________________
मीमांसा ]
सूत्र १-२-५ द्धोऽपि नोपलब्धः सूक्ष्मदर्शिनापि न्यायवादिना । कारणविशेषदर्शनाद्धि सर्वः कार्यार्थी प्रवर्तते । स तु विशेषो ज्ञातव्यो योऽव्यभिचारी । कारणत्वनिश्चयादेव प्रवृत्तिरिति चेत् । अस्त्वसौ लिङ्गविशेपनिश्चयः प्रत्यक्षकृतः । फले तु भाविनि नानुमानादन्यन्निबन्धनमुत्पश्यामः ॥ कश्चिद् व्यभिचारात् सर्वस्य हेतोरहेतुत्वे कार्यस्यापि तथा प्रसङ्गः । बाष्पदेरकार्यत्वान्नेति चेत् । अत्रापि यद्यतो न भवति न तत्तस्य कारणमित्यदोषः । यथैव हि किंचित् कारणमुद्दिश्य किंचित्कार्य, तथैव किंचित् कार्यमुद्दिश्य किंचित् कारणम् । यददेवाजनक प्रति न कार्यत्वं, तद्वदेवाजन्यं प्रति न कारणत्वमिति नानयोः कश्चिद्विशेषः । अपि च रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छता न्यायवादिनेष्टमेव कारणस्य हेतुत्वम् । यदाह " एकसामयधीनस्य रूपादेरसतो गतिः। हेतुधर्मानुमानेन धूमेन्धनविकारवत्" इति । न च वयमपि यस्य कस्यचित् कारणस्य हेतुत्वं ब्रूमः । आप तु यस्य न मन्त्रादिना शक्तिपतिबन्धो न वा कारणान्तरवैकल्यम् । तत्कुतो विज्ञायत इति चेत् । अस्ति तावद्विगुणितादितरस्य विशेषः। तत्परिज्ञानं तु प्रायः पांशुरंपादानामप्यस्ति। यदाहुः-" गम्भीरगर्जितारम्भनिभिन्नगिरिगहराः। त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ॥१॥ रोलम्बगवलव्यालतमालमलिनत्विषः। वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२॥” इति । कार्य यथा । वृष्टौ विशिष्टनदीपूरः, कृशानौ धूमश्चैतन्य प्राणादिः । पूरस्य वैशिष्टयं कथं ज्ञायत इति चेत् । उक्तमत्र नैयायिकैः । यदाहुः
१ ' प्रत्यक्षतः ' इति क्वचित्पाठः । २ पांशुरपादाः-धूलिधूसरपादाः । अनुपदमेवागताः प्रकरणानभिज्ञा इत्यर्थः । ३ हरिभद्रसूरिकृतस्य षड्दर्शनसमुच्चयस्य द्वितीयाधिकारे श्लोक २० ।