऽनर्थक्रियाकारित्वादवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिबलात् व्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्त - यति तदपि स्वव्याप्यं सत्त्वमित्यसन् द्रव्यैकान्तः । पर्यायैकान्तरूपोऽपि प्रतिक्षणविनाशी भावो न क्रमेणार्थक्रियासमर्थो देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशकालक्रमश्चाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहुः “ यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ।। " न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति । सन्तानस्यावस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणभ्यः कश्चिद्विशेषः । अथाक्षाणकत्वं न सुस्थितः पर्यायैकान्तवादः । यदुक्तम् “ अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उत्तिष्ठ भिक्षो फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ॥ इति । नाप्यक्रमेण क्षणिकेऽर्थक्रिया सम्भवति । स ह्येको रूपा - दिक्षणो युगपदनेकान् रसादिक्षणान् जनयन् यद्येकेन स्वभावेन जनयेत्तदा तेषामेकत्वं स्यादेकस्वभावजन्यत्वात् । अथ
""
४२