SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सूत्र १-२-५ ६४ - [प्रमाण " आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटः फेनछटाङ्कितः ॥१॥ वहद्बहलशेवालफलशाद्वलसकुलः।नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ॥२॥” इति, धूमप्राणादीनामपि कार्यत्वनिश्चयो न दुष्करः। यदाहुः-" कार्य धूमो हुतभुजः कार्यों धर्मानुवृत्तितः। स भवंस्तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥१॥" कारणाभावेऽपि कार्यस्य भावेऽहेतुत्वमन्यहेतुत्वं वा भवेत् । अहेतुत्वे सदा सत्त्वमसत्त्वं वाँ । अन्यहेतुत्वे दृष्टादन्यतोऽपि भवतो न दृष्टजन्यताऽन्याभावेऽपि दृष्टाद्भवतो नान्यहेतुकत्वमित्यहेतुकतैव स्यात् । तत्र चोक्तम्, “यस्त्वन्यतोऽपि भवन्नुपलब्धो न तस्य धूमत्वं हेतुभेदात् कारणं च वह्निधूमस्य" इत्ययुक्तम्, आप च, अग्निस्वभावः शक्रस्य मूर्दा यद्यग्निरेव सः। अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥१॥" इति । तथा चेतनां विनानुपपद्यमानः कार्य प्राणादिरनुमापयति तां श्रावणत्वमिवानित्यताविपर्यये बाधकवशात्सत्त्वस्येवास्यापि व्याप्तिसिद्धरित्युक्तप्रायम् । तन्न प्राणादिरसाधारणोऽपि चेतनां व्यभिचरति । किं च नान्वयो हेतो रूपं तदभावे हेत्वाभासाभावात् । विपक्ष एव सन् विरुद्धो विपक्षेऽप्यनैकान्तिकः सर्वज्ञत्वे साध्ये वक्तृत्वस्यापि व्यतिरेकाभाव एव हेत्वाभासत्वे निमित्तं नान्वयसन्देह इति न्यायवादिनापि व्यतिरेकाभावादेव हेत्वाभासावुक्तौ । असाधारणोऽपि यदि साध्याभावेऽसन्निति निश्चीयेत तदा प्रकारान्तराभावात्साध्यमुपस्थापयन्नानकान्तिकः स्यात् । अपि च यद्यन्वयो रूपं स्यात्तदा यथा विपक्षैकदेशकृत्तेः १ ' शक्यते तेन ' इत्यपि । २ 'भावयेत् ' इति क्वचित्पाठः। ३ ' भावयेत् ' इति क्वचित्पाठः।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy